________________
३०
व्युत्पत्तिबादः । षन्तघदादिपदत्वमेव तथास्त्विति चेन्न । नीलघटरूपमित्यादिवाक्यसाधारण्यानुरोधेनान्यारश्या इत्यत्र शाब्दबोधानुपपत्तिः आकाहाविरहात् । नीलादिपदोत्तरसुभिन्नास्त्यादिपदाव्यवहितोत्तरलस्यैव घटादिपदे सलात् नीलादिपदाव्यवहितोत्तरसुभिन्नपदानुत्तरत्वस्य नीलोपट इत्यादावप्रसिद्ध्या विवक्षितुमशक्यखादिति चेन्न व्यासस्थलेऽप्युक्तदोषभयेनान्यादृश्याकाङ्काया उपगन्तव्यतया साधारणाकाहानुशरणाप्रयोजकत्वस्याप्यत्र दोषतयोपलक्षणीयखात् समाससाधारणीकरणस्यैवपूर्वपक्ष्यभिप्रेतलं मनसि निधाय समासस्थले समाससाधारण्यस्य प्रबलदोषत्वमभिसन्धाय तावन्मात्रोक्तरदुष्टत्वात् । अनुपपत्तिहि खाव्यवहितोत्तरवादिमिन विभक्त्यव्यवहितोत्तरत्वसंबन्धावच्छिन्नखाभावस्य संसर्गत्वमभ्युपेत्य वारणीया । वृत्त्यनियामकस्याभावप्रतियोगितानवच्छेदकत्वे निरुक्तसंबन्धावच्छिन्नखनि प्रकारतानिरूपितविशेष्यत्वस्य प्रमीयविशेष्यताप्रतियोगिकखरूपसंबन्धावच्छिन्न प्रतियोगिताकाभावस्य तवं विवक्षणीयम् । यत्तु नीलोस्तिघटइत्यत्रापि नीलोघटोस्तीत्यादिसमभिव्याहारकल्पनयैव शाब्दबोध इति तन्न अव्यवधानेन पदार्थोपिस्थितेरेवासति रूपताया व्यवस्थापिततया अभ्रान्तस्थाश्रुततादृशसमभिव्याहारस्याप्युक्तवाक्याद्वाधकाभावेन शाब्दानुभवोत्पादस्यानुभवसिद्धत्वात् । अथवा निरूक्ताभाववत्त्वखाव्यवहितोत्तरविभक्त्यवृत्तिसुखाद्यवच्छिन्नाव्यवहितपूर्वलसंबन्धावच्छिन्नस्वाभाववलोभयसंबन्धेन नीलादिपदवत्त्वे सति खन्तघटपदत्वमाकाङ्क्षारूपतया विवक्षणीयम् एवञ्च घटस्य नील इत्यादौ नीलपदाव्यवहितोत्तरविभक्त्यवृत्तिडस्पदलावच्छिन्नाव्यवहितपूर्ववसंबन्धेन नीलपदवत्वस्यैव सत्वेन तदभावविरहात् खवघटितनिरुक्तसंबन्धेन नीलपदाभावसत्वेऽपि घटपदे खाव्यवहितपूर्ववविरहानापत्तिः खाव्यवहितोत्तरस्य विभक्तित्वेन प्रवेशान्नीलघट इत्यत्र नानुपपत्तिः खाव्यवहितोत्तरविभक्त्यप्रसिद्धथा निरुक्तसंबन्धस्य तन्त्रीलपदव्यधिकरणत्वात्, खाद्यव्यवहितपूर्ववप्रवेशाच्च नीलो घटस्येत्यादी नापत्तिः । नचैवं घटोनीलरूपमित्यत्राकाडापत्तिरिति वाच्यम् ऋद्धस्यराजमातङ्गा इत्यस्य विभक्त्यनुसन्धानपक्षे समासासाधुत्वेनाप्रयोक्तव्यत्वमिवोक्तप्रयोगस्यापि ततएवह्यप्रयोक्तव्यत्वमित्यभ्युपगमात् । यद्वा खाव्यवहितोत्तरघटपदभिन्नपदावृत्तिसुखावच्छिन्नाव्यवहितपूर्वलसम्बन्धावच्छिन्नाभावस्यैव प्रवेशः कार्यः नीलघट इत्यत्र तावतैवाकाहासम्पत्तेः। तथाच घटोनीलरूपमित्यत्र नापत्तिः नीलपदाव्यवहितोत्तरघटपदभिन्नावृत्तिसुखावच्छिन्नाव्यवहितपूर्वलस्यैव घटपदे सखात् घटपदासमतलविभक्त्यप्रकृतिकत्वोभयाभावबलं वा नीलपदे विशेषणमित्यपिकश्चित् । परेतु खोत्तरत्वखोसरसुभिन्नपदानुत्तरलोभयसंबन्धेन नीलपदविशिष्टखन्तघटपदवलमाकासा । तादृशघटपदवलं च खतादात्म्यस्वाश्रयलान्यतरसंबन्धेन । स्वाश्रयत्वं च स्वप्रकृतिकविभक्तिवृत्यानुपूर्व्यवच्छिन्नप्रकृतिघटपदत्वस्वसमभिव्याहृतनीलपदप्रकृतिकविभक्तिवृत्यानुपूर्व्यवच्छिन्न प्रकृतिनीलपदसमभिव्याहृतत्वोभयसंबन्धेन । तथाचनीलपदविशिष्टखन्तघटपदं नीलघट इत्येतद्वाक्यीयं नीलोघटइत्येतद्वाक्यीयंच तत्रसमासे प्रथमघटपदविशिष्टलं व्यासमात्रेच द्वितीयघटपदविशिष्टलम् नीलोघटः नीलोस्तिघटः घटोनील इत्यादौ सर्वत्र नवतादृशपदवलम् घटस्यनीलः घटोनीलरूपं नीलरूपंधट इत्यादौ कुत्रापीतिवदन्ति तश्चिन्त्यम् । अन्यतरखादेः कारणताकुक्षिप्रवेशे समासव्यासान्यतरत्वेनोक्तधर्मापेक्षया लघुभूतेनैव कारणलप्रसङ्गात् अत्राप्यन्यतरत्वस्य संसर्गकोटौ प्रवेशयितुं शक्यत्वादिति ।
नीलघटरूपमित्यादीति किमत्र नीलश्चासौघटोनीलघटः नीलघटस्य रूपमिति विग्रहोऽभिप्रेत आहोवित् घटस्यरूपं घटरूपं नीलश्च तद्धटरूपमितिवाविग्रहः । तत्राये घटशब्दस्य घटीये लक्षणायामवश्याभ्युपेयायामेकदेशान्वयभयेन नीलघटएव लक्षणोपगन्तव्येति न दोषसंभवः द्वितीये च विशेष्यवाचकपदस्य स्वन्तत्वात्सुतरां तथा । यत्तु द्वितीयविग्रहे नीलघटरूपयो भेदान्वयसंभवः घटरूपपदस्य समस्ततया वृत्त्यभावेन विशेष्यवाचकलाभावात् । वास्तविकविशेष्यवाचकरूपपदस्य खोत्तरसुभिन्नघटपदोत्तरखस्यैव सत्वादिति तन्न नीलोघटोनीलघटइत्यादावयुक्तरीत्या दोषसंभवेन तेनसह समानपरिहारत्वात् । तथाहि घटपदलं यदि घकारोत्तराकारोत्तरटकारोत्तराखरूपं तदा तदाश्रयस्य वन्तत्वसत्वेऽपि नीलपदोत्तरसुभिन्नटकाराव्यवहितोत्तरवस्यैव सत्त्वेनाकाहानुपपत्तिः । यद्यकाराव्यवहितपूर्ववतिटकाराव्यवहितपूर्ववर्ल्सकाराव्यहितपूर्ववर्तिघकारवरूपं तदा तदाश्रयस्य खन्तखविरहादाकाहानुपपत्तिरिति घटलमात्रावच्छिन्नप्रकृतविशेष्यतानिरूपितविलक्षणप्रयोजकतापर्याप्त्यनुयोगितावच्छेदकवर्णसमुदायलं घटपदलं वाच्यं ! विलक्षणप्रयोजकलंच स्वप्रयोजकवृत्तिज्ञानीयविषयतासमानाधिकरणाकाङ्क्षाज्ञानविषयत्वाश्रयनिष्टं, प्रयोजकलं, तथाच तत्सामानाधिकरण्येन वन्तलं खोत्तरसुभिन्नपदानुत्तरखंच विवक्षणीयमतो नाकालानुपपत्तिः । विशेष्यतायां प्रकृतलनिवेशात्पर्टनीलं घटोरक्तइति पदसमुदायघटके नीलंघटइत्यादौ नाकाडाप्रसक्तिरन्यथा पीतोघटइत्यादिस्थलीयशाब्दबोधीयविशेष्यताया अपि घटत्वमात्रावच्छिन्नतया तत्प्रयोजकताया अपि निरुक्तप्रयोजकतात्वेन संगृहीततया तत्पर्याप्त्यनुयोगितावच्छेदकसमुदायत्वस्य निरुक्तघटपदव्यबृत्तितया तदाश्रये पीतोपटइति वाक्यघटकपकारे नीलपदोत्तरसुभिन्नपदानुत्तरवस्य सत्खातादशसमुदायलाश्रयरूपाया नीलघटाभेदान्वयबोधौपयिकाकालाया नीलं घटइत्यत्र दुर्वारतास्यात् । निरुक्तबैलक्षण्यप्रवेशाच्च शोभनंचैत्रः पश्यतीत्यादौ शोभनन्चैत्राभेदान्वयबोधप्रयोजकाकालायाः शोभनंचैत्रइति भागे नप्रसङ्गः । अन्यथा चैत्रलमात्रावच्छिन्नप्रकृतविशेष्यताप्रयोजकत्वस्याकाहाघटकतयोक्तवाक्यघटकसकलपदेषु सत्वेन तत्पर्याप्त्यनुयोगिताक्च्छेदकनिरुक्तवाक्यगतसमुदायलस्य शोभनपदावच्छेदेन शोभनपदोत्तरसुभिन्नपदानुत्तरत्वसामानाधिकर