________________
गूढार्थतत्वालोकव्याख्यासहितः । आधारसप्तम्या आधेयत्वमर्थः, तस्य क्रियायामन्वयः। आधाराधेयभावश्च न संयोगादिरूपसं. बन्धात्मकः कण्डादिसंयोगिनो बदरादेरपि कुण्डाधारताप्रसङ्गात् । अपि तु पदार्थान्तरमेव । सच संबन्धविशेषावच्छिन्नः संयोगेनाधिकरणं समवायेनाधिकरणमित्यादिव्यवहारात् । अथ वोक्ताऽतिप्रसङ्गभिया संयोगेनाधारत्वमेवातिरिक्तम् । समवायसंबन्धावच्छिन्नं च समवायादिरूपमेय। नच समवायस्य संबन्धत्वेन द्विष्ठतया रूपादेरपि पटाद्यधिकरणताप्रसङ्गः । तथासति तुल्ययुत्नयाधिक रणत्वस्यापि द्विष्ठतया तादृशातिप्रसङ्गस्य दुर्वास्त्वात्। यदि चाधारताया आधारेऽनुयोगित्वं संबन्ध आधेये च प्रतियोगित्वमिति संबन्धलक्षण्यानातिप्रसङ्गः आधारतानुयोगिताया पवाधारव्यवहार प्रयोजकत्वादित्युच्यते, तदा समवायस्यापि तद्वैलक्षण्यनातिप्रसङ्गवारणादतिरिक्ताधारतायां माना. भावात् । स्पर्शाद्याधारवारवादेरूपाद्याधारतावारणायाधेयमेदेनाधारत्वमतिरिक्तमिति न सत् । आ. धेयभेदभिन्नाधिकरणतानामतिरिक्तसमवायस्य च कल्पनामपेक्ष्याऽऽधेयभेदेन समवायभेदस्यैवोपगतुमुचितत्वात् । अथ संयोगेनाधिकरणत्वमपि संयोगरूपमस्तु । कुण्डबदरादिसंयोगानां कुण्डादिकमनुयोगि न तु बद्रादिकमिति नातिप्रसङ्गः । न चैवमपि कुण्डादेः कुण्डादिनिष्ठसंयोगानुयोगितया कुण्डाधारतापन्तिः। तादृशसंयोगस्य कुण्डादिनिष्ठत्वेऽपि तत्प्रतियोगिकत्वानुपगमात्तत्प्रतियोगिकसंबन्धानुयोगिताया एव तदाधारव्यवहारप्रयोजकत्वात् । नचासौ संयोगो यदरादौ कुण्डविशिष्टबुद्धिप्रयोजकतयोभयानुयोगिक एक एवमुभयप्रतियोगिकोऽपीति वाच्यम् । आधेये संयोगेनाधिक रणविशिप्रबुद्धेरप्रामाणिकत्वात, कुण्डे बदरमित्यादिविशिष्टयुद्धौ संयोगप्रतियोगिताया एव संबन्धस्वात् । पटे रूपमित्यादी समवायप्रतियोगितावत् । अन्यथा तादविशिष्टबुद्धिबलाद्रूपादावपि घटा. दिसमवायानुयोगिताप्रसङ्गादिति चेन्माभूत्तत्संबन्धावच्छिन्नाधारत्वमप्यतिरिक्तम् । यत्तु तत्पतनप्रतिबन्धकसंयोगवत्त्वं तदाधारत्वं कुण्डादिपतनप्रतिबन्धकसंयोगवत्त्वं च न बदरादौ तत्संयोगसवे. ऽपि तस्य पतनादिति । तदसत् । यस्य पतनमप्रसिद्धं तदाधारत्वासंग्रहात् । स्वस्मिन्स्वपतनप्रतिबन्धकसंयोगसत्त्वेन खस्यापि वाधारताप्रसङ्गाच्च । स्वान्यत्वे सति स्वनिष्ठपतनानुत्पादकप्रयोजकसंयोगवत्त्वं तदिति चेन्न । पतदनुपस्थितावप्यधिकरणव्यवहारादित्यलम् । अथाधारसप्तम्या आधेयतार्थकत्ये भूतले वर्त्तते घट इत्यादी धात्वर्थस्य वृत्तेराधेयतारूपत्वेन तत्र भूतलाद्याधेयत्वाभावेनायोग्यताप्रसङ्ग इति चेन्न तत्र निरूपकत्वस्यैवाधारतारूपत्वेन निरूप्यत्वस्यैव सप्तम्यर्थत्वात् । भूतलादिनिरूप्य त्वस्य च घटादिनिष्ठवृत्तावबाधात् । अतएव इतिहेतुस्तदुद्भवइत्यादौ हेतौ हेतुतायां चोद्भवयदार्थोत्पत्तिवृत्तित्वाभावेऽपि हेतुतायामुत्पत्तिनिरूपितत्वसत्वेन सप्तम्युपपत्तिः । अथवा वृद्धातोरपि आधारत्वमेवार्थस्तनिरूपकत्वमेव घटादेस्तकर्तृत्वम् । एवंच तारशधात्वर्थे भूतलाद्यधिकरणकत्व
-
--
-
-
-
-
-
- आधेयत्वमर्थ इति । आधारस्वस्य सप्तम्यर्थत्वे तस्य निरूपकत्वसंबन्धेनान्वयस्य वक्तव्यतया नसमभिव्याहारस्थले निरूपकलसंवन्धस्य वृत्यनियामकत्वेन तत्संबन्धावच्छिन्नप्रतियोगिताकतदभावस्य बोधयितुमशक्यत्वात् आधेयत्वस्यैव सप्त्यम्यर्थताया वाच्यतया प्रतियोग्यभावान्बयतुल्ययोगक्षेमतानियमानुरोधात्सर्वत्रैवाधेयत्वमेव सप्तम्यर्थ इत्युपेयमिति भावः । संयोगेनाधारत्वरोवेति । संयोगस्तु न विशिष्टप्रत्ययानुरोधेन कल्प्यः किन्तु प्रत्यक्षणोभयनिष्टतया सिद्ध एव तस्यैवाधारस्वरूपत्वे उक्तातिप्रसको दुर्वारः स्यादिति तेनाधारत्वस्यातिरिक्तलमवश्यं वाच्यम् समवायस्तु न संयोगवदुभयनिश्रुतया प्रत्यक्षोऽपि तु विशिष्टयुद्ध्या कलप्यः सच तदुपपत्तये आधार एवं कल्पनीय इति तस्यैवाधारवरूपत्वेप्यतिप्रसङ्गविरहान तदवच्छिन्नाधारवमतिरिक्तमुपेयमिति भावः । संबन्धत्वेन द्विष्ठतयेति । संयोगवद्विशिष्टबुद्धिविषयतयासमवायसिद्धौ संबन्धलहेतुनासंयोगवदेव द्विष्ठलमपि समवाये सिद्ध्येत तथाच समवायस्याधारतारूपत्वेप्यतिप्रसङ्गः स्यादिति समवायावच्छिन्नाधारस्वमप्यतिरिक्तमुगेय मिति भावः । अधिकरणत्वस्यापि द्विष्ठतयेति । ननु विशिष्टबुद्धिमात्रस्यैव संयोगसमवायादिसंसर्गविषयकत्वादावारत्वस्य संबन्धतया भानस्यैवाप्रसिद्धेस्तत्र संवन्धत्वस्याप्रामाणिकतया समवायवत्संबन्धत्वेन हेतुना कथमाधारत्वे द्विचत्वसिद्धिरिति । नच रूपाधारोयमिति बुद्धेरूपाधारत्व विशिष्टबुद्धित्वेन तत्संबन्धगोचरत्वस्यावश्यकतया तत्वरूपस्यैव तत्संबन्धवस्य वाच्यतया संबन्धत्येन द्विष्टरवस्य सिध्यापत्तिरिति वाच्यम् आधेये च