________________
व्युत्पत्तिवादः ।
कुत्र वा तदन्वयः । व्यावृत्तत्वं तदवृत्तित्वम्, शूरतमादिपदोपस्थापित धर्मे तदन्वय इति चेन्न । पदार्थतावच्छेदकेन पदार्थान्तरानन्वयात् । पदार्थानां जातिमति सत्तेत्यादी जातिमदन्यप दार्थवृत्तित्वसामान्याभावस्य सत्तादौ बाधितत्वात् । तादृशपदार्थसमवेतत्वावभावस्य चाप्रसिद्धेश्यावृत्तिबोधासंभवाच । एवं द्रव्येषु कम्बुग्रीवादिमान् घट इत्यादौ घटत्त्वादिधर्मस्यान्वयितावच्छेदकरूपेणानुपस्थितत्वात्तत्र व्यावृत्तत्वान्वयबोधो दुर्घट इति । अत्र केचित् नराणां क्षत्रियः शूर इत्यादी क्षत्रिय इव लक्षणया क्षत्रियान्योऽपि क्षत्रियपदार्थः शूरपदस्यापि शूर इव तदन्योऽप्यर्थः षष्ठ्यर्थोऽभेदः क्षत्रिये तदन्यस्मिंश्चान्वेति, तथा च नराभिन्नः क्षत्रियः शुरो, नराभिषक्षत्रियान्यो न शूर इत्यर्थःनराणां क्षत्रियेषु शौर्यमित्यत्रापि क्षत्रियपदं प्राग्वदुभयार्थकम् । शौर्यपदं च तत्तदत्यन्ताभावार्थकम् । तथाच नराभिन्नक्षत्रिये शौर्य तदन्यस्मिंस्तदभाव इतिबोधः । उद्देश्यविधेययोर्यारशसंबन्धी भावान्वयबोधे भासते तत्संबन्धावच्छिन्नविधेयाभावः उद्देश्यवाचकविधेयवाचकपदयोर्वैय्यधिकरण्यस्थले विधेयपदलक्ष्यार्थः तयोः सामानाधिकरण्यसले तु विधेयधर्मिभिन्न इति सामान्यतो व्युत्पत्तिरित्याहुस्तन्न । 'तथासति' तस्मै पुरुषोत्तमाय नम इत्यत्र तत्पदार्थतदन्ययोरेव पुरुषपदार्थाभेदविवक्षणे उत्तमपदेनासामर्थ्यात्समासाप्रसक्तेन निर्धारणइति निषेधाश्रयणेन प्रकाशकृतां षष्ठीसमासखण्डनानौचित्यप्रसङ्गात् । एवं नरेषु शूरस्य
क्षत्रियस्येदं राज्यमित्यादी शूरपदार्थाशूरान्वितक्षत्रियपदार्थक्षत्रियान्यस्य पष्ठयर्थसंबन्धादौ नान्वयः किंतु शूरान्वयिक्षत्रियादेरन्वय इत्येतन्नोपपद्यते । श्वेतं सैन्धवं भुङ्ग इत्यादौ कर्मतादिविशेषणतया लवणादिबुद्धौ मुख्यविशेष्यतयाऽश्वादेरभानादकपदोपस्थापितयोईयोस्तत्प्रकृतिकविभत्त्यर्थे एकस्य विशेषणतयाऽपरस्य तदविशेषणतया भानस्थाव्युत्पनत्वात् । एवं द्रव्येषु क्षि इत्यादौ क्षितिजलोभयत्वाद्यवच्छिन्नभिन्ने रसंवदाद्यन्यत्वबोधो न संभवति । रसादिमत्यपि प्रत्ये कमुभयत्वावच्छिन्नभेदसत्त्वात् । नापि प्रत्येकभेदावच्छिन्ने तथैव बाधात् । नाप्येकभेदविशिष्टापरभेदावच्छिन्ने एकपदस्य तादृशभेदावच्छिन्नलक्षकत्वे परपदार्थ रसवदाद्यन्यरूपविधेयानन्वयात् । इन्द्वघटकैकपदार्थमात्रे विधेयान्वयस्याव्युत्पन्नत्वात् । नापि पदाभ्यां लक्षणया तत्तद्भिन्नोपस्थिती अभेदेनैकभिन्नान्धिते अपरभिन्ने तथापि पदार्थद्वये विधेयान्वयानुपपादनात् । द्वन्द्वे समस्यमानपदार्थानां परस्परमनन्वयादित्यपि चिन्त्यम् । यत्तु नराणां शूरः क्षत्रिय इत्यादौ शूरत्वान्वयी अभेदः षष्ठयर्थः । नराभिन्नशूरत्वाद्यवच्छेदेन क्षत्रियाभेदाद्यन्वयः । एवंच क्षत्रियान्ये नरेऽर्थतः शौर्यव्यवच्छेदलाभ इति । तदत्यन्तमलत्नराणां क्षत्रिये शौर्यमित्यादौ, क्षत्रियाणां कर्णः प्रचुरं ददातीत्यादौ चानिर्वाहात् । इदं तु तत्त्वम् निर्धारणविभक्तावृत्तत्वमेवार्थः । व्यावृत्तत्वं चाभेदान्वयिविधेयसमभिव्याहारस्थलेऽन्योन्याभावप्रतियोगित्वम् । भेदान्वयिस्थले चात्यन्ताभावप्रतियोगित्वम् । तस्यच विधेयवावच्छेदकावच्छेदेनान्वयः । अतो न द्वित्वाद्यवच्छिन्नाभावमादायातिप्रसङ्गः । अभावे च प्रकृत्यर्थस्य नरादेः क्षत्रियत्वादिरूपोद्देश्यतावच्छेदकावच्छिन्नभेदविशिष्टप्रकृत्यथतावच्छेदकनरत्वादिब्यापकाधिकरणतानिरूपिताधेयतासंबन्धेनान्वयः । एतावतैव जात्यादिरूपविशेषणशून्यप्रकृत्यर्थनरादिसामान्यव्यावृत्तेर्विधेयधर्मे लाभः । द्रव्याणां क्षितिपाथसी रसवती इत्यादौ भेदद्वयादिविशिष्टद्रव्यत्वादिव्यापकतैव संबन्धः । विधेयस्य शूरतमादेर्निर्धारणविभक्तिप्रक-: त्यर्थतावच्छेदकनरत्वादिविशिष्टतादात्म्यादिरेव संबन्धतया भासते। अतो नराणां राक्षसः शुर इत्यादे पत्तिः। अन्यत्स्वयमूह्यम् । इति षष्ठी।। सूत्रार्थश्चेत्यर्थः। शरपदार्थेत्यादि । शरपदार्थों योऽशरस्तदन्वितस्य क्षत्रियपदार्थस्य क्षत्रियान्यस्येत्यर्थः । क्षत्रियादेरन्षय इति । क्षत्रियान्यस्तु मुख्य विशेष्यतयैवावभासत इतिशेषः । तथाभाने व्युत्पत्तिविरोधमाह खेतमित्यादि ।।
इति पक्ष्याऽलोकः।
__. .-
...
.
.
. .
.
. . .-...
-
-.
.
. .-
---
-...-----...
.