________________
गूढार्थतत्वालोकव्याख्यासहितः ।
२९ खोत्तरसुपदभिन्नपदानुत्तरत्वविशिष्टखोत्तरत्वादिरूपखाव्यवहितोत्तरत्वसंबन्धेन नीलादिपदवत्सु. विरहात्, प्रतिसंधानस्थलेऽपि कर्मधारयविग्रहस्थपदस्य प्रथमान्तता या एव स्वीकृतत्वेन नीलघटमित्यत्रासंभवात् । नच विशेषणापदनिष्ठस्योक्तरूपस्याकासात्वेऽपि नीलोघटस्येत्यादावतिप्रसंगः खाद्यन्तघटादिपदसमभिव्याहृतवस्य विशेषणात् । नचैवं नीलघटरूपमित्यत्र समासासाधारण्यरूपदोषसंभवे तदुपेक्षाया नि/जलमिति वाच्यम् आकाङ्क्षाज्ञानानुपपत्तिलक्षणदोषस्य सार्वत्रिकत्वेनैतदोषापेक्षया प्रबलत्वात् । यत्तु नीलघटरूपमित्यत्र प्रथमतो नीलमुघटस्वित्यनयोस्समासोत्तरं नीलघटसरूपखित्यनयोस्समासादन्ततः सर्वत्रेश्वरप्रतिसंधानमादायाकाडासम्भवात्तदुपेक्षणम् विभक्तिराहिल्यांशे च विभक्त्यव्यवहितपूर्वत्वस्यैवाभावस्य प्रवेशो नानुसंधानस्य समासवदेव दधि प्रमेयमित्यादावप्याकाडासंभवात् । एवं चेश्वरप्रतिसन्धानमादाय नीलघटमित्यत्र नाकासानुपपत्तिः दधिप्रमेयस्येत्यत्रनिरुक्ताकासासत्त्वेऽपि दध्यादिपदानां विभक्त्यन्तत्वप्रतिसंधानस्यैव सर्वत्राभ्युपगततया तज्ज्ञानासंभवेन शान्दाद्यापत्तिविरहादिति तन्नातिसमन्जसम् शाब्दस्यापत्तिविरहेऽपि निराकाङ्क आकासापत्तिदोषस्य सह्यतायां बीजाभावात् दधिप्रमेयस्येत्यस्य समासरूपत्वेन कदाचिदिष्टापत्तावपि प्रमेयस्य दधीलत्र तदसंभवात् । यद्वा यत्वतलवत्ववस्याप्यनुगतत्वेसत्यननुगतकार्यकारितामवलम्ब्य नीलादिपदानां खसमभिव्याहृतघटादिपदोत्तरावृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहित्यस्याकाहालं वाच्यं तत्र च नकोऽपिदोषः। अत एव सामान्यविशेषपरयोः समासच्याससाधारणमित्यादिनीलोघटोनील घटइत्यादिप्रन्थयोर्न सन्दर्भविरुद्धता । वस्तुतस्तु नीलादिपदानां घटादिपदवत्त्वस्यैवाकाडालं पदवत्ताच स्वाभाववत्त्वसंबन्धेन अभावश्च खोत्तरत्ववत्रिरूपितवृत्तिलसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववद्विभक्तिविभाजकधर्मवत्वसम्बन्धावच्छिनप्रतियोगिताको बोध्यः । धर्मवत्ता च स्वावच्छिन्नाव्यहितपूर्वलसम्बन्धेन तथाच नाननुगमः। नचैवं विभक्तिलादिकमजानतइत्यादिदोथासङ्गतिः अज्ञातस्यापि संसर्गतयाभानाभ्युपगमादितरथान्वयशक्तिखण्डनस्यासंगल्यापत्तेरितिवाच्यम् विभक्तिवादिज्ञानाभावस्योक्ताकाशाज्ञानाभाव प्रति हि न कारणाभावत्वेन प्रयोजकलमभिप्रेतमपितुविशेषाभावम्प्रति सामान्याभावरवेन तथाच यत्र घटादिपदेऽव्यवहितोत्तरलमात्रेण नीलादिपदवलं गृहीतं तत्रापि शाब्दबोधस्यानुभविकत्वेन तदनुपपत्ती पर्यवसानम् सर्वत्रनिरुक्तपारिभाषिकसमभिव्याहृतत्वसंसर्गेण नीलादिपदे घटादिज्ञानकल्पना, निरुक्तपरिष्कारस्य निर्दोषतया तदुपेक्षाया निर्बीजवापत्तेर्वमशक्यैव निरुक्ता च वाचोभङ्गी विभक्तित्वादिज्ञानविरहनिबन्धन एव निरुक्ताकाशाज्ञानाभावो नवव्यवहितो. तरलादिसंसर्गभानविरहनिबन्धन इत्यस्य सिद्धान्तपक्षनिर्दोषतापादकस्य सूचनायेतिदिक् ।
विशेष्यवाचकपदोत्तरावृत्सित्वेन धर्मस्य प्रवेशे नीलादिपदोत्तरखादिनिष्टतद्वयक्तिवादिकमादाय नीलोघटइत्यत्राप्याकालानुपपत्तिः स्यादितिविभक्तिविभाजकत्वेन तत्प्रवेशः । यत्तु विशेष्यवाचकपदविशिष्टश्रावणप्रत्यक्षविषयतावच्छेदकधर्मवदप्रकृतिकलं विवक्षणीयं वैशिष्ट्यं च खावृत्तिलखाव्यवहितोत्तरावृत्तित्योभयसंबन्धेन । एवं च नीलघट इत्यत्र घटपदवैशिष्टयस्य खाव्यवहितोत्तरावृत्तिलविरहात्सुत्वे खावृत्तित्वविरहाद् घटपदत्वे च श्रावणप्रत्यक्षविषयतावच्छेदके विरहात्तत्संग्रहः । विभक्तिखाद्यप्रवेशाच तदज्ञानदशायां न शाब्दानुपपत्तिरिति कश्चिदाह तन्मन्दम् नीलोघट इत्यत्र सुपदयोस्तारमन्दरूपत्वे श्रावणप्रत्यक्षविषयतावच्छेदकतारबजातिमादायाकालानुपपत्तेः । विभक्तिमात्रवृत्तितथाविधधर्मेतरधर्मवारकं हि विभक्तिविभाजकलमुपादेयमन्यद्वेति न कश्चिद्विशेषः ज्ञाततयोपयोगाभावस्य समानखात् । अथ विशेष्यवाचकपदोत्तरावृत्तिनिष्ठा या विभक्तिविभाजकखसमानाधिकरणविषयता तनिरूपितविभक्तिनिष्ठविषयतानिरूपिताभावनिष्टविषयतानिरूपितविशेषणवाचकपदनिष्टविषयताकज्ञानरचेन कारणत्वे विभक्तिलाज्ञानेपि न दोष इतिचेन्न केवलानुपूर्वीतदवच्छिन्नज्ञानेऽभावाद्यज्ञानेपि शाब्दबोधोदयात् । अतएव विभक्तियादिकमित्यत्रादिपदमुपातं किंच विशेष्यवाचकपदोत्तरावृत्तियत्किंचिद्धर्मवद्विभक्त्यभावस्तादशधर्मसामान्यवद्विभक्त्यभावोवा विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्मवद्विभक्त्यभावो वा निरुक्तविषयतया कारणतावच्छेदकत्वेन. प्रवेश्यते। नाद्यः नीलं घट इत्यत्रापि टालादिधर्मवद्विभक्तिराहित्यसत्वेनाकाहापत्तेः न द्वितीयः नीलोघट इत्यत्रापि घटपदोत्तरखाद्यवृत्तिनीलपदाव्यवहितोत्तरसुखादिमद्विभक्तिमवस्यैव सत्वेनाकाहानापत्तेः न तृतीयः विभक्तिविभाजकत्वस्य विशेषणल एव तथाविधाभावः कारणतावच्छेदककोटी निविशते तथासति विभक्तिविभाजकलविषयतायाः कारणतावच्छेदकघटकताध्रौव्यमिति विभक्तिविभाजकलाशाने शाब्दानुपपत्तितादवस्थ्यादिति ।
स्वोत्तरवादिभिनेत्यादि । अथ घटो नील इत्यत्राकासाभावप्रसङ्गभयेन स्वोत्तरलविशेषितस्य निरूक्तपदानुत्तरत्वस्य विवक्षितुमशक्यतया घटस्य नील इत्यत्राप्याकाडापत्तिः नीलपदोत्तरं इस्भिन्नपदानुत्तरत्वे सति इसव्यवहितपूर्वलस्य घटपदे सलात् । अथ नीलोघट इत्यादिव्यासमात्रसाधारणाकालाया एवं प्रकृते विवक्षितत्वमिति चेतहि समाससाधारण्यसंपादनेन का पुरुषार्थः आकाहाधिक्यस्य विद्यमानखात् । नच घटोनील इत्यत्रापि नीलोघट इत्यादिसमभिव्याहारकल्पनयैव शाब्दबोध इतिवाच्यं नीलादेर्विधेयतया बुवोधयिषितत्वे उद्देश्यवचनं पूर्वमित्यादि न्यायानुसारेण घटादिपदस्य नीलादिपदपूर्ववर्तितया झानस्यैव शाब्दबोधानुगुणत्वात् । अतएव पर्वतो वद्धिमानित्यादिकमेव प्रतिज्ञावाक्यमभियुक्ताः प्रयुजते । किश्चनीलोऽस्ति घट