________________
२०२
व्युत्पत्तिवादः । नसाधारणतया यत्र घटः क्रियते इत्यादिप्रयुज्यते तत्र जलाहरणं कपालं क्रियत इत्यादिप्रयोगस्यापतिरिति चेत् । कृत्यर्थकधातुसमभिव्याहृतकर्मप्रत्ययस्य चिकीर्षाप्रयोज्यसाध्यताख्यविलक्षणविषयत्व. मेवार्थः । उक्तखले च कपालादौ कृतेस्तारशविषयवाभावानोक्तप्रयोगप्रसङ्गः ।काशाः कटं क्रियन्ते इत्यादी साध्यतास्यविषयताश्रयकर्मान्तरसमभिव्याहतकर्मप्रत्ययेनव्यापार्यतारूपविषयतापि प्रत्याख्यते तदुपादानतया कृतिविषयकाशादौ साध्यतारूपकृतिविषयताविरहेऽपिन ताशप्रयोगानुपपतितारशकर्मसमभिन्याहाररूपतत्प्रयोजकविरहात् काशाः क्रियन्ते इत्यादी काशादौ व्यापार्यतागोधानुपपत्तेर्न ताशप्रयोगइति काशाः कटाः क्रियन्ते इत्यादावपि विशेष्यभेदेन वाक्यार्थभेदात्कर्मवयनाचकपदयोः समभिव्याहारे व्यापार्यतायोधानुपपत्तिश्च । क्रियते इत्यत्र विषयतायाः कर्मप्रत्ययार्थत्वे पाकानुपधायककृतिमादाय पाकोऽकारीस्यादिप्रयोगापत्तिरित्यादिकन्तु दूषणं निराकृतमयस्तात् । कर्तकर्मत्ववत्कालविशेषेऽनुशिष्टा लडादयःकालविशेषमपि बोधयन्ति । तत्र लट्प्रत्ययस्य वर्तमामकालेशक्तिः। पचतीस्यादी कृत्यादिरूपव्यापारबोधकप्रत्ययोपस्थाप्यकालस्ताहशव्यापार एवान्वेति मतु क्रियायाम् । यदा पुरुषो व्यापारशून्यस्तद्धीनाग्निसंयोगादिरूपः पच्यादेरथों विद्यते तदायं न पचतीति प्रयोगादयं पचतीत्युक्ते इदानीमय पाकयत्नवान्नवेति संशयनिवृत्तेः पूर्षापरीभावापन्नखाल्यारोपणादिव्यापाराणां विशिष्यपच्याद्यर्थघटकत्वेन प्रत्येकतन्यापारेषु कालान्वयबोधापेक्षया स्थादिरूपैकार्थे तदन्वयस्यैव लाघवेनोचितत्वाश्च । वर्तमानकालश्च तत्तच्छब्दप्रयोगाधिकरणकालरूपस्तत्तच्छब्दार्थः अतो नैककालप्रयुक्तलडादितोऽपरलडादिप्रयोगाधिकरणकालीनत्वस्य फस्यादावन्वयः । स्वप्रयोगाधिकरणकालत्वेन खवाच्यत्वे खत्वाननुगमात् शक्तयानन्त्यम् सामान्यतो व्युत्पत्तेर्दुर्घटतया पूर्वव्यक्तिबोधानुपपत्तिः सर्वनामविचारदर्शितरीत्या समाधास्यते। विशिष्य तत्तत्कालत्वावच्छिन्नबोधस्यानुभवसिद्धतया सर्वनामशक्तौ बुद्धिस्थत्वादिवच्छन्दप्रयोगाधिकरणस्वमुपलक्षणविधया व्यावर्तकं वाच्यम् । नच तत्कालस्यैवंसत्यवाच्यत्वे तज्ज्ञानानुपत्तिरसमाधेयैवेति वाच्यम् । शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मत्वेन तत्तत्कालत्वानामेवोपलक्षणीयत्वात् । अथ शब्दप्रयोगाधिकरणवृत्तिकालस्वव्याप्यधर्मो वर्षत्वादिकमपि कालवयावृत्तिधर्मत्वनिवेशेपि एतद्रूपमासत्वादिव्यावर्सनमशक्यम् । क्षणद्वयावृत्तिक्षणवृत्तिधर्मत्वेन तव्यावर्त्तनेच अध्ययनाद्य नधिकरणेऽप्यध्ययनाद्यधिकरणस्थूलकालान्तर्गतक्षणेऽसमाप्तारब्धाध्ययने पुंसि चिन्तामणि मयमधीत इत्यादिप्रयोगानुपपत्तिः । यदिच स्वप्रागभावानधिकरणस्खाश्रयकर्तृकप्रकृतक्रियाप्रागभावा. धिकरणशब्दप्रयोगाधिकरणकाल एव वर्तमानकाल आधेयतासंबन्धेन कृतावन्धेस्यतो नोक्तस्थले चिन्तामणिमयमधीतइत्यादिप्रयोगानुपपत्तिः आरम्भावधिसमाप्तिपर्यन्तस्य स्थूलकालस्यापि तथास्वेन शब्दप्रयोगाधिकरणक्षणादिरूपान्तरालकालेऽध्ययनाद्यनुकूलकृतिविच्छेदेऽपि शब्दप्रयोगाधिः करणत्वोपलक्षितताशस्थूलकालवृत्तित्वस्यापि तादृशक्रियानुकूलकृतावबाधेन योग्यतानिर्वाह इस्युच्यते, तदा येन समनचिन्तामणिमधीत्य किंचित्कालोसरं पुनश्चिन्तामणिमध्येष्यते तत्रान्तरालदशायामप्ययं चिन्तामणिमधीत इति प्रयोगापत्तिः । यदि स्तुतिपाठादिविच्छेददशायामपि प्रत्यह मयं स्तुति पठतीत्यादिवदुक्तस्थलेऽपि दर्शितप्रयोग इष्ट एवेत्युच्यते तदापि स्वपदेन विशिष्य तत्तस्कृतीनामुपादानेनाननुगमो दुरुद्धर एवेति चेन्न । शब्दप्रयोगाधिकरणवृत्तिकालस्वव्याप्यधर्मस्वेनोपलक्षणेनानुगतीकृततत्क्षणदिनमासवर्षवाद्यवच्छिन्नएव काले लटः शक्तिः । क्रियारम्भा. अधस्तादिति । द्वितीयायाम् । कालद्वयावृत्तीति । प्रकृते प्रयोगाधिकरणतदनधिकरणकालद्वयावृत्तीत्यर्थः । प्रकृतनयोगानधिकरणकालावृत्तीतिमात्रं वक्तव्यम् माससमुदायखरूपवर्षवस्य प्रकृतशब्दप्रयोगानधिकरणमासान्तरवृत्तिस्वासद्वारणम् । एतद्रूपमासत्वादिति । एतदित्यनेन त्रिंशद्दिनस्थायियत्किश्चियक्तिग्रहस्तदेव रूपं यस्य स एव तद्रूपो मास. स्तत्वस्य प्रयोगाधिकरणाखण्डैककालवृत्तेः प्रयोगानधिकरणकालावृत्तितया तत्संग्रहो दुर्वारइत्यर्थः । आदिपदादखण्डैकव्यक्तिवृत्तिवर्षखादिपरिप्रहः । क्षणद्धयावृत्तिक्षणवृत्तीति । उक्तमासखादिवारणाय क्षणवृत्तीति क्षणसमुदायवारणायाधुक्यन्तम् । असमातेति । असमाप्तमारब्धाध्ययनं यस्य तस्मिन्नित्यर्थः । स्वप्रागभावेति । खं वर्तमानलान्वयिकृतिः