________________
२४
व्युत्पत्तिवादः । वचनोपपत्तेरलं जात्येकत्वपरतया तत्र समर्थनेनेति । सदयकिंचिरकरम् । भावाल्यातखले गरवतरविरहेण विभक्तनिरर्थकत्वोपगमात् । तत्र च सार्थकत्वोपगमसंभवे तरपरित्यागस्यानुचितत्वात् । सति तात्पर्य सद्बोधस्यानुभविकत्वाचेति । एवं त्रयः समुदिता हेतुरित्यत्र हेतुपदं कार्योत्पादप्रयो. जकतावच्छेदकसमुदायत्वावच्छिन्नपरं ताशसमुदायत्वान्वितमेकत्वं एकवचनार्थः । अत एव श
..-.-.. वच्छेदकताभिनपशुत्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपितपशुत्वावच्छिन्नावच्छेदकताभिन्नकरणतात्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपित्तप्रतियोगिताकाभावत्वेनोक्ताभावः प्रवेश्यः तेन तत्पशुवृत्तिभेदवत्पश्वकरणकत्वं भेदवत्तत्पश्वकरणकत्वं तादृशभेदवत्पशुकरणकत्वघटोभयाभावं चादाय नोभयपशुकरणकयागसङ्कप्रसङ्गः ।
अनुभवविरुद्धत्वेत्विति । अत्र च धात्वर्थीभूतस्य सुबर्थे विशेषणतया ह्मन्बयोऽनुभवविरुद्धः । नच सुबर्थघटकीभूतस्य धातुविशेषसमभिव्याहारेण तादृशार्थे पदवृत्तेः सुप्रड्तया ततस्तथाभानेआकाहाविरहस्याकिञ्चित्करत्वादिति चिन्त्यम् । एवं सुबर्थघटकतया भानाङ्गीकारेपि खकरणपशुवृत्तित्वसंवन्धप्रवेशफलं चिन्त्यमेव । कश्चित्तु स्वकरणपशुनिष्ठभेदप्रतियोगितावच्छेदकरघसंबन्धावच्छिन्नखाभाववत्वमेव निरुक्तानवच्छेदकत्वमन्यथा स्वत्वप्रवेशेऽननुगमः अप्रवेशे च करणीभूतपशुनिष्ठभेदप्रतियोगितानवच्छेदकत्वोपरामेणैवतादृशानवच्छेदकत्वस्य संसर्गताया वाच्यतया तेन रूपेण तस्यैकत्वमात्रावृत्तितया गुणे संयोगस्य द्रव्यसंसर्गताया इवैकत्वे निरुक्तस्य यागसंसर्गताया अप्यसंभवः । एवञ्च पश्वकरणकयागवैशिष्ट्यस्योभयपशुकरणकयागक. रणपशुनिष्टैकत्वे संभवः स्यादिति खाकरणपशुवृत्तित्वसंसर्ग उपादेय इत्याह तन्नातिमनोरमं । संसर्गसंसर्गभानाभावपक्षे उक्तरीतेः संभवेऽपि कल्पान्तरे तदसंभवात्तथाहि उक्तानवच्छेदकत्वस्यान्यत्र प्रसिद्धस्य यागविशिष्टबुद्धौ रूपविशिष्टयुद्धौ समवायस्य रूपप्रतियोगिकत्वेनेव यागप्रतियोगिकत्वेनैव संसर्गतया भानमङ्गीकरणीयं तथासत्येकत्वे न तस्यासंभव इति खाभाववत्वस्य संसर्गरूपताङ्गीकारस्य नि/जत्वात् । कथमन्यथा पशुत्वतत्तव्यक्तित्वाद्यवच्छिन्नप्रतियोगिताकभेदस्याप्याश्रयनिष्टतया तमादायै. चाश्रयनिष्ठभेदप्रतियोगिपश्रकरणकत्वस्य यागकरणपशाचविद्यमानलोक्तिसंभवे विशिष्टभेदद्वित्ववद्भेदपर्यन्तानुधावनं । नच प्रतियोग्यवृत्तित्वविशेषणेन विशिष्टभेदादिव्यावृत्तिसंभवे तत्कल्पपरित्यागोऽनुचित इति वाच्यं प्रतियोग्यवृत्तित्वस्यापि विलक्षणावच्छित्रत्वमन्तरेण दुचतया तद्धटितकल्पानुसरणस्यैव युक्तत्वात् । यत्तु स्वाभाववत्वप्रवेशेऽपि खत्वप्रवेशाप्रवेशविकरुपेन दोष इति तन्न स्वबृत्युभयावृत्तिधर्मावच्छिन्नप्रतियोगिताकाभावस्यैव प्रवेश्यत्वात्तत्र खत्वाप्रवेशेऽपि क्षतिविरहादिति । अथवेति । वाकारोऽनास्थायामानुभविकस्यैकत्वबोधस्यापलापप्रसङ्गादिति । गत्यन्तरविरहेणेति । अविवक्षातिरिक्तगतिविरहेणेत्यर्थः । विशेष्यतया आख्यातार्थसंख्याप्रकारकान्वयबोधे प्रथमान्तपदोपस्थाप्यत्वस्य तन्त्रत्वेन चैत्रेणस्थीयत इत्यादौ चैत्रादेः प्रथमान्तपदानुपस्थाप्यत्वेन तन्त्र संख्यान्वयासंभवात् । सार्थकत्वानुरोधेन व्युत्पत्तिवैचित्र्येणाप्यन्वयस्य चैत्रमैत्राभ्यांस्थीयत इत्यादौ द्वित्वावरुद्ध कर्तर्यसंभवात् कर्तृगतसंख्याभिधाने तृतीयानुपपत्तेश्च धात्वर्थबहुत्वेष्येकवचनस्यैव दर्शनात्तत्रापि बाधितत्वेनान्वयासंभवाद्धात्वर्थे द्वित्ववहुत्वयोरपियोग्यत्वेन तद्विवक्षायां द्विवचनबहुवचनयोरप्यापत्तेः धात्वर्थे संख्यान्वये आल्या. तस्य निराकाङ्कत्वस्यैवाभ्युपेयत्वाञ्च न विवक्षासंभव इति भावः। निरर्थकत्वोपगमादिति । नच तेप्रभृतेः कर्माख्यातादिस्थले संख्याप्रत्ययोत्पादात् तादृशानुपूर्वीप्रकारेणैकत्वादिशक्तेरावश्यकत्वात् संख्यार्थकत्वमेवास्ति भावाख्यातस्यापीति कथं निरर्थकत्वसंभवः । यत्तु भावाख्यातस्थलेऽपि कालस्य प्रतीतेः कथं निरर्थकत्वसंभव इति तन्त्र संख्यारूपार्थराहित्यस्यैव निरर्थकलपदेन प्रकरणमहिम्ना लभ्यत्वादिति वाच्यम् संख्यातात्पर्यरहितत्वस्यैव तद्रूपत्वात् नहि संभवति तत्र संख्यायां व्युत्पन्नस्य वक्तस्तात्पर्य प्रागुक्तयुक्त्या तद्विषयासंभवस्य निर्णयादिति तत्र संख्याविवक्षाविरहोऽभ्युपगन्तुं शक्य इति । सार्थकत्वसंभव इति । संख्यातात्पर्यविषयत्वसंभव इत्यर्थः । भावाख्यातस्थलइवात्रचाविवक्षाकारणामाबात् द्वयं ह्यविवक्षाकारणं यिवक्षणीयासंभवनिर्णयः तत्प्रयोजनत्वाप्रतिसन्धानश्च तत्र च प्रकृते न्युत्पन्नस्याद्यस्य न संभवः स्वायत्त शन्दप्रयोगइत्यादि न्यायस्य जागरूकतयोक्तातिप्रतिसन्धानंच न कल्पनाईमित्यविवक्षितत्वं नाभ्युपेयमिति भावः । अथ सम्पन्नत्रीहिमात्रबुबोधयिषया प्रयोक्तव्ये वाक्ये न केवलं प्रकृतिरित्यादि न्यायेनावर्जनीयतयाऽवश्यप्रयोक्तव्यो विभक्त्यंशः प्रकृत्यंशश्च तत्र प्रकृतिभागोऽर्थविशेषबुबोधयिषानुसारावीह्यादिविशेषपदात्मा विभक्त्यर्थस्याबुबोधयिषिततया यस्मिन् कस्मिश्चित्प्रयोक्तव्ये औत्सर्गिकत्वात्प्रथमैकवचनात्मक एव विभक्त्यंशः। एवं हि न तदवलम्बनेन स्वायत्तइत्यादि न्यायोऽवतरितुभीष्टे तथासत्येकदेशानन्वयव्युत्पत्तिभङ्गोऽपि न मर्षणीय इति भवत्येवैकत्वस्याविवक्षितत्वं दुर्वारमित्यत आह-सतितात्पर्य इति । सत्यं न स्वायत्त इत्यादिन्यायानुरोधादुक्तप्रयोगादिषुसर्वत्र संख्यायाविवक्षितत्वं परन्तु यत्र ब्रीहित्वेनैकजातीयेषु संपत्तिप्रतिपत्तिः प्रयोजनत्वेन प्रतिपन्ना तत्र भवत्येव तादृशप्रतिपत्तिविषयताव्याप्ताप्तपरम्परावक्तः प्रकरणादितस्तज्ज्ञानाच व्युत्पन्नानामप्रतिपत्तिः अनुव्यवसीयमाना च सा भवति जाताचेकत्वान्वये प्रमाणं तस्य च प्रामाणिकत्वे प्रयोगानुसारलब्धविषयप्रसरोक्तनियमभजोऽपि न दोषस्तन्नियमस्य संकोच्यत्वादिति भावः । कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नपरमिति ।