________________
"
व्युत्पत्तिवादः ।
दकत्वानिरूपितत्वसंबन्धं व निवेश्य व्युत्पत्त्यन्तरं स्वीकरणीयम् । स्वाश्रयवत्ताच स्वभिन्नत्वस्वसामानाधिकरण्योभयसंवन्धेन । प्रकृत्यर्थं एवान्वयपक्षे च स्वविशिष्टावच्छेदकतावत्वसंसर्गाघटितव्युत्पत्त्यन्तरं वाच्यम् । व्युत्पत्तिभेदश्चैतादृशस्थले न दोषाय एकशब्दशक्तिविचारे शक्तिवादे भट्टाचार्येण तथोक्तत्वात् तथाचात्र संपन्नो व्रीहिरित्यत्रैतद्देशवत्तिसम्पन्नवृत्तिव्रीहित्ववदन्यवृत्तिभेदप्रतियोगितानवच्छेदकैकत्वं व्रीहित्वे एतद्देशषृत्तिसंपन्नवृत्तिभेदप्रतियोगिता नवच्छेदकैकत्वं वा ब्रीहौ भासते तत्र तादृशानवच्छेदकत्वमेकत्वस्य तदैव संभवति यदि विजातीयस्य न सम्पत्तिस्तथासति व्रीहित्ववदन्यत्वस्यैतद्देशवृत्तिसम्पन्नवृत्तित्वस्य व श्री हित्वविरुद्ध जातावपि सत्वेन तत्र व्रीहित्वगतैकत्वस्य विरहात् एवमेतद्देशत्रुत्तिसंपन्नत्वस्य व्रीहिविजातीयेपि सत्वेन तत्र स्वाश्रयत्री हित्ववत्वसम्बन्धेनैकत्वस्याभावात् यत्र वीहीणामन्यजातीयानां च सम्पत्तिस्तत्र समुदायत्वविशेषरूप संपत्तेर्विभित्रतथा त्रीहिमात्रगत सम्पत्तेर्विवक्षितत्वमवलम्ब्य तामादाय तादृशानवच्छेदकत्वनिर्वाहो द्रष्टव्यः । यत्र नैकजातीयस्य संपत्तिरपितु नानाजातीयानां तत्र निरुक्तसंपत्तेरभावेन विवक्षितुमशक्यतया सजातीयविजातीयगतसंपत्तेरेव विवक्षणीयतया न तादृशानवच्छे दकत्वस्यैकत्वे संभवः । स्वाश्रयवदन्यत्वप्रवेशश्च सत्ताद्रव्यत्वमादायासम्भववारणाय एवमेवात्र घटोऽस्तीत्यादावपि संगमनीयः । इत्थं चोक्तव्यावृत्तिबुद्धिरूपप्रयोजनस्य निर्वाहः निरुक्तव्यावृत्तिं विनोक्तानवच्छेदकत्वस्यानुपपद्यमानत्वात् । नच बहुनी लघटसत्त्वदशायामन्त्र नीलो घटोस्तीत्येतद्देशेऽघढ जातीय घटेष्वप्यनीलजातीयं व्यावर्त्तयितुं प्रयुज्यते तस्य कथं निर्वाहः एतद्देशे पीतषढसत्त्वेप्युक्तानवच्छेदकत्वानुपपत्त्यभावात् खाश्रयघटत्ववत्व संबन्धेन पीतघटेऽप्येकत्वस्य सत्यादिति वाच्यं विशिष्टस्यातिरिक्तत्व एकत्वस्य नैल्यविशिष्टघटत्वेऽन्वयाङ्गीकारे क्षतिविरहात् तादृशैकत्वस्य पीतिमविशिष्टघटत्वेऽसत्त्वात् । अनतिरिक्तत्वे त्वयस्या घटपदस्य नैत्यघटत्वोभयनिरूपिताधिकरणतावति लक्षणाभ्युपगन्तव्या नीलपदस्य तात्पर्यग्राहकत्वात् । निरुताधिकरणत्व एव चैकत्वान्वयस्वीकारात् तादृशस्थले प्रकृत्यर्थ एकत्वान्वयपक्षे चाकाङ्क्षावशात्स्वसमानाधिकरणनै ल्यघटत्वोभयत्वावच्छिन्ननिरूपकताकाधिकरणत्वस्य संसर्गतया भानाम्युपगमेनोक्तदोषस्य वारणीयत्वादिति प्राहुः । कचित्पुस्तके समर्थनीय इत्यनन्तरं नच दात्रेण च्छिनत्ति पशुना यजेतेत्यादौ एकत्वान्वयिनो दात्रपवादेर्न प्रकृतच्छिदायागादिकरणत्वप्रकारेण भानमपितु छिदा यागादेरेव दात्रपश्वादिकरणकत्वप्रकारेण तथाचैकत्वे प्रकारीभूतदात्र पशुत्वादिप्रकारेण सजातीयदात्रपश्वादौ सकलैकत्वविशिष्टभेदसत्त्वेनाप्रसिद्धिरेव सजातीयनिष्टभेदेप्रतियोगितानवच्छेदकत्वस्येति वाच्यम् एकत्वान्वयिनि दात्रादौ तुल्यवित्तिवेद्यतया प्रकृतच्छिदा• रंणत्वादेरपि प्रकारत्वात् यदि शाब्दबोधे तुल्यवित्तिवेद्यतया भानमप्रामाणिकं तदा प्रकृतशाब्दसमानाकारकप्रत्यक्षे एकत्वेम भासमाने नियमतः प्रकारीभूतो धर्म एव ग्राह्य इत्यस्ति पाठः न प्रकृतग्रन्थइत्र यद्यपि प्रतिभाति बहुषु पुस्तकेष्वनुपलम्भात् । संदर्भस्यान्यधादर्शनाश्च । तथापि स व्याख्यायते तत्प्रामाणिकत्वमभ्युपगच्छतां संतोषाय सुधियाम् । ननु समभिव्याहृतपदार्थसंसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकवत्त्वमेकत्वान्वयिनि प्रकारतया भासमानाशेषधर्मवत्त्वमेव अन्यस्य दुर्वचत्वात् । तथाच खप्रकृतिप्रयोज्य विषयता विशिष्टमेकत्वमेकवचनार्थ इति पर्यवस्यति । वैशिष्ट्यंच स्वावच्छेद्यत्वस्वतादात्म्यान्यतरसंबन्धेन स्वविशिष्टवि शेष्यतानिरूपित्तप्रकारताविशिष्टनिरूपकताकाधिकरणत्ताकूटवद्वृत्तिभेदप्रतियोगितानवच्छेदकत्वसंबन्धेन, प्रकारतावैशिष्ट्यंच खावच्छेदकसंबन्धावच्छिन्नत्वस्वावच्छेदकतापर्यात्यनधिकरणधर्मपर्याप्तावच्छेदकता कान्यत्वोभयसंबन्धेन । एवश्वाश्र नीलोघटोत्राह्मणोत्र भुङ्क्ते इत्यादौ निरुक्ताधिकरणता कूटस्य पीतघटशयनकर्तृब्राह्मणादौ न सम्भव इति तन्निष्ठैकत्वे निरुक्तविषयतामिशिष्टत्वसम्भवान्न तत्रानुपपत्तिशङ्केत्येतदुक्तनिरुक्ताभिप्रायेणाह - नचेत्यादि तुल्यवित्तिवेद्यतयेति । प्रकारविशेष्ययो भीनाम्युपगमादितिशेषः । वेद्यत्वं विषयत्वमात्रं नतु ज्ञानविषयत्वं वित्तिपदादेव ज्ञानलाभात् तुल्यत्वश्च वेद्यत्वान्वयिस्ववृत्तिप्रकारतात्वविशेष्यतात्वान्यतरात्मकम् । तृतीयातु अभेदार्थिका भानं विषयत्वं तथाच प्रकारस्य विषयत्वं विशेष्यवृत्तिविषयतया स्ववृत्तिविशेष्यतात्वेन तुल्यं यद्विषयत्वं तदभिन्नं विशेष्यस्यचविषयत्वं प्रकारवृत्तिविषयतया स्ववृत्तिप्रकारतात्वेन तुल्यंयद्विषयत्वं तदभिन्नं तस्याभ्युपगमादित्यर्थः । वस्तुतस्तु विषयताविशिष्टविषयत्वपर्यवसन्नं तुल्यवित्तिवेद्यत्वं । वैशिष्ट्यञ्च स्वनिरूपितत्वखविशिष्टविषयत्वावच्छिन्नत्वोभयसंबन्धेन स्ववैशिष्ट्यञ्च स्वसाजात्यखावच्छेद्य विशेष्यत्वप्रकारत्वान्यतर निरूपितत्वोभयसंबन्धेन, साजात्यञ्च स्वरृत्तिप्रकारतात्वविशेष्यतात्वान्यतररूपेण संबन्धघटकवैशिष्ट्यनियामकद्वितीयसंबन्धप्रवेशात् स्वावच्छेयस्यान्यतरत्वेन प्रवेशाच कृतिनिष्ठविशेष्यतानिरूपितयागमिष्ठप्रकारत्वं तन्निरूपितपशुनिष्ठावच्छेदकत्वं चादायतुल्यवित्तिवेद्यतया भानाभावेऽपि न यागादेस्तत्प्रसङ्गः । प्रकारताविशिष्टविशेष्यत्वमेव वा तत्, वैशिष्ट्यंच स्वनिरूपितत्वखावच्छेद्यविशेष्यतानिरूपितप्रकारतात्वावच्छेद्यत्वोभयसंबन्धेन । एतच नीलो घट इत्यादौ नैल्यस्य घट इव घटस्य नैल्येपि भान एव निर्वहति नान्यथेति बोध्यम् । अप्रामाणिकमिति । प्रत्यक्षे सामम्योस्तुल्यकालप्रयोजकसाम्यात्संपन्नतयातादृशभानसंभवेपि शाब्दबुद्धीप्रकार विशेष्याभावस्य प्रकृतिप्रत्ययौ सहार्थव्रतस्तयोः प्रत्ययार्थस्य प्राधान्यमुद्देश्यवचनं पूर्वमित्यादिव्युत्पत्तिविशेषनियन्त्रितत्वेयुगपत् सामग्रीद्वयस्य संवलनासम्भवात्तादृशभानस्य न संभवइतिभावः । शाब्दबोधसमानाकारक प्रत्यक्षइति । समानाकारकज्ञानीय विषयतयोरैक्ये नास्ति विषयता वैशिष्ट्यनियामकसम्बन्धे वैलक्षण्यं शाब्दबोधीयदात्रविष्टप्रकारतातः प्रत्यक्षीयतादृशप्रकारताया एवाभिन्नत्वेन तदवच्छेद्यत्वस्य छिदाकरणत्वप्रकारतानिरूपितविशेष्यतायां सत्वादन्यत्रासत्वाच 1 ऐक्याभावे तु खविशिष्टप्रत्यक्षविषयत्वावच्छेद्यविशेष्यत्वं
२२