________________
२८४
व्युत्पत्तिवादः - यज्ञमनु प्रावर्षदित्यादावनुशब्दार्थः कारकत्वरूपं हेतुत्वम् । अनुलक्षणे इत्यत्र कर्मप्रवचनीयसत्रज्ञाविधायकसूत्रे लक्षणपदस्य कारकहेतुपरत्वात् । तत्र च यज्ञान्वित्तस्याधेयत्वरूपद्वितोयार्थस्यान्वयः। हेतुतायाश्च निरूपकत्वसम्बन्धेन वृष्टावन्वयः । जन्यत्वं वानुशब्दार्थः। तत्र 'निरूपितत्वरूपद्वितीयार्थस्य यज्ञान्वितस्यान्वयः। जन्यतायाश्चाश्रयत्वसम्बन्धेन वृष्टावन्वयः। अन्वर्जुनं योद्धार इत्यत्राप्रकर्षरूपं होनत्वमनुशब्दार्थः । अर्जुनावधिकत्वं द्वितोयान्तार्थस्तस्य चापकर्षेऽन्वयः। ___ अवधित्वस्यापादानताकपत्वेऽपि क्रियान्वयाभावान्न पञ्चमोप्रसक्तिः । अस्मादयं दोघं इत्यादौ भवतीत्यस्याध्याहारेणैव पञ्चम्युपपादनात् । अतः षष्ठयपवादतानिर्वाहः । ___ वृक्षं प्रति विद्योतते विद्युत, मातरं प्रति साधुः, यो मां प्रति स्या. त्, वृक्षं प्रति सिञ्चतीत्यादी लक्षणेत्थं भूतेत्यादिसूत्रानुशिष्टकर्मप्रवचनीयसकप्रत्यादिशब्देषु प्रथमे परिचायकत्वरूपं लक्षणत्व परिशेष. रूपं लक्ष्यत्वं वा कर्मप्रवचनीयार्थः । वृक्षप्रकाशेन विद्याद्विद्योतनज्ञानाद् वृक्षस्य परिचायकता। द्वितीयार्थश्चाधेयत्वं निरूपितत्वं वा। द्वितीये
स्त्रावच्छिन्नभेदस्येति । स्वावच्छिन्न प्रतियोगिताकभेदस्येति । अत्र स्वपदेन शुक्लदशमीप्रागभावस्य ग्रहणम्
ननु पूजायाश्शुक्लदशमीप्रागभावाधिकरणत्वन्नवास्ति शुक्ल दशमीप्रागभावाधिकरणत्वस्य पूजानधिकरणतिथिष्वपि पूर्वोक्तभेदविशिष्टकालिकविशेषणतासम्बन्धेन विद्यमानत्वात् । नच यत् यत् दशमीपूर्व विद्यमानं नवमीमारभ्य पर्वतराजपुत्रीपूजनविहितन्तत्सद्दशमीप्रागभावव्यापकत्वस्य विक्षणेन न सामान्यतिथिष्वतिप्रसक्तिरिति वाच्यम् ? एवन्निवेशेन दोषवारणेऽपि अननुगमदोषस्य तत्तद्व्यक्तिभेदेन सौकर्यात् ।
अत्र गृ० त० क० मान्याः पर्वतराजपुत्रीपूजायां शुक्लदशमीप्रागभावावच्छि. न्नप्रतियोगिताकभेद एव गृह्यत इति ग्रन्याशयः । अत्र भेदश्च स्वाधिकरणत्ववन्निष्ठाऽभावप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नावच्छेदकताकप्रतियोगिताक एव । स्वाधिकरणता च स्वाधिकरणकृष्णनवमीप्रागभावावच्छिन्नप्रतियोगिताकभेद विशिष्टकालिकसम्बन्धेन । एवञ्च सम्बन्धघटकीभूतस्वपदेन तत्तव्यक्तरेव ग्रहणमिति न काऽपि हानिरित्यलम् ।
वृत्त्यनियामकसम्बन्धस्य प्रतियोगितावच्छेदकसम्बन्धत्वाभावादाह जन्यत्वं वेति ।
ननु सर्वश्रावध्यर्थे पञ्चम्या विधानमेव योग्यमिति दितीया कथमित्याशयेनाह अवधित्वस्येति ।