________________
गूढार्थतत्वालोकव्याख्यासहितः।
१३५ समनियतत्वेन तदभिन्नतया तत्र घटत्वाद्यवच्छिन्नप्रतियोगिताकत्वघटायभावत्वसत्त्वेऽपि ताशाभावपरस्य घटत्वेन घटो नास्ति, पतित्वेन वहिर्नास्तीत्यादिवाक्यस्य न प्रामाण्यम् । उक्तस्थलेच तृतीयान्ताद्यर्थस्य द्वितीयान्ताद्यर्थेऽवच्छेद्यावच्छेदकभावसंबन्धेनान्वय इत्यपि केचित् । तत्र । विभक्त्यर्थे विभत्त्यर्थान्वयस्याव्युत्पन्नत्वात् । न च रजतत्वेनेदं ज्ञायते आख्यातार्थविषयतायां तृतीयार्थप्रकारताया निरूपितत्वसंबन्धेनान्वयानोक्तव्युत्पत्तिकल्पनमिति वाच्यम् । तत्रापि रजतत्वादिप्रका. रकत्वविशिष्टधात्वर्थशाननिरूपितत्वस्याख्यातार्थे भानस्वीकारेणैवातिप्रसङ्गभङ्गात् । न च तस्मात्पचति तस्माचैत्रस्येत्यादौ विभत्त्यर्थे कृतिसंबन्धादौ हेतुविभक्त्यर्थान्वयदर्शनानास्त्युक्तव्युत्पत्तिरिति वाच्यम् । हेतुविभत्स्योतिरिक्तविभक्त्यर्थस्यानन्वयनियमात् न च रजतत्वेनेदं जानातीत्यादौ तृ. तीयायाः कारकविभक्तित्वाभावान्न तदर्थस्य क्रियायामम्वयसंभव इत्यगत्या द्वितीयार्थएव तदन्वय उपगन्तव्य इति वाच्यम् । मणिकारमते तस्माजानातीत्यादौ शानादिरूपधात्वर्थे हेतुविभक्यर्थस्य तस्मात् स्थीयते इत्यादौ च सर्वमतएव धात्वर्थस्थित्यादौ तस्यान्वयेन पट्यर्थसंबन्धस्यापि "गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक खभेषजैरि" त्यादी धात्वर्थेऽन्वयेन कर्मासमभिव्याहते रजतत्वेन जानातीत्यादी धात्वर्थे तृतीयार्थान्षयस्यावश्यकत्वेन कारकविभक्तिभिन्नविभक्त्यर्थस्य क्रियाया। मनन्वय इत्यनियमात् । एवं घटत्वेन वहिर्नास्तीत्यादौ प्रथमार्थो नानुयोगित्वम् प्रथमायाः संख्यातिरिक्तार्थाबोधकत्वनियमादतो नर्थाभावे संबन्धपव तत् तत्रच न तृतीया. थोन्वयसंभवः । मम तु अनुयोगितासंबन्धेन वह्नयादिविशिष्टाभावे तृतीयान्तार्थघटत्वावच्छिन्नप्रतियोगिताकत्ववैशिष्टयभानाद्विशिष्टवैशिष्ट्यबोधमर्यादया वयाद्यनुयोगिकत्वस्थलीयस्यानु. योगितयासंबद्धवढयादेस्ताहशप्रतियोगिताकत्वेनावच्छेद्यावच्छेदकभावभानोपगमेन सामञ्जस्यात् । अनुयोगिताया नअर्थतावच्छेदकत्वे तत्रैव वयादेः प्रतियोगिनोऽन्वयः । अतस्तत्र तृतीयान्तार्थघटस्वावच्छिन्नप्रतियोगिताया निरूपकत्वेनान्वयं स्वीकृत्यातिप्रसङ्गवारणं सम्यक् प्रतिभाति । रङ्गेऽभेदेन रजतारोपस्थले रङ्गं रजतेन जानातीत्यप्रयोगात् तादात्म्यभिन्नसबन्धावच्छिन्न प्रकारतैव तृतीयार्थः। तत्र च रङ्गं रजतं जानातीति प्रयोगात्तादात्म्यसंवन्धावच्छिन्नप्रकारता कर्मत्वानुशिष्टद्धितीयादेरेवार्थः। तस्याश्च ताशप्रकारवाचिपदसमानविभक्तिकपदोपस्थाप्यविशेष्यताविशिष्टायामेव ज्ञानरूपक्रियायामन्वयः । तेन भेदारोपस्थले रङ्गे रजतत्वं जानातीतिवदभेदारोपस्थले रङ्गे रजतं जानातीति न प्रयोगः । उक्तस्थले च रङ्गरजताद्योः समानविभक्तिकपदोपस्थाययोरभेदान्वयसाकाङ्क्षत्वेऽपि नायोग्यतया तादृशान्वयः। ननु एवंसति रङ्गरजतादिपदयोः सामानाधिकरण्यानुपपत्तिरिति चेत् का क्षतिः। न चैवं रजतगतैकत्वबहुत्वाविवक्षायां रङ्गानि रजतं जानातीति प्रयोगस्य त्रियं पांमुलां जानातीति प्रयोगस्य च प्रसङ्गः सामानाधिकरण्यस्यैव समानवचनलिङ्गकत्वनियतत्वादिति वाच्यम् । समानाधिकरणयोरिव यत्पदार्थविशेष्यकस्वविशिष्टेऽभेदसंबन्धावच्छिन्नयत्पदार्थप्रकारकत्वस्यान्वयस्तयोरोप समानलिङ्गवचनस्वनियमात् ।
यज्ञपतिमतानुयायिनस्तु रई रजतं जानातीत्यादौ सामानाधिकरण्यानुरोधाद रजतादिपदस्य 'रजताभेदज्ञानविषये लक्षणा । अत एव भ्रान्तिक्षविशेषदर्शिना प्रयुक्तस्य लोहितवाहि जानातीत्यादिवाक्यस्यापि प्रामाण्यनिर्वाहः न ह्यसमासस्थलइव लोहितवयाचोरभेदाविवक्षा, ज्ञानांशे लो. हितादेः स्वातन्त्र्येणान्वयो वा संभवति, कर्मधारयस्य साधुतानुपपत्तेः लोहितपदोत्तरं प्रकारताबोधकविभक्तेरभावात् । धात्वर्थे साक्षान्नामार्थस्य भेदान्वयेऽव्युत्पत्तेः । द्वन्द्वस्थलवकर्मधारयोत्तरइत्यर्थः। नप्रामाण्यमिति । एकत्र द्वयंरीत्या भानोपगमे रजतलप्रकारकलशुक्तिविशेष्यकलयोरेका द्वयं रीत्या भासमानयोरवच्छेद्यावच्छेदकभावासंभवेनातादृशयोस्तन सत्त्वेन प्रामाण्यं स्यादेकविशिष्टे परस्य नियमेन भाने तु तयोरवच्छेद्यावच्छेदकभावस्यापि नियमेन भानात्तद्विशिष्टयोस्तयोरिमे शुक्तिरजते इति अमायामभावात्तत्परस्योक्तवाक्यस्य न प्रामाण्यमित्यर्थः । उक्तव्युत्पत्तीति। विभक्त्यर्थद्वयानन्वयव्युत्पत्तीत्यर्थः । उक्तान्युत्पत्ती वा युक्तः पाठः । यदि लोहितादिपदार्थघटकनानस्य