________________
१३४
व्युत्पत्तिवादः । पटादिवृत्तितया पटो घटं न पश्यतीति प्रयोगानुपपत्तेः । आकाशादिविषयकत्वावच्छिन्ने चाक्षुषे कालिकादिसंबन्धेन घटादिवृत्तित्वनिश्चयदशायां घट आकाशं न पश्यतीतिवाक्याच्छाब्दबोधानुपपत्तेश्च । समवायेन घटादिवृत्तित्त्वाकाशादिविषयकत्वोभयाभावस्यैव स्वीकरणीयतया अभाव आकाशं न पश्यतीत्यादौ अभावसमवेतत्वाप्रसिझ्या वाक्यार्थाप्रसिद्धेर्दुरित्वात् । चैत्रादे रतीतचाक्षुषस्य घटादिविषयकत्वेऽपि समयविशेषे चैत्रो घटं न पश्यतीतिप्रयोगाद्वर्तमानतारशचाक्षुषत्वाद्यवच्छेदेन उभयाभावभानस्य प्रतियोगिकोटौ वर्तमानत्वमन्तर्भाव्य त्रित्वाष च्छिन्नाभावभानस्य वा स्वीकरणीयतया यदा किंचिदंशेऽलौकिकमेव घटादिचाक्षुषं तस्य वर्तते तदा चैत्रो घटं न पश्यतीत्यादिप्रयोगापत्ते१रत्वात् । वर्तमानालौकिकविषयाशून्यचाक्षुषत्वाद्यवच्छेदेन चैत्रवृत्तित्वघटविषयकत्वोभयाभावसत्वात् । समानेन्द्रियजन्योपनीतभानादौ लौकिकप्रत्यक्षसामथ्या विरोधित्वस्य निष्प्रामाणिकतया लौकिकविषयतानियामकोपनायकशानादिसमवहिततल्लौकिकसन्निकर्षाद, घटादिनिरूपितलौकिकालौकिकोभयविषयताशालिचाक्षुषादेरुत्पत्त्या ताशचाक्षुषादिवशायामुक्तप्रयोगापत्तेः । आकाशादिनिरूपितालौकिकविषयिताशा. लिवर्तमानचाक्षुषाचंशे घटादिवृत्तित्वस्य आकाशीयत्वादिना लौकिकविषयितायाश्च भ्रमदशायां घट आकाशं न पश्यतीत्यादिवाक्याच्छाब्दबोधापत्तेर्दुर्वारत्वाच । घटादिनिरूपितालौकिकविषयिताशून्यचाक्षुषत्वाद्यवच्छेदेन घटादिविषयित्वघटितोभयाभावभानोपगमेऽप्यनिस्तारात् एतेनाख्यातार्थवर्तमानत्वाद्यवच्छिनसमवायावच्छिन्नाश्रयत्वत्वाधवच्छिन्ने आकाशादिविषयकप्रतियोगि. कत्वलौकिकान्यविषयातशून्यचाक्षुषप्रत्तियोगिकत्वाभावाद्यनुयोगिकत्वैतत्रितयत्वावच्छिन्नाभावो भासतेऽतोऽभाव आकाशं न पश्यतीत्यादौ नानुपपत्तिः तत्र विषयितावत्प्रतियोगिकत्वं द्वितीयार्थ. निरुक्तचाक्षषप्रतियोगिकत्वं त्रित्वं च धातोरर्थः । घटाधनुयोगित्वं च प्रथमान्तार्थ इत्यपि निरस्तमिति चेत् । अगत्या घट आकाशं न पश्यतीत्यादिवाक्यानामप्रामाण्यमुपगन्तव्यमिति ॥ इति प्रथमखण्डम् ॥ __अनुमित्यर्थकधातुयोगे विधेयत्वं विधेयित्वं वा द्वितीयार्थः तेन वयादिपक्षकानुमितिपरस्य वह्निमनुमिनोमीत्यादिवाक्यस्य न प्रामाण्यम् । यदि च बहिसाध्यकपर्वतपक्षकानुमितिपरस्य वह्निमत्वेन पर्वतमनुमिनोमीत्यादिवाक्यस्यापि प्रामाण्यं मन्यते तदा तादृशधातुयोगे उद्देश्यत्वमद्देश्यित्वं वा द्वितीयार्थः तस्य च तृतीयान्तोपस्थाप्यसाध्यविधेयकत्वेन विशिष्टेडन्वयः अतो वह्निमत्त्वेनेत्याद्यसमभिव्याहारेण तत्र पर्वतमनुमिनोमीत्यादयो न प्रयोगाः । विधेयत्वाद्यर्थे तृतीयानुशासनविरहात् तृतीयान्तेन वन्ह्यादिविधेयकत्वं कथमुपस्थापनीयमिति न' शक्यम् । वैशिष्टयरूपार्थे तृतीयानुशासनसत्त्वात् विधेयतादेरपि वैशिष्ट्यरूपत्वात् । अत एव रजतत्वेन शुक्तिं जानातीत्यादी झाने रजतत्वादिप्रकारकत्वस्य घटत्वेन वहिास्तीत्यादौ सौंदडमते अभावे घटत्वावच्छिन्नप्रतियोगिताकत्वस्य तृतीयान्ततो बोधः । तृतीयान्तार्थरजतत्वा. दिप्रकारकत्व द्वितीयान्तार्थशुस्यादिविषयकत्वयोः विशिष्टवैशिष्टयबोधमर्यादयाऽवच्छेद्यावच्छेदकभावभानम् रजतत्वेन शुक्तिं जानातीत्यादौ नियतं केवलमेका व्यमितिरीत्या तदुभयबोधस्य तत्राव्युत्पन्नत्वात् । अत इमे शुक्तिरजते इत्यादिप्रमापरस्य ताशवाक्यस्य न प्रामाण्यम् । घटत्वाद्यवच्छिन्नबयभावनिष्ठेन चह्वयादिनिरूपितानुयोगिताविशेषरूपचह्नयाद्यभावत्वेन तदभावनिठघटत्वाद्यचच्छिन्नप्रतियोगिताकत्वस्यावच्छेद्यावच्छेदकभावः स्वीक्रियते। घटत्वेन वहिर्नास्तीत्यादौ च तगोधस्योक्तरीत्यावश्यकत्वमिति घटत्वावच्छिन्नवस्याधभावस्य वह्नित्वावच्छिन्नघटाद्यभाव.
वृत्त्यनियामकस्य तादात्म्यस्यान्योन्याभावप्रतियोगितावच्छेदकलादाह । संसर्गाभावेति । अनिस्तारादिति । समानेन्द्रियेत्यादिग्रन्थेन प्रदर्शितापत्त्योरवारणादित्यर्थः । ताहशधातुयोगइति । विधेयत्वबोधकतृतीयान्तसमभिव्याहृतोक्तधातुयोग