________________
गूढार्थतत्वालोकव्याख्यासहितः ।
क्यादीनां त्रयाणां तृणारणिमणिन्यायेन हेतुत्वशङ्कानिरासः । तथा सत्येषामेकैकसमवधानदशायामपि कार्योत्पत्तेरावश्यकतया तत्रितयपर्याप्तसमुदायत्वस्य कार्योत्पत्तिप्रयोजकतानवच्छेदकतया तेषां त्रयाणां तथाविधैकसमुदायत्वाश्रयत्वानुपपत्तेः । एवं जात्याकृतिव्यक्तयः पदार्थ इत्यत्र त्रितयनिष्ठस्य पदशक्तिरूपपदार्थत्वस्यैकत्वं विवक्षितमिति तत्र विशेष्यपदस्य बहुवचनान्तत्वेऽपि विशेषण पदस्यैकवचनान्ततोपपत्तिः प्रत्यक्षानुमानेत्यादिसूत्रे प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्य प्रत्यक्षानुमानादिनिष्ठस्यैकताया बाधितत्वेनाविवक्षितत्वात्प्रमाणपदस्य बहुवचनान्ततेति । एवं पितरो देवता इत्यत्रापि पितृपितामहादीनां सहितानामेकरूपेण देवतात्वविरहेण पितृत्वपितामहत्वादिना पृथगेव त्यागोद्देश्यत्वरूपदेवतात्वम् । उद्देश्यतावच्छेदकभेदेनैव उद्देश्यताभेदात् । तत्र एकत्वस्याविवक्षया देवतापदस्य बहुवचनान्ततेति दिक् । स्वप्रकृतिकत्वं च स्वाव्यवहितोत्तरत्वेन प्रतिसन्धीयमानत्वम् । तेन दधि सुन्दरमित्यादौ विशेष्यपदानन्तरं विभक्तेरसत्वेऽपि न क्षतिः । तत्र विभक्तेरनुसन्धानं बिना शाब्दबोधानुपगमात् । एवं तादृशविभक्तिसजातीयविभक्तिकत्वमपि तथाविधविभक्त्यव्यवहितपूर्ववर्तितथा प्रतिसन्धीयमानत्वम् । तेन इदं दधीत्यादौ विशेषणपदानन्तरं विभक्तेरसखेऽपि न क्षतिः । अथ नीलस्य घट इत्यादावपि पदार्थोपस्थित्यादिकारणसमवधानसंभवात् कथं न नीलघटाद्योरभेदान्वयबोधः । सामग्र्या कार्यजनने उक्तनियमभङ्गप्रसङ्गरूपबाधकस्याकिंचित्करत्वादिति चेत् । तथाविधान्वयबोधौपयिकाकाङ्क्षाविरहात् । तथा हि । तादृशान्वयबोधे प्रथमाविभक्त्यन्त
२५
ननु हेतुपदस्य निरुक्तधर्मावच्छिन्ने लक्षणानुसरणं व्यर्थ शक्त्युपस्थापिते हेतुत्वेप्येकत्वान्वयस्य संभवात् । नच कथं हेतु - एकलान्वयस्य संभवः तदेकत्वस्यावच्छेदकैक्यायत्तत्वेनावच्छेदकतया संभाव्यमानानां शक्तित्वादीनामनेकत्वादिति वाच्यम् समुदायत्वेनैकहेतुत्वस्य संभवात् । अत एव समुदिता इति सार्थकं, समुदायत्वविशिष्टहेतुखान्वये समुदायत्वेन हेतुत्वस्य लभ्यत्वात् । इत्थमप्येकैकस्मात्कार्योत्पत्तिव्यतिरेकलाभेनैकत्वविवक्षाया नानर्थक्यमिति चेन्न एकस्याः प्रत्यासत्तेर्दुर्लभतया समुदायत्वस्यैकविशिष्टापरत्वरूपत्वेन विशेष्यविशेषणभावे विनिगमनाविरहा गुरुतरानेककारणत्वप्रसङ्गेन च दण्डचक्रादीनां समुदायत्वेन हेतुलमनभ्युपेत्य प्रत्येकरूपेण हेतुत्वानां सहकारिवादेभ्युपगतत्वाच्छक्यादीनामपि समुदायत्वेन हेतुत्वस्य सहकारिवादे तथैवानभ्युपेयत्वात् । नच समुदिता इत्यस्य वैयर्थ्य हेतुपदस्य निरुक्तसमुदायलावच्छिन्नलक्षणायां तात्पर्यग्राहकत्वात् । कार्योत्पादेति पर्यवसितकथनं नतु तदन्तर्भावेण हेतुपदार्थता तदुद्भवइत्यस्यान्व या देवतल्लाभात् काव्योद्भवनिरूपितप्रयोजकत्वश्च काव्योत्पत्तिसमानाधिकरणाभावाप्रतियोगित्वं तादृशोत्पत्तिव्यतिरेकनियतव्यतिरेकप्रतियोगित्वमतिरिक्तपदार्थोवेत्यन्यदेतत् । सर्वथैव शक्तत्यादिष्वेकैकस्मात्कार्योत्पत्तौ शक्त्यादिसमुदायव्यतिरेकस्य कार्योत्पत्तिसदेशत्वेन निरुक्तसमुदायत्वस्य प्रयोजकतावच्छेदकत्वासंभव इति तेषां सहकारिलमेवाभ्युपेयमित्येकत्वविवक्षाप्रयोजननिर्वाहः ।
तृणारणिमणिन्यायेनेति । तृणारणिमणी नधिकृत्य तो न्यायस्तृणारणिमणिन्यायः, सचान्यतमत्वादिना गृहीतान्वयव्यतिरेकेष्वेकैकशो व्यभिचारेषु परस्परनैरपेक्ष्येण प्रत्येकधर्मपुरस्कारेण कारणतसाधिका युक्तिस्तयेत्यर्थः । तृतीयार्थस्य हेतुत्वेन्वयः ।
पदशक्तिरूपपदार्थत्वस्यैकत्वमिति । नचेच्छारूपायाः शक्तेरेकत्वेन ययेकपदार्थत्वव्यवहारस्तदा घटपटादीनामपिस्यात् यदिचेच्छाविषयत्वस्यैकत्वनिबन्धनस्तदा जात्याकृत्यादिनिष्ट विषयताया नानात्वेन जात्यादिष्वप्येकशक्तेरसंभव इतिवाच्यं पदजन्यबोधविषयत्वनिष्ठप्रकार तैयहि शक्तिस्तन्नियामकसंबन्धश्व स्वनिरूपित विशेष्यत्वस्वावच्छेद्य निरूपितावच्छेद्यत्वनिष्ठविषयतानिरूपितावच्छेदकत्वनिष्टविषयतावत्वान्यतरात्मकः विषयतावत्वश्च स्वनिरूपिताधेयत्व संबन्धावच्छिन्नावच्छेदकतावत्वस्वनिरूपितसंसर्गत्वनिष्ठविषयतानिरूपित विषयतावत्वान्यतरसंबन्धेन बोध्यमिति न काप्यनुपपत्तिः । एकताया बाधितत्वेनेति । नच प्रमाणत्वस्य प्रमाजनकत्वरूपतया प्रमात्लएकलान्वयसंभवात्तद्विवक्षया कथन सार्थकैकवचनप्रयोगः कृत इति प्रमात्वस्यैक्याभावादसंभवान्न तथान्वय इति न वाच्यम् प्रमानुगतव्यवहारानुरोधेन कथञ्चिदनुगतप्रमात्वस्य वाच्यत्वादिति वाच्यम् प्रमालन्यूनवृत्तिधर्मघटितधर्मावच्छिन्नजनकत्वरूपतया प्रथमधर्म एवं चैकत्वान्वये प्रमाणपदोत्तरखादेः साकाङ्गत्वाप्तादृशै कधर्मावच्छिन्नजनकत्वस्य प्रत्यक्षादिचतुष्टयेबाधितलादिति भावः । अनुपगमादिति । एतद्वीजंल वक्ष्यते । प्रथमाविभक्तयन्तेति । प्रथमात्वेन विभक्तेर्नाकाद्वाशरीरे प्रवेशः प्रथमालाज्ञानेऽपि शाब्दबोधोदयात् । नापि स्वत्वादिना घटइत्याद्यानुपूर्वीमान्नज्ञानेऽपि शाब्दबोधोदयात् किन्तु घटइत्यादेरानुपूर्वप्रकारेणैवाकाङ्क्षाशरीरे प्रवेशः कार्यः आनुपूर्वीविशेषा
'प्रमाणत्वस्य
४ व्युत्प०