________________
३४
व्युत्पत्तिबादः। षणविभक्तेरभेदार्थकत्वमतेऽपि तत्तद्वयक्तित्वावच्छिन्नाभेद एव विभक्यों वक्तव्य इति वाच्यम् तथा सस्यपूर्वव्यक्तिनिष्ठतत्तद्व्यक्तित्वस्य कथं चिदपि भानासंभवेन तद्वच्छिन्नभेदाभावे शक्तिमहासंमवेनापूर्वव्यक्तीनामभेदान्वयबोधानुपपत्तेः । संसर्गज्ञानस्य विशिष्टबुद्धाघहेतुत्वेनानुपस्थितस्यापि संसर्गतया भानसंभवेन संसर्गतामतेऽनुपपत्त्यभावात् । न च विभक्त्यर्थेऽपि भेदे तत्तद्व्यक्तित्वावच्छितावच्छेदकीभूतसंयोगवस्य सत्तया घटादिसंयोगानां साध्यतावच्छेदकसंसर्गवस्येव निरुक्तसंसर्गवस्यापत्त्योक्तप्रयोगप्रामाण्यस्य दुरुद्धरत्वमिति वाच्यं, प्रकृतसंसर्गता हि विषयतात्मिका नच प्रतियोगिलादिनिरूपितसंसर्गतावदतिरिक्ता विषयतायाश्चातिप्रसक्तोऽपि भवत्यवच्छेदक इति भेदप्रतियोगिताकाभावत्वावच्छिन्नापि संसर्गता तत्तद्यक्तिभेदलावच्छिन्नाभावनिष्ठैवेत्सङ्गीक्रियत इति न प्रामाण्यापत्तितादवस्थ्यमित्यभिप्रायः । ननु प्रकारताविशिष्टप्रकारताकत्वमेव प्रामाण्यं वैशिष्ट्यं च तत्र खतादात्म्यखबिशिष्टनिरूपकताकाधिकरणतावनिष्टविशेष्यताकत्लोभयसंबन्धेन । स्ववैशिष्ट्यं च स्वानवच्छेदकानवच्छिन्नत्वादिप्रसिद्धचतुष्टयसंबन्धनान्यत्र प्रपञ्चितमस्ति । एवं सत्युक्तस्थले प्रामाण्यं दुर्वारमेव नीलवावच्छित्रपटनिष्टप्रकारतावैशिष्ट्यस्योकोमयाभावनिष्ठया भेदप्रतियोगिताकाभावलावच्छिन्नसंसर्गतया निरूपितायां नीलत्वावच्छिन्ननिरूपकतायां सत्वेन तनिरूपिताधिकरणत्वस्य घटे सत्त्वादिति चेन खनिरूपितसंसर्गतावच्छेदकतापर्याप्यधिकरणधर्मपर्याप्तावच्छेदकताकसंसर्गतानिरूपकलं नचतुष्टयसंबन्धघटकमपितु स्वनिरूपितसंसर्गताव्याप्यसंसर्गताकत्वमिति पटनिष्ठतव्यक्तिलावच्छिन्नप्रतियोगिताकभेदखावच्छिन्नाभावत्वावच्छिन्नसंसर्गतानिरूपितनिरूपकताकाधिकरणखमेव वैशिष्ट्यघटकमिति न प्रामाण्यप्रसङ्गः । अथ नीलपटपरनीलादिपदघटितस्य नीलो घट इतिवाक्यस्याप्रमाणत्वे नअघटितस्य तस्य प्रमाणलं युक्तं नव तत्संभवति नीलत्वेन पटभेदस्य सामान्यरूपण विशेषाभावाद्यनगीकारे प्रसिद्धेः अङ्गीकारेऽपि वा नीलोनघट इत्यत्रोक्ताभावप्रत्ययो हि न व्युत्पत्तिसिद्धः, प्रतियोगिविशेषवाचकपदान्तरघटितस्य वह्नित्वेन महानसीयवहिर्नास्तीत्यादिवाक्यस्यैव तदभिलापकत्वदर्शनात् , अन्यथा पर्वते बहिर्नास्तीत्यादिरपि वारसिकः प्रयोगः स्यात् । नीललावच्छिन्नसामान्यभेदस्य नीलघटेऽसंभवात् सामान्यधर्मावच्छिन्नाया एकविशेषमात्रनिष्ठायाः संसर्गतायाः प्रतियोगिखनिरूपितायाः खारसिकप्रत्ययागोचरत्वेनाप्रामागिकतया भेदप्रतियोगिताकाभावत्वावच्छिन्नपटनिष्ठतब्यक्तित्वावच्छिन्नभेदाभावमात्रनिष्टसंसर्गताकप्रतियोगिताकाभावस्याप्यलीकत्वात् । उक्तसंसर्गतायाः प्रामाणिकत्वे कथं न संयोगेन पर्वते वहिर्नास्तीत्यादिप्रत्ययः स्वरसतो लोकानामिति चेत्खबृत्युभयावृत्तिधर्मत्वेनानुगतरूपेणाभेदस्य संसर्गवपक्षेप्युक्त प्रयोगस्योक्तरीत्या प्रामाण्योपपादनस्य दुःशकतया घटत्वेन पटोऽस्ति घटत्वेनपटोऽस्ति घटत्वेन पटो नास्तीति प्रयोगद्वयवदुक्तप्रयोगद्वयस्याप्यप्रामाण्यमेवाङ्गीकार्यम् । यथावा वह्नित्वेन महानसीयवह्निपरपदघटितस्य संयोगत्वेन संयोगमात्रसंसर्गकप्रत्ययोपधायकस्य संयोगेन पर्वते वहिरिति वाक्यस्याप्रामाण्ये नम्घटितस्य तस्य प्रामाण्यमुचितमिति वक्तुमनहें कथंचिदप्यसंभवात्तथेदमपीति बोध्यम् । नीलो न घट इति वाक्यप्रामाण्यस्यानुभविकत्वे सामान्यधर्मावच्छिन्नविशेषमात्रनिष्ठसंसर्गलस्याभेदस्थले प्रामाणिकत्वमभ्युपेत्य प्रामाण्योपपादनमप्युभयत्र समानम् । नच तत्तयक्तिभेदखावच्छिन्नाभावत्वेन संसर्गतामते अनुभवकदर्थनाभाव एव विशेष इति वाच्यं तत्रापि दोषस्य वक्ष्यमाणत्वेन तदुद्धारप्रयासे अनुभवक्रदर्थीकरणप्रसंगस्य समानत्वात् । अथ तत्तद्वयक्तिभेदखावच्छिन्नाभावत्वेन संसर्गत्वे संसर्गताभेदानकारलविशेष्यलयोरपि भिन्नखानीलाघटा इत्यस्यैकवाक्यखानुपपत्तिः निरूप्यनिरूपकभावानापन्नानेकविषयताकबोधवनकलादिति चेत्संशयसमुच्चयवैलक्षण्यानुरोधेन तदीयविषयलयोरवच्छेद्यावच्छेदकभाव इव नीललनिष्ठावच्छेदकलाख्यविषयतायाः सकलतत्प्रकारतानिरूपिताया ऐक्यमवच्छेद्यावच्छेदकभावो वाङ्गीक्रियताम् तथाच नैंकवाक्यताभङ्ग इति । नचैवमपि वक्ष्यमाणरीत्या नीला न घटा इत्यस्य प्रामाण्यप्रसङ्ग इति वाच्यं यथाहि सामान्याभावानजीकर्तृभिर्वहिनीस्तीत्यादिप्रतीतो विशेषाभावकूटावगाहिलमगीक्रियते तथोक्तस्थलेपि नीलभेदकूटाबगाहिलमेवोररीक्रियते कूटत्वेनैव तस्य विषयखानैकवाक्यताभङ्गः, नअपदस्य तादृशभेदकुटखावच्छिन्ने लक्षणा नीलपदं च तात्पर्यग्राहकमवैकदेशान्वयास्वीकारे धालादिशक्ययोः फलव्यापाराद्योरिव लक्ष्यार्थशपयार्थयोरभावकूटत्खयोरप्यन्वयोऽगसाङ्गीकरणीयः नीलान्वितानां सर्वेषामेवाभावानां कूटत्वेऽन्वये तादृशाकाङ्क्षायाः प्रयोजकत्वं चाङ्गीकरणीयमिति विभावनीयम् । अग्रिमप्रन्थस्तु कूदत्यस्य तथाविधस्यानुगतानुयोगितावच्छेदकधर्मविना दुर्घहत्वात् तदप्रहेऽप्युक्तप्रयोगात् गतिसंभवे निरर्थकत्वप्रायस्य तात्पर्यग्राहकलस्य वक्तुमनुचितत्वात् । एकपदलक्ष्यार्थशक्यार्थयोरन्वयस्यापि व्युत्पत्तिमार्गापेतत्वादुक्तरीतिर्न साधीयसीति वस्तुगतिमनुरुभ्योक्त इतिदिक् ।
संसर्गतामतेऽनुपपत्त्यभावादिति। अथान्विन्ताभिधानपक्षस्य निराकृतत्वेन पदादवियोपस्थितेरनपेक्षितत्वेपि तात्पर्यग्रहार्थमवश्यमन्वयोपस्थितिरपेक्षणीया । नच ज्ञानांशे विषयतया विशिष्टवाक्यार्थमवगाहमानव तात्पर्यमतिः शाब्दबोधोपयोगिनीति संसर्गस्य विशेष्यविशेषणभावादिविधुरखरूपेण भासमानतया तदुपस्थितेनीपेक्षेति वाच्यम् अपूर्ववाक्यार्थस्थले शाब्दबोधात् प्राक् तस्य ज्ञातुमशक्यत्वेन ज्ञानविशेषणखासंभवादितिनिरूप्यनिरूपकभावापन्नतत्तद्विषयताकत्वविशिष्टज्ञानविषयकलमेव तात्पर्यबुद्धेर्वाच्यमिति संसर्गिकविषयलविशेषणघटकतया तद्व्यक्तिलोपस्थितेरावश्यकलात् संसर्गतामतेप्यनुपपत्ति