________________
१३२
व्युत्पत्तिवादः। द्वितीयार्थः, न तु समवायावच्छिन्नत्वविशेषितमाधेयत्वम् । तथा च मुखादिसंसृष्टमृत्तिकादिगन्धे परंपरासंबन्धेन मुखादिवृत्तित्वस्य सस्वाद न तादृशस्थलेऽनुपपत्तिरिति । तदसत तथा सति कालं जिघ्रतीति प्रयोगस्य दुर्वारत्वात् । पुष्पमाघ्रायते इत्यादी च निरुक्तप्रकारत्वमाख्यातार्थः । आश्रयतासंबन्धेन पुष्पाद्यन्विते तस्मिन् धात्वर्थप्रत्यक्षस्य निरू. पितत्वसंबन्धेन तद्विशेषणतापनगन्धविषयतायाश्च ताशसंबन्धेनान्वयः । पकर्मिविशेषणतयोपस्थितस्य स्वातन्यणान्यविशेषणतयान्वयबुद्धेरेवाव्युत्पन्नत्वात् । अत्र च प्रत्यक्षपार. तगयेणैव गन्धविषयताया आख्यातार्थेऽन्वयेन व्युत्पत्तिविरोधविरहात् । अस्तु वा गन्धः लौकि. कविषयताप्रत्यक्षं च विशकलितमेव धातोरर्थः । कर्माख्यातादिसमभिव्याहारे गन्धविषयतायाः प्रत्यक्षविशेषणतया कर्माख्यातसमभिव्याहारस्थले च प्रत्यक्षविशेष्यतयान्वय इति न कश्चिद्दोषः । जिघ्रत्यर्थगन्धविषयतानिरूपितनिरुक्तप्रकारिताश्रयत्वमेव पुष्पादिनिष्ठं जिनतिकर्मत्वमिति दिक् । अथ दृश्यादिसमभिव्याहृतद्वितीयाया लौकिकवियितार्थकत्वे सौरभं न पश्यतीत्यादौ सौरभादिनिरूपितलौकिक्रविषयिताशालिचाक्षुषाद्यप्रसिद्ध्या आकाशं न पश्यतीत्यादी चाकाशादिनिरूपितलौकिकवियिताया एवाप्रसिद्ध्या ताशविषयिताशालिचाक्षुषाश्रयत्वाद्यभावरूपवाक्यार्थाप्रसिद्धिः । नच सौरभं न पश्यतीत्यादौ सौरभादिनिरूपितलौकिकविषयित्वाभावः चाक्षुषादौ प्रतीयतइति वाच्यमेवमप्याकाशं न पश्यतीत्यादावप्रतीकारात् । नच लौकिकविषयितायां निरूपितस्वसंबन्धावच्छिन्न प्रतियोगिताकाकाशाभावः प्रतीयतइति वाच्यम् वृत्त्यनियामकसंबन्धस्य संस: र्गाभावप्रतियोगितानवच्छेदकतया तादृशाभावस्याप्रसिद्धः । पतेन निरूपकतासंबन्धेन चाक्षुषादिनिष्ठलौकिकविषयिताया अमावस्तत्राकाशादौ प्रतीयत इत्यपि निरस्तम् । अन्वयबोधस्य प्रथमान्तार्थमुख्यविशेष्यकतायाः सर्वानुभवसिद्धाया भङ्गप्रसलाच चाक्षुषादिनिष्ठलौकिकविषयितात्वावच्छिन्नस्यपदाद्वाक्याश्चानुपस्थितत्वात्तदभावस्याकाशादी भानासम्भवाच । भावान्वयबोधे च लौकिकविषयिताप्रकारेण चाक्षुषादेर्भानात् अभावान्वयबोधे चाक्षुषप्रकारेण तस्या भानमयुक्तम् । अस्त वा वृत्त्यनियामकोपि संबन्धोऽभावप्रतियोगितावच्छेदकस्तथापि निरूपितत्वसंबन्धावच्छिन्न प्रतियोगिताकस्य विषयिताविशेषनिष्ठाकाशाद्यभावस्य भानोपगमो न संभवति तथा सति आकाशं पश्यति चैत्र इत्याकारकवाक्यजन्यायोग्यताभ्रमदशायां आकाशं न पश्यति चैत्र इत्यादिवाक्याच्छाब्दबोधप्रसङ्गात् । आकाशं पश्यति मैत्र इत्यादिभ्रमदशायां आकाशं न पश्यति चैत्र इत्यादिवाक्याच्छाब्दबोधस्य दुरपह्नवतया लौकिकविषयतात्वसामानाधिकरण्येनैव हि तारशाभावबोधकं तद्वाक्यमुपगन्तव्यम् । तादृशबोधश्च लौकिकविषयतात्वसामानाधिकरप्यमात्रेणाकाशादिनिरूपितत्वावगाही दर्शितायोग्यताशानाप्रतिवध्य एव । न च चैत्रीयचाक्षुषादिनिरूपितलौकिकविषयतात्वावच्छेदेनैव तादृशाभावो दर्शितवाक्येन प्रत्याय्यते इति चैत्रीयचाक्षषादिनिरूपितलौकिकविषयितायां आकाशीयत्वाद्यवगाहि चैत्र आकाशं पश्यतीति वाक्यजन्यबोधः प्रतिबध्नात्येव ताशवाक्यजन्यधियमिति वाच्यम् तादृशविषयितात्वेन विषयि
प्रतियोगितानिरूपकस्संयोगो न वहिनिष्टानुयोगितानिरूपितासंयोगीयबहिनिष्टप्रतियोगितेति विषयकलमेव वाच्यमिति खनिष्ठप्रतियोगिताकलविशिष्टसंयोगस्य सामानाधिकरण्यं खनिष्टव्यापारेप्यक्षतमिति संगच्छतीत्यस्यावारणात्तद्रीतेलघुभूताया अपि परित्यागस्यैवोचितलमिति मन्तव्यम् । __ यत्तु पञ्चमीग्रन्थे यथाहि स्वप्रतियोगिकत्वविशिष्टसंयोगः स्वस्मिन्न वर्तते तथेत्युक्तं तत्प्राचीनानुमतस्य दृष्टान्तत्वमात्राभिप्रायकं न तत्र निर्भरोऽन्यथात्र लघुभूतपक्षोपेक्षाया निर्बीजवापत्तेरितिध्येयम् प्रामं गच्छतीत्यत्रोक्तप्रकारेणैव प्रामं त्यजतीखत्रापि शाब्दबोधउन्नेयः । खंत्यजतीत्यप्रतीतेरिति । नपश्यतीत्यादावनतीकारादिति । इदमुपलक्षणम् । यदा न कस्यापि वस्तुनो दर्शनं तदा सौरभं न पश्यतीत्यस्योक्तरीत्यापि न गतिसंभव इत्यपि बोध्यम् । अयोग्यताभ्रमेति । नघटितवाक्यार्थविपरीतलादयोग्यवं बोध्यम् । इदश्चेष्टापत्तिवारणायोक्तं नहि कश्चिदिच्छत्ययोग्यताज्ञानकाले शाब्दबोधम्।