________________
गूढार्थतत्वालोकव्याख्यासहितः । त्विर्थतामते च संकेतीयबोधनिष्ठविषयतांशे विभागविषयकस्वामवच्छिनास्वफलान्सरविषयकवा. वच्छिन्नत्योभयावगाहिशानजन्योपस्थितिः कारणमभ्युपगन्तव्येत्यलमधिकेन । व्याघ्राद्विभेति दस्युभ्यो रक्षतीत्यादी भीत्रार्थानामित्यनेनापादानत्वम् । भयं च परतोऽनिष्टसंभावना । पाणं चानिष्टनिवृत्यनुकूलोव्यापारः । तदर्थकधातुयोगे तादृशानिष्टजनकमपादानसंशमिति सूत्रार्थः । एवंच पञ्चम्यर्थस्तत्र प्रयोज्यत्वम् । तच्च निरुक्तधात्वर्थघटकामिष्टेऽन्वेति । अथ यस्य व्याघ्राधीनमनिष्टमप्रसिद्धमथच व्याघ्रतुकत्वेन मरणादिकं संभावयति तत्पुरुषपरो व्याघ्रादयं विभेतीति कथं प्रयोगः प्रमाणम् । अनिष्टे व्याघ्राधीनत्वस्य बाधादिति चेत् भयार्थकधातुयोगे प्रयोज्यताप्रकारकत्वं पञ्चम्यर्थः। तचानिष्टसंभावनायामन्वेति, प्रकृते च व्याघ्राधीनस्वस्य तत्पुरुषीयानिष्टे बाधेऽपि अनिष्टसम्भावनायां तत्प्रकारकत्वमबाधितमेवेति नानुपपत्तिः। एवं च शत्रुभ्रमेण मित्रादपि बिभेतीत्यादिवाक्यस्यापि प्रामाण्यनिर्वाहः । एवं च भयार्थकधातुयोगे भयहेतुत्वेन संभावितमपादानमित्येकः सूत्रार्थः । अनिटविरहानुकूलब्यापाररूपत्राणार्थकधातुयोगे तदनिष्टप्रयोजकं तदित्यपरः । अनिष्टं दुःखमेव सर्वभानुगतम् । यज्जन्यं दुःखं कस्यापि न प्रसिद्ध्यति तादृशस्याप्यहिकण्टकादेरपादानत्वं स्यादिति चेत्तर्हि तनिष्ठदुःखोपधायकव्यापारविरहानुकूलव्यापारस्तपादानकं स्वकर्मकं रक्षणमिति वक्त
-- ------ - - ---- कत्वे विभज्यादिस्थलेपि तादृशज्ञानस्यैव कल्पनीयवादिति । तच्चानिष्टसंभावनायामन्तीति । अनिष्टनिष्ठविशेष्यताकत्वविशिष्टसंभावनायामित्यर्थस्तेन तादृशविशेष्यताकखोक्तप्रकारताकत्वयोरवच्छेद्यावच्छेदकभावलाभेनान्यनिष्टे व्याघ्रप्रयोज्यखस्य वानिष्ठेऽन्यप्रयोज्यत्वस्य चाचगा हिनी संभावनामादाय व्याघ्राद्विभेत्ययमिति प्रयोगस्य नापत्तिः । तन्निष्ठदुःखोपधायकेत्यादि । यत्त्वत्र दुःखोपधायकव्यापाराभावानुकूलच्यापाररूपत्राणं धालर्थः द्वितीयान्तार्थचैत्रवृत्तित्वादेः दुःखे पञ्चम्यन्तार्थस्य दुःखोपधायकव्यापारेऽन्धयः नतु तदभाचे । तथासति धावर्थतावच्छेदकतादृशव्यापाराभावरूपफलाश्रयत्वेन तस्य कर्मलापत्या पञ्चम्यनुपपत्तेरिति व्याख्यानम् । तन्न तादृशव्यापारान्वयविवक्षाया पञ्चम्युपपत्तावपि तदभावान्वयविकक्षायां दस्युप्रभृतितो द्वितीयापत्तेर्दुरवात् कर्तृव्यापारेण तादृशव्यापारनिवृत्तौ तदभावस्य तत्र सत्त्वावश्यकलात् निरवच्छिन्ननविशेषितसंबन्धेन फलाश्रयत्वस्य ग्रामादेर्गभ्यादिकर्मखानुपपत्त्या वक्तुमशक्यत्वात् अपितु दुःखनिवृत्त्यनुकूलव्यापार एव धात्वर्थः दुःखएवच खनिष्ठव्यापारप्रयोज्यत्वरूपपञ्चम्यान्वयः एतादृशपञ्चम्यर्थलाभायैव च तनिष्ठदुःखोपधायकव्यापारेत्युक्तम् यनिष्ठो ब्यापारो हि दुःखोपधायकः कस्यापि भवति तन्निष्ठव्यापारप्रयोज्यलं खरूपयोग्यत्वरूपमपि दुःखस्य भवति एवञ्च यस्याहिप्रभृतेः कस्यचिदपि जनस्य दुःखोपधायकमुपसर्पणदंशनादिकमेव नास्ति भवदपि वा न दुःखोपधायकं तद्व्यापारत्वेन दुःख विशेषत्वेन कार्यकारणभावाभावात् तादृशाहिनभृतेर्दर्शनमात्रेण तदाहित्वेन दुःखंप्रति खरूपयोग्यत्वेपि तव्यापारस्य दुःखखरूपयोग्यस्याप्यप्रसिद्धेन तस्यापादानलं नवा तन्निष्ठव्यापारप्रयोज्यत्वमपि दुःखस्येति न तादृशाहिप्रभृतितात्पर्येणाहेश्चैत्रं रक्षतीत्यभ्रान्तानां प्रयोगः । यज्जन्य दुःखमिति पूर्वग्रन्थस्य यद्वयापारजन्यं दुःखमित्येवार्थोऽहिप्रभृतेर्दशादिव्यापारेणैव दुःखोत्पादकत्वात् यत्राहिदंशनोत्पन्नदुःखनिवृत्त्यनुकूलो व्यापारश्चैत्रस्यौषधदानादिरूपो न सर्यापनयनादिरूपस्तत्र सद्रिक्षति चैत्र इत्यस्य वारणाय दुःखनिवृत्तेरनुकूलख दुःखप्रयोजकन्यापाराभावप्रयोजकत्वरूपमेव धावर्थघटकं वाच्यं तत्सूचनायैवोक्तं तनिष्ठदुःखोपधायकव्यापारविरहानुकूलव्यापार इति । नच दुःखानुत्पत्तिरेवास्तु दुःखनिवृत्तिरुक्तस्थले चौषधादिनोत्पन्नस्य दुःखस्य नाशो नत्वनुत्पाद इति न दोष इति वाच्यम् । औषधादेरप्युत्पन्नसजातीयानुत्पादं प्रत्येवानुभवसिद्धं प्रयोजकत्वं नतु तनाशं प्रति तस्य स्वानन्तरोत्पन्नविशेषगुणेनैव संभवादौषधप्रलेपाहुःख मे नष्टमित्यनुभवात्तस्यापि नाशहेतुत्वेपि दुःखं मे न जायतइत्यनुभवादनुत्पादं प्रत्यप्यस्त्येव प्रयोजकत्वमित्युक्तदोषतादवस्थ्यात् यत्र प्राग्लिप्तौषधस्य सर्पदंशान दुःखोत्पादस्तत्रौषधलेपकर्तृतात्पर्येणोकप्रयोगापत्तेश्च यादृशव्यापार विना यत्रपुरुषे सर्पव्यापारतो दुःखोत्पत्तिसंभवस्तनिष्ठतादृशदुःखानुत्पत्तेरेव प्रयोजकस्तादृशकर्तृव्यापार इति सीदिव्यापारप्रयुक्तदुःखानुत्पत्तेः निरापदस्थानावस्थितपुरुषे सत्त्वेपि कर्तृव्यापाराप्रयोज्यत्वेन तदाश्रयस्य न कर्मलम् । अस्मिन्नरण्ये मागच्छ व्याघ्रो वर्ततेऽत्रपदं मानिधेहि सर्पोस्तीत्यादिव्यापाररूपरक्षणस्थले यद्यपि तत्पुरुषीयदुःखानुकूलव्यापारो नास्ति व्याघ्रादेस्तथाप्युक्तरक्षकव्यापाराभावेऽरण्यगमनपदनिधानादिव्यापारे व्याघ्रादिव्यापारतरूतत्पुरुषदुःखस्यावश्यकलात् व्याघ्रादिव्यापारप्रयुक्तदुःखस्य प्रसिद्धसातू व्याघ्रादिव्यापारप्रयुक्तदुःखलावच्छिन्नानुत्पादं प्रत्युक्तव्यापारस्य प्रयोजकत्वमानुभविकमस्त्येव । यन्न सर्प पश्यता देवदत्तन साभिमुखं गच्छंश्चैत्रो हस्ते धृत्वा ससंभ्रममन्यत आकृष्टस्तद्दर्शनान्मनोपि तदभिमुखप्रयाणानिवृत्तस्तत्र चैत्रोऽनेन रक्षितो न मैत्र इत्येव प्रयोगो यदि प्रामाणिकस्तदा सर्पव्यापारप्रयुक्तदुःख निवृत्तेमैंनेपि तादृशव्यापारप्र