________________
गूढार्थतत्वालोकव्याख्यासहितः । अप्रतियोगिताकत्वसंबन्धेन नीलत्वादिना तत्तद्व्यक्तीनामन्वयः, तादृशभेदानामपि तत्तवयक्तिभेद स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेनाभावेऽन्वय उपेयते, तावतैव तत्तव्यक्तित्वावच्छिन्नाभेदलाभ इति न किंचिदनुपपन्नमिति वाच्यम् । विशेषणतापच्छेदकावच्छिन्नाया एव प्रतियोगिताया अभावे प्रतियोगिनः संबन्धतया भानात् । अन्यथा विशिष्टवैशिष्ट्यबुद्धित्वानुपपत्तेः । प्रतियोगिविशेषिता. भावशानं च विशिष्टवैशिष्ट्यबोधमर्यादानातिशेत इति दर्शनात्केवलं विशेष्ये विशेषणमिति रीत्या न
तादवस्थ्यमितिचेन्न स्वनिरूपितसांसर्गिकविषयतानिरूपितघटादिविषयताकत्वसंसर्गेण नीलादिविषयताविशिष्टज्ञानविषयकवस्यैव तात्पर्ययुद्धौ स्वीकारात्सांसर्गिकविषयत्वस्य प्रकारताविरहेणानुपपत्त्यभावादिति ध्येयम् ।
विशिणवैशिष्ट्यवद्धित्वानुपपत्तेरिति । विशिष्टवैशिष्ट्यावगाहिबोधत्वं च विशेषणविशेषणतावच्छेदकोभयसंबन्धावगाहिबोधत्वं तत्राभावस्थले प्रतियोग्यंशे भासमानस्य विशेषणत्वं विशेषणतावच्छेदकस्य च तस्य स्वावच्छिनप्रतियोगित्वंसंसर्गः विशेषणस्य च प्रतियोगित्वमभावबुद्ध्या नियमेनाचगाह्यत इति चाङ्गीकरणीयमन्यथा स्वसमानाधिकरणप्रतियोगित्वादेः विशेषणतावच्छेदकसंसर्गत्वे पर्वतेपि बहिर्नास्तीत्यादि प्रत्ययापत्तेः द्वित्वाद्यवच्छिन्नप्रतियोगितासंसर्गेण वहिविशिष्टाभावस्य स्वसमानाधिकरणतादृशप्रतियोगितासंसर्गेण वह्नित्वविशिष्टतया तस्य पर्वते सत्वात् प्रतियोग्यशे भासमानस्योपलक्षणत्वे च तस्याभावांशे भानासंभवादुक्तप्रत्ययापत्तेः दुरुद्धरत्वात् । एवं चैकाभावस्योभयविधप्रतियोगितासंवन्धित्वविरहेणान्यधर्मावन्छिन्नप्रतियोगित्वस्य प्रतियोगिसंसर्गत्वे विशेषणतावच्छेदकसंबन्धबाधापत्त्या तस्योपलक्षणता स्थादित्यगत्या विशेषणतावनछेदकावच्छिनैव प्रतियोगिता प्रतियोगिनःसंसर्गत्वेनाजीकरणीया । तथाच निरुक्तस्थले तद्वयक्तित्वावच्छिन्नप्रतियोगित्वस्य संसर्गत्वे नीलस्य विशेषणलासंभवेनाभावयुद्धरुपलक्षितवैशिष्ट्यावगाहित्वं स्यादिति भावः। अथोक्तनियमद्वयस्य सार्वत्रिकत्वं न संभवति घटाभावादिपक्षकवह्वयादिसाभ्यकानुमितेः महानसीयवहयभावादिपक्षकबड्यादिसाध्यकानुमितेश्च तदभिलापकवाक्य जन्यशाब्दबुद्धश्चाभावप्रत्ययात्मकतया विशेषणस्य सामानाधिकरण्यखनिष्ठप्रतियोगित्वादिसंबन्धेनाभावांशेऽवगाहितत्वादिति नपदघटितवाक्याभिलप्याभावप्रत्ययस्थल एवोक्तनियमद्वयमशीकरणीयं तथाच प्रत्ययाधुपस्थिते विधेयभावानालिद्भिते भेदादौ तद्यक्तित्वावच्छिन्नप्रतियोगितासंबन्धेन नीलादेः स्वसमानाधिकरणतादृशप्रतियोगितासंबन्धेन नीलत्वादेश्चान्वये को दोषः तादृशसंबन्धेनान्वय एव च तादृशविभक्त्यादिसमभिव्याहारस्याकासात्वोपगमात् संबन्धान्तरमादाय नानिष्टप्रयोगप्रसङ्गस्थाप्यवसरः । अथवा यत्र प्रतियोगित्वेन साक्षात्संबन्धेनाभावे कस्यचिद्विशेषणत्वं तत्रैव विशेषणतावच्छेदकस्य धर्मिपारतन्त्र्येण स्वावच्छिनप्रतियोगित्वं संबन्धः यत्र च खनिष्ठप्रतियोगिताकखादिपरम्परासंबन्धेन तत्र विशेषणतावच्छेदकस्य न निरुक्तप्रतियोगिलं संसर्गः । अतएव स्वनिष्ठप्रतियोगिताकत्वसंबन्धेन वह्निविशिष्टमहानसीयवहयभावादेलेक्षणया पदात्प्रतीतिर्नच तत्र वहिल्यस्य स्वावच्छिन्नप्रतियोगिलसंबन्धेन भानम् , एवंच प्रत्ययार्थे भेदे प्रकृत्यर्थस्य खनिष्टतद्वयक्तिखावच्छिन्नप्रतियोगिताकत्वसंबन्धेनैवान्वये प्रकृतिप्रत्ययसमभिव्याहारस्याकाङ्क्षालोपगमे न कश्चिद्दोष इति चेत्सत्यं । घटोनास्ति घटोनेत्यादिप्रत्ययवद्धटाभाववान् घटभेदवानित्यादयोऽपि प्रत्ययाः प्रतियोगिविधया घटमवगाहमानाः खरसतः शुद्धप्रतियोगिलमेव संसर्गतयाबगाहन्ते। अतएव घटवद्भूतलविषयको भूतलं घटाभाववदित्यादि प्रयोगो न खरसतो विशेषदर्शिना मिति प्रतियोगिविधया विशेषणस्याभावसंबन्धः प्रतीयमानः शुद्धप्रतियोगितात्मक एव स्वारसिक इति निीयते । तत्परित्यागश्च न बलवत्तरकारणमृतेऽहत्यौचितिम् । एवंच नीलोघट इत्यादिवाक्यस्यान्यथाप्युपपत्तिसंभवे सर्वलोकखरससिद्धां प्रतियोगिभूतविशेषणसंबन्धस्य शुद्धप्रतियोगितात्मकतामतिक्रम्य संबन्धान्तरात्मतया तद्भानोपयोग्याकाडाखकल्पनं समभिव्याहारविशेषस्यानुचितमिति तद्वयक्तिलावच्छिन्नप्रतियोगि. लस्य शुद्धप्रतियोगितात्वेन संसर्गत्वे विशेषणतावच्छेदकनीललादेरुपलक्षणत्वस्य प्रतियोगितानवच्छेदक लक्षणस्य संभवः विशेषणत्वे च शुद्धप्रतियोगिलसंसर्गभाने विशेषणतावच्छेदकस्य खावच्छिन्न प्रतियोगिलसंसर्गभाननियमेन तद्वयक्तिखावच्छिमप्रतियोगिलस्य संसर्गलासंभव इत्यभिप्रायोऽनुचिन्तनीयो निरुक्तमन्यस्येति ।
केवलं विशेष्ये विशेषणमितिरीत्येति । विशेष्यसंबन्धिनि तद्वारा संबद्धवमिहकैवल्यमभावप्रत्ययस्थले तन्नास्तीत्यर्थः । एवंचाभावस्थले प्रतियोगित्रकारस्योपलक्षणत्वव्यावृत्तिरनुदर्शिता भवति तेनहि गन्धप्रागभाववान्नास्ति रक्तदण्डो नास्तीत्यादौ गन्धप्रागभावरक्तलादेः प्रतियोगिप्रकारस्याप्युपलक्षणत्वमुक्तं न विरुध्यते उपलक्षणस्यापि तस्य खावच्छिन्नप्रतियोगित्वसंबन्धेनाभावेऽन्वयस्याभ्युपगतत्वेन कैवल्यविरहात् । अतएवाभावबोधो हि विशिष्टवैशिष्ट्यावगा व भवतीत्यनभिधाय तत्र तत्राभावबोधो हि विशिष्टवैशिष्ट्यावगाहिमर्यादांनातिशेत इत्युक्तिः, विशिष्टवैशिष्ट्यावगाहिनो रीतिं विशेषणविशेष्योभयसंबन्धावगाहित्खलक्षणांनातिक्रामतीति तु तदर्थः । प्रतियोगिप्रकारस्य विशेषत्वोपलक्षणत्वे प्रत्ययकालसत्वासखनिबन्धने, न तु विशेष्यसंवन्धिसम्बद्धत्वासंबद्धत्वप्रयुक्ते ताभ्यामवच्छेदकत्ववैलक्षण्यस्याङ्गीकारादभावयो लक्षण्यमिति बोध्यम् ।