________________
शास्त्रार्थकलोपस्कृतः । एतेन कृष्णनवमोप्रागभावाधिकरणप्रतियोगिकभेदस्याव्यातकतया तत्सामान्यभेदनिवेशे भाविकृष्णनवमीप्रागभावाधिकरणस्वमादाय नाप्र. सिद्धिः।
तथा सत्यपि तत्तद्दशमीप्रागभावाधिकरणकालस्य स्वाधिकरणकृष्णनवमीप्रागभावावच्छिन्नभेदवत्त्वसम्बन्धेन तत्तत्प्रागभावाधिकरणत्वाक्षतेः। न चैवमपि व्यवहितपूर्वकृष्णनवमीप्रागभावावच्छिन्नभेद घटितसम्बन्धेनाव्यवहितपूर्वकृष्णनवमीपूर्वतिथीनामपि तत्तद्दशमोप्रामभाववत्त्वात्तदधिकरणतिथिव्यापकत्वं पूजायां न सम्भवतीति वाच्यम् ?
स्वावच्छिन्नकृष्णनवमीप्रागभावाधिकरणत्वसम्बन्धन स्वावच्छिन्नभेदस्यैव प्रागभावसम्बन्धे निवेशनीयस्वात् । स्वाधिकरणनिष्ठाभावप्रतियोगितानवच्छेदकत्वमपि तादृशावच्छेदकत्वसम्बन्धेन स्वाच्छिन्नन स्य भेदः । अतस्तादृशावच्छेदकत्वत्वावच्छिन्नाभावनिवेशे यत्किबिहशमोप्रागभावाधिकरणनिष्ठाभावप्रतियोगितामादायासिद्धिवारणाय वि. शिष्य तत्तत्प्रागभावरूपस्वपदार्थस्य सम्बन्धमध्ये प्रवेश्यतयाननुगम इति निरस्तम् । देशरूपा सीमा च काशोतः कौशिकी यावद् यातीत्यादौ । तत्र कौशिक्याः गमनसोमात्वं प्रतीयते । तच्च काशीपूर्वकौशिकोपश्चिमदेशव्यापकगमनानधिकरणत्वम् । यावत्पदेन च कौशिक्यनधिकरणकत्वे सति काशीपूर्वकौशिकीपश्चिमदेशव्यापकत्वं गमने प्रत्याय्यते । तत्र द्वित्तीयार्थोऽवधित्वमवधिमत्त्वं वा प्रतीचीवाद्यन्वयि, निष्कर्षः पूर्ववत्स्वयमूहनीयः।
अभिविध्यर्थो यावच्छब्दः कार्तिकमारभ्य चैत्रं यावच्छीतं भवतीत्यादौ काशीतः पाटलिपुत्रं यावद् वृष्टो देव इत्यादाभिविधिस्तत्पर्यन्ताभिव्याप्तिः। एवं च प्रथमे कार्तिकपूर्वकालोत्तरकालपूर्वकालव्यापकत्वं चैत्रोचरकालाऽवृत्तित्वसहितं शीतभवने द्वितीये च काशीपश्चिमदेशपू. र्वपाटलिपुत्रपूर्वदेशपश्चिमदेशव्यापकत्वं पाटलिपुत्रपूर्वदेशावृत्तित्वसहितं वृष्टौ यावता प्रत्याय्यते । विशेषः पूर्ववत् । यावच्छब्दसमानार्थका. शब्दस्थलेऽपि दर्शितैव रीतिरवसेया। तद्योगे च पञ्चमी साधुः ।
स्वाधिकरणेति--अत्र स्वपदं दशमीप्रागभावपरम् । तत्सामान्यभेदनिवेश इति-कृष्णनवमीप्रागभावत्वातिरिक्तधर्मानवच्छिन्नप्रामभावनिष्ठावच्छेदकताभिन्नाबच्छेदकत्वाऽनिरूपितप्रतियोगिताकभेदस्य निवेश इत्यर्थः ।।
तथा सत्यपोति-उक्तसामान्यभेदस्याऽप्रसिद्धत्वेऽपीत्यर्थः ।