________________
व्युत्पत्तिवादः । अन्यथा सुब्धिभक्त्यर्थसंख्याकर्मत्वादीनां तत्र पाकादावन्षयानुपपत्तेः। प्रकृत्यान्वितस्वार्थबोधकत्वं
अन्यथा सुब्बिभक्त्यर्थेति । तिङर्थकर्तृत्वादेरपि प्रथमाप्रकृत्यर्थ एवान्वयस्य व्युत्पन्नत्वेन धाखर्थे पाकादौ तदन्वयोऽपि न भवेदेव घअन्तसमुदायशत्यस्वीकार इति सुबिति तिडोप्युपलक्षकं वाच्यम् कर्मत्वादीनामिति पाकादाविति च षष्ठीसप्तम्यौ निरूपितत्वमात्रपरे नवन्यत्रेव प्रतियोगित्वानुयोगित्वबोधिके तेन कर्मवप्रतियोगिकपाकाधनुयोगिकान्वयस्य शाब्दबोधाविषयत्वेऽपि न क्षतिः । प्रकृत्यान्वितस्वार्थेति । प्रत्ययानां स्वप्रकृत्यान्वितार्थबोधकत्वमित्यर्थः । तेन धातोपंयन्तप्रकृतित्वेपि न क्षतिः। अथ किन्नाम स्वनिरूपितप्रकृतित्वम् न तावत्खाव्यवहितपूर्वत्वम् आगमविकरणादिना प्रत्ययव्यवहितयोः प्रातिपदिक्रधात्वोः सुप्तिडादिप्रकृतित्वानुपपत्तेः नापि स्वपूर्वत्वे सति आगमादिभिन्नखपूर्वपूर्ववर्तित्वशून्यत्वम् स्वाव्यवहितोत्तरवर्तिनि प्रत्ययान्तरप्रकृतावतिप्रसनवारणाय सत्यन्तमिति विभक्तिप्रकृतित्वस्यैव ताहशस्य निर्वाच्यत्वसंभवेपि निरुक्तव्युत्पत्तेः प्रत्ययमात्रविषयकत्वेन तस्य तद्बहानुपयुक्तलात् । नचोक्तप्रकृतिवं प्रत्ययसामान्यनिरूपितं संभवति प्रकृतिप्राविहितबहुजादिप्रकृतावसंभवात् नापि स्वाव्यवहितपूर्ववस्वाव्यवहितोत्तरत्वान्यतरवत्वम् चैत्रः पचतीत्यादौ पचधातोरपि स्वादिप्रकृतिवापत्ते रिति । यत्तु व्युत्पत्तिद्वयमङ्गीकरणीयं प्रकृतिपूर्वत्वेन विहितप्रत्ययनिरूपितं खाव्यवहितोत्तरवगर्भमुत्तरतया विहितप्रत्ययनिरूपितमव्यवहितपूर्ववगर्भमिति तदपि किबन्तप्रातिपदिकप्रकृतिकविभक्तिप्रकृतिवस्य धा. तोरापत्तेः किपो लुप्तत्वान्न मनोरमम् । नचाव्यहितपूर्वत्वेन प्रतिसन्धीयमानाव्यवहितपूर्ववशून्यत्वगर्भस्योपादाने नोक्तदोष इति वाच्यम् विपोऽप्रतिसंधानदशायां धातौ सुप्रकृतित्वापत्तरिति चेदुच्यते शाब्दबोधानुपधायके व्युत्पत्त्यप्रवृत्तेः तत्प्रवृत्तिसमये च व्युत्पन्नानामुक्तस्थले किप्प्रतिसन्धाननियमाद्धातोः मुष्प्रकृतित्वविरहान्न मुपो थालन्वितखार्थबोधक त्वप्रसङ्गः । यद्वा खविधायकशास्त्रजन्यबोधीयखनिष्ठविषयतानिरूपिताव्यवहितोत्तरखाव्यवहितपूर्वत्वान्यतरविषयतानिरूपितविषयताश्रयलमेव खप्रकृतिवं प्रातिपदिकादेव च सुपोविधानात्प्रातिपदिकत्वस्योक्तस्थले प्रतिसंहितक्किबन्तएव सत्वान निरुक्तविषयतोक्तस्थले धातावस्तीति नोक्तदोषः । वस्तुतस्तु स्वनिष्ठविधेयतानिरूपितोद्देश्यखमेव खप्रकृतिवं विशेष्यविशेषणभावधैपरीत्येप्यन्तराव्यवहितोत्तरलादेविषयत्वेऽपि च विलक्षणानुभवसाक्षिकस्योद्देश्यविधेयभावस्य सर्वत्र प्रकृतिप्रत्यययोरेव सत्त्वान्न कोऽपि दोषः । अतएव सर्वनामाव्ययसंबन्धिट्यव्यवहितपूर्वविहिताकच्प्रत्ययनिरूपितप्रकृतिवस्य न तयोरनुपपत्तिः । नचैवमपि घटपदोत्तरविभक्तिप्रकृतित्वं पटपदे दुर्वारं स्वनिष्ठमुपवावच्छिन्नविधेयतानिरूपितप्रातिपदिकत्वावच्छिन्नोद्देश्यतायास्तत्र सत्त्वादिति वाच्यं स्ववृत्तित्वविशिष्टविधेयतात्वावच्छिन्ननिरूपकतानिरूपितनिरूप्यलोपरागेणोद्देश्यत्वस्य तत्तत्प्रत्ययप्रकृतावेव सत्त्वोपगमात्तस्यैव च विवक्षितत्वात् । स्वविधायकशास्त्रजन्यबोधप्रयोज्यप्रयोगप्रयोजकबोधीयखनिष्टविधेयतानिरूपितोद्देश्यत्वस्य विवक्षितस्त्राद्वा प्रातिपदिकारकर्मणिद्वितीयेत्यादिशास्त्रजन्यबोधप्रयोज्यं प्रयोगात्प्राक् धटपदात्कर्मणिद्वितीयेत्यादिविशेषार्थोपरक्तज्ञानं सर्वत्राभ्युपेयमित्युक्तोद्देश्यत्वस्य पटपदे प्रसक्त्यभावात् । अनुवादस्थले च वक्तपुरुषीयतादृशज्ञानमादायैव तत्संगमनीयं यद्वाऽभियुक्तपुरुषीयप्रकृतिव्यवहारविषयलमेव तत् व्यवहारस्यास्ययं प्रकृतिरित्याकारकत्वेनैव प्रवेशोऽतो नान्योन्याश्रय इति शब्दशक्त्यायुक्तप्रकृतिलस्य तत्तत्प्रत्ययनिरूपितत्वाभावेन प्रकृते नोपयोग इति दिक् । अथ किंनाम प्रकृत्यर्थलं यदि प्रकृतिवृत्त्युपस्थायलं तदा कर्तृकर्माद्यर्थककृदन्तनानां वृत्तिविरहेण तत्रोक्तव्युत्पत्त्यप्रवृत्तिः स्यात् । नच भावकृदन्तानामिव समुदायशक्तिः कुतस्तेषां नोपेयत इति वाच्यम् एकैककृतसमभिव्याहृतानन्तधातुघटितकृदन्तसमुदायानुपूर्वीणामनन्तत्वेन तदवच्छिन्नानामनन्तशक्तिकल्पने गौरवालाघवेन कृदन्तस्थलेऽपि धात्वर्थभागभानस्य कुप्तशक्तिकधातुत एव खीकरणीयत्वात् । शक्त्यनुशासकशास्त्रानतिक्रमेण कीदो कृतां शक्ते. रभ्युपगमाञ्च पाचकादिपदापाककाद्यर्थबोधनिर्वाहात्समुदायशक्त्यनभ्युपगमात् । नचैवमनुशासनानतिक्रमेण भावविहितकृतामपि भावरूपोऽर्थः कुतो नाभ्युपेयते लाघवस्य तुल्यत्वादिति वाच्यम् भावशब्दो हि धात्वर्थपरिभाषितः । धात्वर्थश्च धातुत एवं लभ्यते इत्यनन्यलभ्योहि शब्दार्थ इत्यनुसाराद्धासर्थतावच्छेदकरूपेणोपस्थितयोविरूपोपस्थितत्वविरहेणान्वया संभवाच्चानुशासनस्य यथाश्रुतार्थताया अतिक्रमणीयलात् । अनुगतानतिप्रसक्तस्य खतादात्म्यातिरिक्तस्य खरूपलादेर्दुर्वचतथा तेन रूपेण भावस्य कृदर्थताया वक्तुमशक्यलाच घटवरूपं पटवरूपमित्यादिस्वरूपांशानुगताकारप्रत्ययानुरोधात खरूपत्वमनुगतानतिप्रसक्तमसण्टोपाधिरूपमुरीकृत्य तत्र तत्र प्रन्थेऽन्येषां स्वरूपस्य भावपल्लयार्थत्वोक्तिः संगमनीया । यद्वा प्रागुक्तानुगततादात्म्यविशिष्टे प्रमेयत्वपदार्थत्वादिविशिष्ट एव वा भावकृतामस्ति शक्तिः पाकादिपदात् पाखरूपत्वेन पाकात्मकपदार्थत्वेन वा भावप्रतीतिस्तथापि कृतां भावार्थकत्वबोधकानुशासनानां यथाश्रुतार्थनाप्रामाण्यप्रसक्तिः कृदन्तसमुदायस्य शक्त्यभ्युपगमस्तु तत्रैव न यत्र रूट्यर्थे योगसमवाय इत्यभिप्रायः स्वरूपार्थकत्वबादिनां समुदायशक्तिमतापेक्षया लाघवस्यात्र व्यक्तलायुक्तत्वमाकलय्य वदन्तीत्यत्रोक्तसमुदायशक्तिमतेऽखरससूचनायेत्यवधेयम् । प्रकृतमनुसरामः यथाकथञ्चित्प्रकृतिप्रयोज्यशाब्दबोधविषयत्वं तत् तदाकासासंपादकतया पचन्ताविल्यादौ शत्रन्तसमुदायप्रयोज्यविषयत्वस्य धात्वर्थेऽपि सत्वेन तस्यापि प्रकृत्यर्थत्वापत्तिरितिचेदुच्यते नहि प्रत्ययनिष्ठविधेयतानिरूपितोद्देश्यतावच्छेदकव्याप्यधर्माव