________________
१८०
व्युत्पत्तिवादः ।
कथम् घटाद्योतनकर्मकरक्षणं विनाशोपधाय कव्यापारविरहगर्भ निर्वाच्यम् । यवेभ्यो गां वारयति कूपादन्धं वारयतीत्यादौ वारणार्थानामित्यनेनापादानत्वम् । वारणं क्रियाप्रतिषेधस्तदर्थक धातुयोगे ईप्सितस्तसत्क्रियाजन्यफलभागितया ततत्क्रियाकर्त्तुरभिप्रतोऽपादानमिति सूत्रार्थः । क्रियाच भक्षणगमनादिरूपा । तात्पर्यवशात्कचित्कस्याश्चित्प्रतिषेधो वारयतीत्यादिना बोध्यते । प्रतिषेधः कर्तृत्वाभावानुकूलव्यापारः । कर्तृत्वाभावरूपधात्वर्थतावच्छेदकफलशालितया गवान्धादेः कर्मता । यवादिपदोत्तरपञ्चम्या यवादिगतत्वेनेच्छाविषयफलकत्वं भक्षणादौ प्रत्याय्यते । इच्छा च भक्षणादिक्रियाकर्तृनिष्ठा तदर्थेऽन्तर्भावनीया । एवंचोतस्थले यवकूपादिनिष्ठत्वेन गवान्धादीच्छाविषयो यो गलाधः संयोगोत्तरदेशसंयोगादिर्गवादिनिष्ठतत्तत्फलकव्यापाराव शेषकर्तृत्वाभावानुकूलव्यापारानुकूलकृतिमानित्याकारको बोधः । अन्धादेर्यद्यपि कूपगमनत्वादिना नेच्छा तथाप्यभिमुखोपगमनत्वादिना कूपगमनादेरिच्छा वर्तत एवेति । वस्तुगत्या यः कूपादिदेशस्तद्गतत्वेन क्रियाजन्यसंयोगस्य तदिच्छाविषयत्वमक्षतमेव । नच प्रकृतथवकूपादिनिष्ठ फलविशेष जनकत्वमेव पञ्चम्यर्थोऽस्तु किमिच्छान्तर्भावेणेति वाच्यम् । यत्र चैत्रादेर्नान्तरीयकतया विषभोजनादिकं नतु स्वेच्छातस्तत्र तद्भोजनविरोधिव्यापारकर्त्तरि चैत्रं विषाद्वारयतीति न प्रयोगोऽपि तु सविषाद्वारयतीत्यादिरेव तत्र पूर्वप्रयोगवारणाय सूत्रकृता ईप्सित इत्यनेन सन्प्रत्ययेनेच्छोपादानात् । अतएव यद्यवादिकं केनापि न भुक्तं तत्कर्मकभोजनाप्रसिद्धावपि भोजनफले संयोगविशेषे तद्यवादिगतत्वेनेछाविषयत्वप्रसिद्ध्या तद्यवाहां वारयतीत्यादिप्रयोगोपपत्तिः । एवंच तत्र भक्षणादौ तद्यवादिकर्मकत्वगवादिकर्तृकत्वोभयाभावबोधाय केषांचित्प्रयासोऽनादेय एवेति । पण्डितात्पुराणं शृणोति, युक्ततया देवदत्तेन मैत्रो रक्षित इति प्रयोगवारणाय दुःखानुत्पत्तिगोचरकृतिप्रयोज्यव्यापारो रक्षणं धात्वर्थो बोध्यस्तद्धकानिष्टे पश्चम्यन्तार्थस्योत्तस्य द्वितीयार्थस्य विषयित्वविशेषस्य च कृतावन्वय इत्युक्तकृते मैत्र विषयकत्वाभोक्तापत्तिः । यवहं त्वया रक्षित इत्यपि तदा पूर्वोक्तोपि धात्वर्थः यत्र लाघवं तत्र शक्तिरितरत्र लक्षणा बोध्या । अत्र यजन्यं दुःखं कस्यापि न प्रसिद्धं तादृशस्याप्यहिकण्टकादेरपादानलं कथमिति चेत्तर्हि यन्निष्टदुःखोपधाय कव्यापार विरहानुकूलव्यापारस्तदपादानकं रक्षणमिति कचिदस्ति पाठः स च नातिसमञ्जसः उक्तप्रन्थाद्धि तादृशाहिकण्टकादिप्रयोज्यदुःखाप्रसिद्ध्या तस्यापादानलानुपपत्तिशङ्का प्रतीयते तच्चानुपपन्नम् । यतो रक्ष्यरक्षकयोर्यन रजौ सर्वभ्रमस्सर्पव्यापारप्रयुक्तानिष्टनिवृत्तिगोचरकृत्या व्यापारस्तत्रायं मां रक्षतीति प्रयोगो न प्रामाणिकस्तद्वयापारस्य वस्तुतो दुःखनिवृत्त्यप्रयोजकत्वात् तादृशव्यापारं विनापि तदुपरि पदारोपणादौ सत्यपि दंशादिजन्यदुःखानुत्पत्तेरतएव रज्जुत्वेऽत्रबुद्धे भवति प्रयोगो न वयाहं सर्पादक्षित इति यस्मात्सर्पादेः कदाचिदपि न कस्यचिद्दुः खोत्पत्तिस्तस्यापि रज्वादितुल्यतया तत्वेज्ञाते तत्राप्ययंतु स्वयमेव न कस्यचिद्दुःखं ददातीति नेतस्त्वयाहं रक्षित इति भवति प्रयोगइति तस्यापादानत्वाभावस्येष्टतयानुपपत्तेरसंभवादिष्ठत्वे वा तस्यापादानत्वस्य दुःखनिवृत्त्यनुकूलव्यापारस्य धात्वर्थत्वपक्षे त्तरग्रन्थेन कथं तदुपपादनं स्यात् । नहि तत्र चैत्रादिदुःखस्य तादृशा हिप्रभृतिप्रयोज्यत्वस्य चैत्रनिष्ठाहिप्रयोज्यदुः सानुत्पत्तेर्वा कर्तृव्यापारप्रयोज्यत्वस्योपपादकं किमप्युपलभामहे । नच तत्संभवत्यपि चैत्रादौ कर्तृव्यापारं विनापि तादृशाहिप्रयोज्यदुःखानुत्पत्तेस्सदैव संभवात् अहिगतदुःखानुत्पत्तेः सुतरां ताहशव्यापारप्रयोज्यत्वात् दुःखोपधायकव्यापाराभावानुकूलव्यापारस्य धात्वर्थत्वपक्षेपि पचम्यर्थस्य प्रयोज्यत्वस्य यदि दुःखे वृत्तिवस्य यदि व्यापारेन्वयस्तदा पूर्ववदेवाप्रसिद्धिस्तस्य कस्यापि दुःखाजनकलात् समवायिकारणविषया खदुःखंप्रति जनकत्वेपि तदुपधायकव्यापाराभावं प्रति कर्तृव्यापारस्य कथमपि प्रयोजकत्वस्यासंभवात् कर्मगतदुःखोपधायकव्यापाराभावे पश्चम्यर्थाधेयत्वान्वये यद्व्यापाराद्दुःखं प्रसिद्धं तद्गततादृशव्यापाराभावस्य कर्तृव्यापारं विना कदाचिदभावेन तंप्रति तस्य प्रयोजकत्वसंभवेपि यस्याहिप्रभृतेः खत एव दुःखोपधायकव्यापाराभावस्त दी यतादृशव्यापाराभावं प्रति कर्तृव्यापारस्य प्रयोजकलासंभवात् दुःखस्य परम्परयाप्युक्तव्यापारजन्यतया धात्वर्थतावच्छेदकफलत्वाभावेन तदाश्रयतया रक्ष्यस्य कर्मत्वासंभवान्वेति ।
विरहगर्भमिति । यन्निष्टस्य घटादिनाशोपधाय कव्यापाराभावस्यानुकूलो यो व्यापारस्य तदपादानकं घटकर्मकं रक्षणमि यर्थः । व्याख्यानमस्य प्राग्वत् । भक्षणादाविति । समभिव्याहारविशेषगृहीततात्पर्य विषयार्थ निरूढलाक्षणिकधार्थ भक्षणक र्तृत्वाभावानुकूलव्यापारघटकभक्षणादावित्यर्थः । प्रयासोऽनादेय इति । मक्षणादिनिष्ठा भावानुकूलव्यापारो धात्वर्थः गोनिष्ठकशृतानिरूपकत्वनिष्टद्वित्वावच्छिन्नप्रतियोगिताकलरूप द्वितीयान्तार्थस्य यवनिष्ठ कर्मतानिरूपकत्वनिष्ठप्रतियोगिताकत्वरूप पञ्चम्यन्तार्थस्यान्वयः अथवा भक्षणनिष्टोद्वित्वावच्छिन्नप्रतियोगिताको योऽभावस्तदनुकूलव्यापारो धात्वर्थः प्रतियोगितायामेव गोनिष्टकर्तृ