________________
गूढार्थतत्वालोकव्याख्यासहितः ।
प्रत्ययानामिति व्युत्पत्तेर्धातूनां च सुब्विभक्तयप्रकृतित्वात् प्रकृत्येक देशार्थेऽपि प्रत्ययार्थान्वयोपगमे पचन्तं पश्यतीत्यादितः पचमानं पश्यतीत्यादितश्च पाकादौ द्वितीयाद्यर्थकर्मत्वाद्यन्वययोधप्रसङ्गात् । एकत्रविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वेनान्वयस्याव्युत्पन्नतया तत्र प्रत्ययार्थविशेषणपाकादेर्न
४३
च्छिन्ननिरूपितवृत्तिप्रयोज्यविषयत्वमिह विवक्षितं येन तादृशोद्देश्यतावच्छेदकप्रातिपदिकत्वव्याप्यपाचकपदाद्यानुपूर्वीविशेषावच्छिन्ननिरूपितवृत्तेरप्रसिद्ध्या भवेदुक्तदोषः । किन्तु निरुक्तोद्देश्यतासमानाधिकरणनिरूपकता निरूपितनिरूयतावद्वृत्तिप्रयोज्यविषयत्वमेव पाचकादिपदे तादृशी निरूपकता कृत्त्वव्याप्यधर्मावच्छिन्नैव तन्निरूपितनिरूप्यतावद्वृत्तिप्रयोज्यविषयत्वस्य कर्तरि सत्त्वे पाककर्तर्यपि सत्त्वाद्विशिष्टस्यानतिरेकान्न दोषः घञन्तादिस्थले च तादृशी निरूपकता घनन्तसमुदायत्वावच्छिन्नैवेति तत्रापि सङ्गतिः धातुवृत्तिनिष्ठनिरूपकतानिरूपितनिरूपकतायास्तादृशोद्देश्य तासामानाधिकरण्यविरहान्नातिप्रसक्तिरिति । प्रकृत्येकदेशार्थेपीति । घञन्तसमुदायस्य शक्तिमनभ्युपगम्योक्तव्युत्पत्तिघटकप्रकृत्यर्थं प्रकृतितदेकदेशार्थसाधारणं निरुच्य तदाश्रयेण प्रत्ययार्थान्वयाभ्युपगम इत्यर्थः ।
एकत्र विशेषणत्वेनोपस्थितस्येति । एकत्रेति सप्तम्याखालोत्रा विशेष्यत्वमर्थः तस्य विशेषणत्वेन्वयः तृतीयार्थ खादात्म्यं तस्योपस्थितत्वेऽन्वयः तथाचैकनिष्टविशेष्यतानिरूपितविशेषणत्वाभिन्नोपस्थितिविषयतावतो नापरनिष्टविशेष्यता निरूपितविशेषणत्वयोगो भवतीत्यर्थः । स च न चारुः पचमानादिशब्दानां विशिष्टशक्तेर्विरहेण पाकादीनामन्यत्र विशेषणत्वेनोपस्थितत्वविरहात् । अपि तु वैशिष्ट्यं तृतीयार्थः तस्य चोपस्थित पदार्थेन्वयः । एवंत्रोक्तविशेषणत्वोपस्थितिविषयत्वयोः प्रयोज्यप्रयोजकभावलाभेन निरुक्तविशेषणत्वप्रयोजकोपस्थितिविषयतावतः अन्यनिष्ठ विशेष्यता निरूपित विशेषणत्वयोगो न भवतीत्यर्थः तथाचोक्तव्युत्पत्तेर्यथाविशिष्टशक्तिस्थले व्यापारविशेषणत्वप्रयोजकविशिष्टोपस्थितिविषयत्ववतः फलस्यान्यत्र विशेष - तयान्वयविरहेण प्रवृत्तिस्तथा ययोरेकविशेषणतया परस्यान्वयएव तद्बोधकपदयोराकाङ्क्षानियमः तत्तदर्थोपस्थापकपदद्वयघटितकृत्तद्धितान्तसमासादिस्थलेप्यस्ति प्रवृत्तिरन्यत्रान्वय आकाङ्क्षाविरहेणोप स्थिति विषयताया एकत्र विशेषणत्वमात्रप्रयोजकत्वादिति पचमानादिपदघटकधात्वर्थस्य न सुबर्धकर्मत्वादावन्वय इति न काप्यनुपपत्तिः । अथ बिक्लितिजानानस्तण्डुलं पचतीत्यादौ व्यापारविशेषणतयोपस्थिताया अपि विक्तितेः कर्मत्वविशेषणत्वाद्विक्तितेरेकत्वाभिरुक्तव्युत्पत्त्यनुपपत्तिः । एवमेकस्यापि किंचिदपेक्षया अपरत्वादुक्तव्युत्पत्त्यसंभवः । नचोपस्थितिविषयतायां स्वप्रयोज्यप्रकारतानिरूपितविशेष्यतावदन्यनिष्टविशेष्यतानिरूपितप्रकारताप्रयोजकत्वाभावएवोक्तव्युत्पत्तितात्पर्यमिति नोक्तदोषद्रयसंभव इति वाच्यम् नियताकाङ्क्षाभिव्यक्त्यर्थं थुक्तन्युत्पत्तिः सा च नियताकाङ्गाज्ञानादुक्तप्रयोज्यप्रयोजकभावनिर्णय एव सुग्रहेत्यन्योन्याश्रयादेवमुक्तव्युत्पत्तिं विनैवाकाङ्क्षामहे तत एव फलादेर्व्यापारेणान्वये नियमिते सकृदुच्चरितइत्यादिनियमेनोक्तव्युत्पत्त्यर्थसिद्धौ तस्यानिष्प्रयोजनत्वापत्तेचेति चेदुच्यते विषयताविशिष्टोप स्थितिविषयतायां खविशिष्धन्यविशेष्यतानिरूपितप्रकारत्वप्रयोजकत्वाभाव एवोक्तव्युत्पत्तितात्पर्यम् । प्राथमिकवैशिष्ट्यं स्वतादात्म्यस्खाश्रयत्वोभयसंबन्धेन स्वाथ्र्यत्वव स्वप्रयोजकवृत्तिज्ञानीय विषयतानिरूपितविषयत्ताप्रयोज्यविशेष्यतानिरूपितत्वखप्रयोज्यप्रकारतानिरूपित विशेष्यताप्रयोजकत्वस्वरूप योग्य पदघटितवृत्तिघटकपदप्रयोज्यत्वान्यतरसंबन्धेन । द्वितीयवैशिष्ट्यं च खप्रयोजकवृत्तिज्ञानीय विषयतानिरूपितविषयताप्रयोज्यत्यस्वप्रयोजकपदघटितवृत्तिषदकपदप्रयोज्यत्वान्यतरसंबन्धेन । द्वितीया च वृत्तिः कृत्तद्धितान्तादिरूपा । कृदन्तादीनामन्यतमत्वेनैव तत्र प्रवेशः कार्यः वृत्तित्वस्यान्यादृशस्य दुर्वचत्वात् । उपस्थितीयनीलादिविषयतायाः स्वविशिष्टान्य घटविशेष्यतानिरूपितप्रकारताप्रयोजकत्वस्यैव सत्वे नियमासंभवःस्यादित्येकत्र विशेषणत्वेनेतिदलपर्यवसितार्थात्मकं विषयताविशिष्टत्वमुपात्तम् । इदं च ज्ञानभेदेनविषयताभेदपक्षएव निर्दुष्टं समानाकारकज्ञानीय विषयतयोरैक्ये तु पाचकादिपघटकपच्धातुजन्योपस्थितीयपाकविषयतायां विषयताविशिष्टायां खविशिष्टान्य कर्मत्वादिनिष्टविशेष्यतानिरूपितप्रकारताप्रयोजकस्य पाकं पश्येत्यादिस्थलीयपच्धातुजन्योपस्थितिविषयत्वस्य तादात्म्यसत्वेन तत्प्रयोजकत्वस्यैव सत्त्वान्नियमभङ्गस्स्यादित्युपस्थितावेव स्वविशिष्टविषयता विशिष्टप्रकारताप्रयोजकस्वाभावनियमे उक्तनियमस्य तात्पर्य वाच्यम् । स्ववैशिष्ट्यं च स्वनिरूपितत्वस्वाश्रयत्वोभयसंवर्धन । स्वाश्रयत्वंच स्वजनकवृत्ति - ज्ञानीयविषयताप्रयोज्यविशेष्यतानिरूपित्तत्वस्य प्रयोजकपदघटितवृत्तिघटकपदप्रयोज्यविशेष्यतानिरूपित प्रकारताप्रयोजकत्वान्यतरसंबन्धेन । द्वितीय वैशिष्ट्यश्च स्वसामानाधिकरण्यस्वविशिष्टान्य विशेष्यतानिरूपितत्वोभयसंबन्धेन । विशिष्टान्यत्वघटकवैशिष्ट्यच प्राग्वद्बोध्यं । खप्रयोजकपदघटितत्वं च स्वघटितत्रत्त्यघटितत्वे सति स्वघटितत्वमेव तेन राजपुरुषधनमित्यादौ राज्ञो धनांशेऽन्वयेपि नियमभङ्गाभावो दोषो न प्रसज्यते राजपुरुषात्मकवृत्तिघटितवृत्तिघटकत्वाद्धनपदस्य । नचोपस्थितौ तादृशप्रकारताप्रयोजकत्वं स्वीयविषयताद्वारकमेवास्तीति विषयत्वे तादृशाभावनियमपक्षोक्तदोषस्तदवस्थ इति वाच्यम् स्वप्रयोजकविषयतानिरूपित विशेष्यता प्रयोजकोपस्थितित्वेसति तादृशविशेष्यताप्रयोजकपदघटित वृत्तिघटकपदजन्योपस्थितित्वे सति वा स्वप्रयोजकविषयतानिरूपितत्वेन नियतं विलक्षणमेव हि विशेष्यतानिरूपितत्वविशिष्टप्रकारताप्रयोजकत्वं तादृशनिरूपितत्वरूपमेव ara विवक्षितमिति न कोऽपि दोषः । एवोक्तव्युत्पत्तौ विशिष्टवृत्तिमहस्यै कत्तिघटकत्वग्रहस्यैव चोपयोगो न नियताकाङ्क्षा