________________
शास्त्रार्थकलोपस्कृतः।
२८५ साधुत्वं प्रियकारित्वं साधुत्वघटकक्रियान्वयी सम्बग्धः कर्मप्रवचनीयाथे। तृयीये भागः स्वत्वाश्रयः प्रत्याद्यर्थः। तदन्वयी सम्बन्धो द्वितीयार्थः।
इत्थं चास्मत्सम्बन्धी यो भागः स्यादिति बोधः । चतुर्थ कर्मण्येव द्वितीया, षत्वाबाध एव संज्ञाफलम । प्रतिश्च निरर्थकः गृहे गृहेऽश्व इत्यादाविव व्यापकताया द्विरुक्तिबललभ्यत्वात्प्रतिशब्दस्य व्यापकतार्थ कत्त्व उक्ता. थेकत्वेन गृहं व्याप्नुवतेऽश्वा इत्यादाविव द्विरुक्तिरेव न स्यात् ।।
न च प्रतिशब्दस्यापि ब्यापकतार्थकत्वं प्रतिदिनमधीत इत्यादौ वलू-- तम, द्विरुक्तरपि वृक्षं वृक्षं सिञ्चतीत्यादी क्लप्तमिति प्रकृते सम्भेदेनान्यतरवैयमिति न्यायाद् द्वयोरेव व्यापकताबोधकत्वमवर्जनीयमिति वाच्यम् ? प्रतिमासमधोतइत्यादावव्ययीभावे हि प्रथमातिरिक्तविभक्तरसाधुत्वेन प्रतिशब्देन मासान्वितव्यापकत्वं क्रियायां बोध्यते। विभक्तिः साधुत्वार्था । ___ वृक्षं वृक्षं प्रतिसिञ्चतोत्यत्र तु सेके द्वितीयार्थकर्मत्वावरुद्धप्रकृत्य-- र्थवृक्षविशेषितव्यापकता बोधयितुं न शक्यते । एकविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वे व्युत्पत्तिविरोधात् ।।
__ कर्मत्वसम्बन्धस्यैव च व्यापकताघटकत्वेन स्वीकरणीयतया वृत्त्या नियामकस्य तस्य तथात्वासम्भवाच्च | तस्य सेककमेव आश्रयतासम्बन्धघटितव्यापकताप्रत्यायनमपि न युज्यते ? प्रकृत्यर्थसुबर्थयोरन्तरा नका. थोतिरिक्तभानस्य व्युत्पत्तिविरुद्धत्वात् । नामूढस्येतरोत्पत्तेः, नानुपमृद्य प्रादुर्भावादित्यादौ नमार्थमात्रस्य पश्चम्यथे हेतुताया विशेषणत्वेन प्र. कृत्यर्थस्य च विशेष्यत्वेनान्वयात् । तस्मात्प्रतिरनर्थक एव ।।
द्विरुक्तान्वये तात्पर्यबलाच्च सेचनकर्मत्वे वृक्षादेापकत्वं संसर्गत
परिचायकस्वरूपमिति-निरूपकत्वसम्बन्धेन तस्या विद्यु त्यन्वयः । तथा च वृक्षनिष्ठपरिचायकतानिरूपिका विद्युत्प्रकाशनवतीत्यर्थः । षत्वबाध इति-कर्मप्रवचनीयसंज्ञया. गत्युपसर्गसंज्ञयोर्वाधेन "उपसर्गात्सुनोती' ति न षत्वम् । द्विरुक्तिरेव न स्यादिति-उक्तार्थानामप्रयोग इतिशाब्दिकसिद्धान्तादिति तत्वम् ।
__ प्रथमातिरिक्तत्यादि-प्रतिशब्दस्य व्यापकत्वार्थकत्वमिति द्रढयितुमेतदुक्तिः । व्यापकताघटकत्वेनेति-व्यपकतावच्छेदकत्वेनेति । तस्य तथात्वाऽसम्भवात इति । कर्मत्वाख्यसम्बन्धस्य व्यापकतावच्छेदकत्वाऽसम्भवात् । व्युत्पत्तिविरुद्धत्वादिति-प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वमिति व्युत्पत्तिविरुद्धत्वादित्यर्थः।
संसर्गतयैवेति-एवञ्च प्रतेापकत्वमों नैव ।