________________
२८६
व्युत्पत्तिवादः ।
यैव भासते । यदि च वृक्षं प्रति सिञ्चतीत्यादावुपसर्गस्य प्रतेर्वाच्यो द्योत्यो वा कचिदन्योऽर्थस्तदास्तु स एवात्रापि तदर्थः ।
प्रयोगवत्तादृश
अत एव तस्येवास्यापि प्रतिशब्दस्य प्रयोगो नानर्थकः । वस्तुतोऽनर्थकयोः कर्मप्रवचनीयाधिपरिशब्दयोः प्रतेरपि प्रयोगस्य प्रयोजनान्तरानुपपत्तिश्चिन्त्या । प्रतेर्यत्र व्यापकतार्थकदवं तत्र प्रतिवृक्षं सिवतोत्यव्ययीभावसमास एव नियतः । तदर्थकाव्ययस्याव्ययीभावसमासविधेर्विभाषाधिकारीयताविरहेण नित्यत्वादतो वोप्सया प्रतिवृक्षं सिचोतिषद् वृक्षं प्रतिसिञ्चतीति न प्रयोगः । यत्र व्यापकत्वार्थकेनाव्ययेनाव्ययीभाव समासस्तदुत्तरं सर्वत्र प्रथमा विभक्तिरेव, नतूपकुम्भे गच्छतीतिवत् प्रतिगृहेऽश्वा इत्यादिरपि प्रयोगः । उक्तयुक्त्या तत्र प्रतिनाऽश्वादौ गृहादिव्यापकताया बोधयितुमशक्यत्वात् ।
तदाधारसादिरूप सप्तम्याद्यर्थे च समासार्थस्य गृहादिव्यापकत्वस्याश्रयतासम्बन्धेन तदर्थस्य व्यापकरूपधर्मिणो वा sभेदसम्बन्धेनान्वये मेयत्वे घटः घटवृत्तौ घट इत्यादिप्रयोगवारणाय कल्य्यायाः सप्तम्यर्थाधारताया माश्रयत्व संबन्वेनाभेदसंम्बन्धेन वा प्रकृत्यर्थानन्वयव्युत्पत्ते = विरोधात् । उपकुम्भे निवेहि, उपकुम्भादागतः उपकुम्भेन कृत इत्यादौ व विवक्षितस्याधारखापादानत्वकर्तृत्वादौ कुम्भसमीपादेराधेयतासम्बन्धेनान्वयस्याधेयत्वादौ निरूपितत्व सम्बन्धेन तदन्वयस्य वा बोघे न कश्चिद् व्युत्पत्तिविरोध इत्युपपद्यन्ते तथा प्रयोगा इति ध्येयम् ।
त्वां च मां चान्तरेत्यादावन्तरान्तरेण युक्त इति द्वितीयाया निरूपितत्वमर्थः I तस्यान्तरापदार्थतावच्छेदक मध्यत्वेऽन्वयः । एवमन्यत्रापि तदर्थस्तूक्तदिशा स्वयं परिच्छेद्यः
इति द्वितीयाविभक्तयः
अस्याऽपोति — वृक्षं वृक्षं प्रति सिञ्चतीतिवाक्यघटकस्याऽपीत्यस्येति । आश्रयता - सम्बन्धेनेति—अन्वये इत्यनेन सह सम्बन्धः । अभेदसम्बन्धनेति - एवञ्च गृहव्यापकम् यदाधारत्वं तदाश्रयीभूतोऽश्व इतिशाब्दः । मध्यत्वेऽन्वय इति - एवञ्च त्वन्निरूपितम् मन्निरूपितश्च मध्यत्वम्प्रत्येतव्यम् ।
इति श्रीत्रिकोणयन्त्रसन्निभकाशीप्रयामा योध्याख्यतीर्थत्रयमध्यभूमिजौनपुर बदलापुर उदयपुरगेल्हवाभिजन गर्गवंशीय सरयूपारीणशुक्लश्रोवेणो माधव शास्त्रिकृतशास्त्रार्थकलासहिते व्युत्पत्तिवादे द्वितीयाकारकं समासम् ।