________________
गूढार्थतत्वालोक व्याख्यासहितः ।
तत्र स्वाश्रयत्वसंबन्धघटकसंबन्धेषु प्रागुक्तात्किंचिदधिकमुपादेयं यथा स्वतादात्म्यापन्नमुख्यप्र का रतावच्छेदकतावत्वघटकस्वाश्रयत्वनियामकसंबन्धेषु खावच्छेद्यप्रकारतानिरूपितविशेष्यतावच्छेदकावच्छिन्नत्वस्थले तादृशविशेष्यतावत्वं तनियामकसंबन्धश्च स्वावच्छेदकावच्छिनत्वस्वविशिष्टावच्छेदकता कत्वद्वयम् । वैशिष्ट्यं च स्वावच्छेद्यप्रका रतावच्छेदकसंबन्धावच्छिन्न संबन्धित्व संबन्धावच्छिन्नत्वस्वावच्छेद्यप्रकारतानिरूपितविशेष्यतासमानाधिकरणोभयावृत्तिधर्मावच्छिन्नत्वोभयसंबन्धेन । स्वविशिष्टविषयतात्वव्यापकत्वघटकसंबन्धतया च स्वावच्छेद्यप्रकारता निरूपितविशेष्यत्वावच्छेद्यप्रकारतानिरूपित विशेष्यत्वा नवच्छिन्नत्वमप्युपादेयं तथा सति स्वसमानाधिकरणभेदप्रतियोगितानवच्छेदकत्व संबन्धेन निरुक्तनिरूपकताकाधिकरणतात्वव्याप्यानुयोगिताकपर्याप्तिकसंख्यावच्छिन्नविशिषैकत्वस्यैकवचनार्थत्वे भवत्येव पशुना यजेतेत्यादिस्थलीयैकत्वस्य संग्रहः । तथाहि पशुत्वाधिकरणत्वेष्टसाधनीभूततद्यागकरणत्वाधिकरणत्वद्वयत्वावच्छिन्नानुयोगिताया निरुक्तनिरूपकताकाधिकरणतात्वव्याप्यतया तत्रिरूपकपर्याप्तिप्रतियोगितादृशाधिकरणतागतद्वित्वावच्छिन्नविशिष्टत्वं तत्सदेकरवे वर्तते । यागस्य पशुद्वयकरणकत्वे च तद्यागकरणपशुनिष्ठैकत्वयोरेकस्यापि न तादृश संख्यावच्छिन्नविशिष्टत्वस्य संभवः । चालनीन्यायेन तत्तदेकत्ववद्भेदस्य पशुत्वाधिकरणत्वतद्यागकरणत्वाधिकरणत्वद्वयसमानाधिकरणत्वात् । पशुत्वाधिकरणत्वतद्यागकरणत्वाधिकरणत्वतद्व्यक्तित्वाधिकरणत्वगतन्त्रित्वावच्छिन्नानुयोगितायाश्च तादृशाधिकरणतात्वाव्याप्यत्वात् । निरुक्तनिरूपकता का धिकरणतात्वावच्छिन्नप्रवेशे तत्तद्यागकरणत्वाधिकरणत्वघटितकूटत्वस्यैव तादृशसंख्यात्वेन तदवच्छिन्नवत्वस्यैकत्वाश्रये कुत्रापि न संभव इति तत्परित्यज्य व्याप्यत्वोपादानं, तादृशसंख्यावच्छिन्नसमानाधिकरणभेदप्रतियोगिता नवच्छेदकत्वं वैकत्वे न संभवति तत्तदेकत्वानाश्रयेऽपि तादृशसंख्यावच्छिन्नवत्वस्म सत्वादिति तादृशसंख्यावच्छिन्नविशिष्टत्वमुपात्तम्, तत्तव्यक्तित्वावच्छिन्नावच्छेदकताकनिरूपकत्वसंग्रहाय तादृशविशेष्यतावच्छेदकावच्छिनत्वं विहाय तादृशविशेष्यतावत्वमुपात्तं तादृशावच्छेदकतासमानाधिकरणविषयत्वे व्यभिचारवारणाय स्वविशिष्टविषयतात्खव्यापकत्वघंटकवैशिष्ट्यनियामकतया चतुर्थं संबन्धस्य निवेशः कृतः इत्थमेव चान्यत्राप्यूहनीयः ।
२१
अथ घटोsस्तीत्यत्रैतद्देश वृत्तित्वाधिकरणत्वघदत्वाधिकरणत्वसमुदायत्वावच्छिन्नवद्वृत्तिभेदप्रतियोगितावच्छेदकत्वाभावप्रतियोगितावच्छेदकत्वस्य लाघवेनैतद्देशत्रुत्तिघटवृत्तिभेदप्रतियोगितावच्छेदकतात्व एवं कल्पनीयतया निरुक्तावच्छेदकता त्वावच्छिन्नप्रतियोगिताकाभावाप्रसिद्धिः । निरुक्ताधिकरणत्वस्योपलक्षणत्वे घटद्वयवत्यपि अत्र घटोस्तीति प्रयोगापत्तिरिति चैन्न निरुक्तसंख्यावृत्त्युभयावृत्तिधर्मविशिष्टावच्छिन्नवद्वृत्तिभेदप्रतियोगितावच्छेदकत्वाभावप्रवेशे दोषाभावात् निरुक्ताधिकरणत्वस्योपलक्षणत्वेऽपि तादृशावच्छेदकत्वाभावकूटस्य प्रवेश्यत्वेनादोषाच । अथ स्वरूपतो व्रीह्त्विजातावेकस्वाम्वयपक्षे कथं निहकव्युत्पत्तिसङ्गतिः संपत्यवच्छिन्नत्री हित्वावच्छिन्नसमवायसंबन्धावच्छिन्नाधेयत्व संबन्धावच्छिन्ननिरूपकताकाधिकरणत्वस्यैव तथाविधत्वेन तस्य सत्वद्रव्यत्वादावपि सत्वात्तत्र श्रीहित्वगतैकत्वस्याभावात् व्रीहित्वनिष्ठाया निरवच्छिन्नधर्मितावच्छेदकतायाश्च स्वविशिष्टावच्छेदकतावत्वसंबन्धस्याप्रसिद्धत्वादितिचेत्, अत्र केचित् । स्वाश्रयप्रतियोगिकखावच्छेदक संबन्धावच्छिन्नसंबन्धित्वसंबन्धावच्छिनत्वस्य संबन्धतया प्रवेश्यत्वात् । स्वाभिन्ननिरवच्छिन्नावच्छेदकतासमानाधिकरणोभयावृत्तिधर्मावच्छि नत्वस्यापि तादात्म्यसंबन्धावच्छिन्नत्वविशेषितस्य संबन्धतया वा प्रवेश्यत्वात्, व्रीहित्वप्रतियोगिकसमवाय संबन्धावच्छिन्नसंबन्धित्वसंबन्धावच्छिन्ननिरूपकताकाधिकरणत्वं निरुक्तोभयावृत्तिधर्मावच्छिन्नाधिकरणत्वं वा त्रीहित्व एव हि वर्तते न सत्त्वादाविति न दोष इति वदन्ति ।
अन्येतु जात्यैकत्वभानोपगमपक्षे यद्येकत्वमात्रमेकवचनार्थः तदा श्रीहावेकरवत्वेनैकत्वभानोपगमात् को विशेष: अर्थत लाभस्योभयत्रापि तुल्यत्वात् । नच मास्तु विशेषस्तदभावे ह्यवसितार्थतात्पर्यकाशेषपदघटितप्रयोगप्रामाण्योपपत्तिमात्राय तस्य स्वीकरणीयतयाsन्यत्र सजातीयद्वितीयराहित्यभानेऽपि प्रकृत्यर्थं एवैकत्वसामान्यस्य प्रकृते तदर्थे भानप्रसङ्गः विनिगमकाभावातथासति यत्वित्यादिग्रन्थसन्दर्भविरोधः । यदि च संपन्नव्रीहिवृत्तिव्रीहित्यनिष्टभेदप्रतियोगिता नवच्छेदकं स्वाश्रयव्रीहित्वववसंबन्धेन सम्पन्नत्रीहिनिष्ठ भेदप्रतियोगितानवच्छेदकं वैकत्वं निरुक्तस्थले भासतें तथाच सामान्यतो गृहीतायाः राजातीयनिष्ठभेदप्रतियोगिता नवच्छेदकत्व एकवचनश केरनुग्रहः सएवच बिनिगमक इत्युच्यते तदापि तद्विवक्षायाः प्रयोजनप्रतिलम्भाभावेन स्ववृत्त्यैकत्वत्वावच्छिन्नवत्वसंबन्धेनैकत्वान्वयेऽपि निरुतशक्त्यनुग्रहसंभवेन व विनिगमनाविरहस्तदवस्त्रः । नच लाघवं विनिगमकमिति वाच्यम् स्वाश्रयशाब्दत्वावच्छिन्नकार्यतानिरूपितकरणत्व संबन्धेनैकत्वान्वयापेक्षया निरुक्तसंबन्धेनैकत्वान्वय एवं लाघवसद्भावेन प्रमाणमित्यत्र तथापि तादृशान्वयानुपपत्तेरिति जातावेकत्वभानस्य विजातीये समभिव्याहतपदार्थसंसर्गव्यावृत्तिबुद्धिः प्रयोजनं वाच्यम् । तथाच संपन्नो व्रीहिरिति वाक्यं तत्र प्रामाणिकमिष्यते यत्र ब्रीहित्वरूपैकजात्यवच्छिन्नस्य संपत्तिः । यत्र तु नानाजात्यवच्छिन्नस्यैव सा तत्र संपनं सस्यमित्येव । एवं संयोगेन भूतले बहुघटसत्वदशायामत्र घटोस्तीति प्रयोगस्तत्रैव न यत्र घटविजातीयपटादीनां सत्वं । पटादिसत्वे तादृशप्रयोगश्चेत्प्रामाणिकः सर्वतीर्थेष्वयं विधिः महं संमार्ष्टि इत्यादिवदगत्याऽविवक्षितसंख्याकवचनघटित एवाभ्युपेयः । एवं च जातावेकत्वभानस्थले प्रकृत्यर्थतावच्छेदकेऽम्वयपक्षे स्वविशिष्ठावच्छेदकतावत्त्व संबन्धस्थाने स्वाश्रयवदन्यत्वनिष्ठत्व संबन्धं स्वाश्रयवत्वनियामकसंबन्धेषु स्वविशिष्टावच्छे