________________
गूढार्थतत्वालोकव्याख्यासहितः ।
७३
पोधो भवति । इयांस्तु विशेषो यदस्मन्मतेऽसौ समासः षष्ठीतत्पुरुषो भवन्मते कर्मधारय इति । एवं च पुरुषविशेष्य का भेदसंसर्गकराज संबन्धिप्रकारक बोधे राजपदाव्यवहितोत्तरवर्त्ति पुरुषपदत्यप्रकारकज्ञानत्वेन हेतुत्वमुभयवादिसिद्धमेव भेदान्वयबोधे तादृशानुपूर्वीज्ञानहेतुताकल्पनमधिक मिति वाच्यम् । उक्ताभेदान्वयबोधे तथाविधानुपूर्वीज्ञानहेतुतायां पर्यायशब्दान्तरघटितानुपूर्वीज्ञानजन्यतथाविधान्वयबोधे व्यभिचारवारणाय तादृशानुपूर्वीज्ञानानन्तर्यस्य कार्यतावच्छेदककोटावश्यं निवेशनीयतया तत्र विषयनिवेशे प्रयोजनाभावेन तादृशकार्यतावच्छेदकस्यैव भेदान्वयबोधसाधारण्येनानुपूर्वीज्ञानस्य भेदान्वयबोधे हेतुताया अनाधिक्यात् । एवं तण्डुलं पचतीत्यादावपि पाकादिरूपधात्वर्थे कर्मत्वादिसंबन्धेन तण्डुलादेरन्वयबोधः स्वीकर्तुमुचितः । कर्मत्वस्य पाकाद्यंशे प्रकारत्वे तत्र तत्र द्वितीयादेः शक्तिकल्पने तादृशवाक्यजन्यशाब्दबोधे कर्मस्वादिसंसर्गस्याधिकस्य विषयताकल्पने च गौरवात् । तण्डुलं पचतीत्यादिवाक्यजन्यशाब्दबोध सामग्री बलात्तण्डुलः पचतीत्यादावपि तथाविधान्वयबोधापत्तिस्तु न संभवति । तादृशान्वयबोधे द्वितीयान्ततण्डुलपदत्वाद्यबेच्छिन्नधर्मिक पचतीत्यादिसमभिव्याहारज्ञानस्य हेतुतया तण्डुलः पचतीत्यादौ ताडशसामथ्र्या
युक्त्या संख्यावाचकत्वमप्रतिक्षिप्तं वेदितव्यं तस्य लाभासंभवात् अबुभुत्सितार्थघटितपरम्परासंबन्धघटकतया संख्याभानोपगमे वा संख्यार्थकत्वमपि न स्वीकरणीयमेवेति । यदस्मन्मते असोसमासः षष्ठीतत्पुरुषो भवम्मते कर्मधारयः तीति । प्रागेव व्याख्यातमेव तत् । विषयनिवेशे प्रयोजनभावेनेति । अथाकाङ्क्षाज्ञानेऽप्रामाण्यग्रहे शाब्दबोधवारणार्य कारणतावच्छेदककोटावप्रामाण्यमहाभाववैशिष्ट्य मवश्यं प्रवेशनीयं तथासति कार्यतावच्छेदककोटौ विषयविशेषानिवेशे राजपुरुषः भूतलंघट इत्यादिद्विविधाकाङ्क्षाग्रहसत्त्वे तत्रैकत्रप्रामाण्यग्रहे वाक्यार्थद्वयस्यापि शाब्दबोधानुपपत्तिः स्यादिति विषयनिवेश आवश्यक एवेतिचेन राजपुरुषोनृपपुरुषइत्यादिद्विविधानुपूर्वीज्ञानसत्त्वे ह्येकत्राप्रामाण्यम हे च विषयविशेषप्रवेशेऽपि शाब्दानुपपत्तेस्तादवस्थ्यादप्रामाण्यमहाभावविशिष्टतत्तत्कारणानन्तर्यस्यैव कार्यतावच्छेदकत्व घटकताया वाच्यतया दोषाभावात्कार्यतावच्छेदके विषयतानिवेशो नावश्यकः । नचाप्रामाण्यग्रहेऽप्रामाण्यग्रहे कार्यमुत्पद्यते तत्रापि पुनरप्रामाण्यग्रहे नोत्पद्यत इत्यप्रामाण्यज्ञानस्य तत्तद्व्यक्तित्वेनैवाभावः कारणतावच्छेदककुक्षौ प्रवेश्यस्तथाचैकविषयकशाब्दानुकूलाकाङ्क्षाज्ञानद्वयस्थलीयैकतराप्रमाण्यज्ञानव्यक्तेरभावो न निवेशनीय इति दोषाभावात्कार्यतावच्छेदकेऽप्रामाण्यग्रहाभावप्रवेशी नावश्यक इतिवाच्यम् राजपुरुष इत्याकाङ्क्षाज्ञानं प्रथममनन्तरमप्रामाण्यज्ञानास्कन्दितं नृपपुरुषइति ज्ञानं तत्र द्वितीयज्ञानतृतीयक्षणे शाब्दवारणाय तदप्रामाण्यज्ञानव्यक्तेरभावस्य कारणतावच्छेदके प्रवेश्यतया द्वितीयक्षणे शाब्दानुपपत्तिवारणाय कार्यतावच्छेदकेऽपि तन्निवेशस्यावश्यकत्वात् । नच तदप्रामाण्यज्ञानस्य सोत्पत्तिद्वितीयक्षणावच्छिन्नस्यैवाभावः प्रवेश्यस्तथाच द्वितीयक्षणे नानुपपतिसंभव इति वाच्यम् क्षणस्योपाधिविशेषावच्छिन कालरूपस्योपाधिरूपस्य वाप्रामाण्यग्रहे विशेषणीयतयोपाधीनामानन्त्येन विनिगमनाविरहेण सर्वेषां विशेषणत्वापत्त्यैकव्यक्तेरप्यनन्ताभावानां कारणतावच्छेदकत्वप्रसङ्गेन महागौरवात्कार्यतावच्छेदकेऽप्रामाण्यग्रहाभावप्रवेशस्यैवोचितत्वादिति । नन्वेवमाकाङ्क्षाज्ञानत्वावच्छिन्ने योग्यताज्ञानत्वाद्यवच्छिन्नं विनापि स्वाव्यवहितोत्तरत्वरूपख कार्यतावच्छेदकावच्छिन्नोपधायकतायाः सत्त्वेन खावच्छित्रासमवधानप्रयुक्तफलोपधायकत्वाभाववत्तदवच्छिन्नकत्वरूपस्य तत्सहकारित्वस्य योग्यताज्ञानादिष्वसंभवेन राजपुरुष इत्याद्याकाङ्क्षाज्ञानाद्योग्यताज्ञानाद्यसद्भावेऽपि कुतो न राज संबन्धिपुरुषादिबोधप्रसङ्ग इति चेन्न तादृशशाब्दबुद्धित्वावच्छिन्न स्यापादकाभावादिष्यतएव यवहितोत्तरत्वावच्छिन्नस्थ चोत्पत्तिः । नत्र राजसम्बन्धिपुरुष । दिशाब्दबोधे योग्यताज्ञानस्य कारणत्वेन केवलादपि तस्मात्कुतो न तादृशशाब्दबुद्धिलावच्छिन्नस्योत्पत्तिरिति वाच्यम् आकाङ्क्षाज्ञानमन्तरेण योग्यताज्ञानस्य फलानुपधायकत्वेनाकाङ्क्षाज्ञानस्य योग्यताज्ञान सहकारित्यात् तत्संबन्धेन तत्प्रकारकस्य तत्संबन्धावच्छिन्नाधेयतासंबन्धेन किञ्चित्प्रकारकतद्विशेष्यकस्य तत्संसर्गव्याप्यवत्ताज्ञानस्य च योग्यताज्ञानत्वेन तेषां परस्परजन्यबोधे व्यभिचारवारणाय तत्तद्योग्यताज्ञानाव्यवहितोत्तरत्वस्यैव कार्यतावच्छेदकत्वाच्च । अथयद्यपि यत्कार्यस्य यद्यत्कारणनिरूपितकार्यतावच्छेदकाक्रान्तत्वं तावत्कारणसम्मिलनादेव तत्कार्योत्पत्तिरिति नियमेन योग्यताज्ञानाद्येकतर कारणविगमे राजसम्बन्धिपुरुषादिशाब्दबोधो माजायतां तथापि परत्र राजसंबन्धि पुरुषादिगोचरबोधसंक्रान्तये तादृशशाब्दबोधकारणत्वज्ञानाधीन राजपुरुषइत्या दिवाक्यरचना कथं घटताम् तादृशकारणत्वग्रहासंभवात् तादृशशाब्दबुद्धिलं कार्यतानवच्छेदकं सद्राजपुरुषइति वाक्यजन्यज्ञानमात्रे कथंवा वर्ततां नियामकाभावात् शाब्दत्वस्य कार्यतानवच्छेदकत्वे गर्तं तत्सद्भावप्रत्याशया साधकाभावात् तत्तत्कारणकार्यतायामेकधर्मावच्छिन्नत्वस्य व्याप्यव्यापकभावापनानेकधर्मावच्छिन्नस्य षा ज्ञानाधीनया कारणसंघटनवार्तयापि गर्त शाब्दबोधस्थलइति चेदुच्यते - कारणानन्तर्यस्य कार्यतावच्छेदकताच न
१० व्युत्प०