________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१३१ तीयाया लौकिकविषयित्वं, ताशकर्माख्यातस्य लौकिकविषयत्वमर्थः । उपनीतसौरभादिविषयकसुरभिचन्दनमित्याद्याकारकचाक्षुषादिदशायां सौरमं पश्यतीति, सौरभं दृश्यते इत्याद्यप्रयोगात् । अथैवं पुष्पं जिघ्रतीत्यादिप्रयोगानुपपत्तिः घ्राणजप्रत्यक्षस्य पुष्पाचशे लौकिकत्वविरहात् । ताशधातयोगे विषयित्वादिसामान्यस्य कर्मप्रत्ययार्थत्वे गन्धसाक्षात्कारे उपनयमर्यादयाकाशादिभाने आकाशं जिघ्रतीतिप्रयोगप्रसंगेन तत्रापि लौकिकविषयिताया एव कर्मप्रत्ययार्थतयोपगन्तव्यत्वादिति चेन्न । घ्राधातोहि गन्धलौकिकप्रत्यक्षत्वं शक्यतावच्छेदक, ना गन्धोपादाने इत्यनुशासनात् । तत्समभिष्याहतद्वितीयायाश्चाघेयत्वमेवार्थस्तस्य च व्युत्पत्तिवैचित्र्येण गन्धादिरूपधात्वर्थैकदेशेनान्वयः । एवं च पुष्पं जिघ्रतीत्यादितः पुष्पवृत्तिगन्धलौकिकप्रत्यक्षाश्रयतावानि. त्याकारक एव शाब्दबोधो न तु पुष्पनिरूपितलौकिकविषयिताशालिप्रत्यक्षाश्रय इत्याकारक इति नानुपपत्तिः। न चैवं सविषयार्थबोधकधातुसमभिव्याहृतकर्मप्रत्ययस्य विषयितार्थकत्वनियमभङ्गप्रसङ्ग इति वाच्यम् । विषयानवच्छिन्नताहशवस्त्वभिधायकधातुसमभिव्याहृतकर्मप्रत्ययस्यैव तदर्थकत्वनियमात् । अस्य च गन्धात्मकविषयावच्छिन्नप्रत्यक्षवाचकतया ताहशनियमस्याबाधितत्वात् । न च घ्राधातुसमभिव्याकृतद्वितीयाया गन्धान्विताधेयत्वार्थकत्वे आमोदमुपजिघ्रतीत्यादेरनुपपत्तिः गन्धविशेषरूपामोदपदार्थाधेयत्वस्थ गन्धे बाधादिति वाच्यम् । विषयावच्छिन्नप्रत्यक्षार्थकघ्राधातुसमभिव्याहृतद्वितीयाया पव आधेयतार्थकत्वनियमात् । तत्र विषयानवच्छिन्नस्यैव प्रत्यक्षविशेषस्य लक्षणया धात्वर्थतोपगमेन विषयिताया एव तदर्थत्वात् । वस्तुतस्तु पुष्पं जिघ्रतीत्यादी समवायावच्छिनाधेयत्वसंसर्गावच्छिन्नप्रकारितव द्वितीयार्थस्तस्याश्च गन्धनिरूपितलौकिकविषयताशालिप्रत्यक्षात्मकधारवथैकदेशे विषयतायां निरूपितत्वसंबन्धेनान्वयः । तेन इदानी पुष्पे गन्ध इत्यादिप्रत्ययस्याघेयतासंसर्गेण कालादिप्रकारकत्वेऽपि तादृशप्रत्यक्षदशायां न कालं जिघ्रतीत्यादिप्रयोगः । तारशक्षानीयगन्धादिविषयितायां ताशकालादिप्रकारतानिरूपितत्वविरहात् । अत एव "तदाननं मृत्सुरभि क्षितीश्वरो रहः समाघ्राय न तृप्तिमाययो" | "आघ्रातवान् गन्धवहं सुगधमि" त्यादौ च उपाधिनिष्ठगन्धग्रहतात्पर्येणैव जिनतेः प्रयोगात् । तादृशगन्धे च आननगन्धवहादिवृत्तित्वस्य बाधेऽपि न क्षतिः तादृशगन्धस्याननाद्यवृत्तित्वेऽपि आनने गन्ध इत्याकारकबाधीयगन्धविषयताया आननादिप्रकारतानिरूपितत्वेन वाक्यार्थीबाधात् । वाय्वानीतचम्पकगन्धस्य यत्र वाय्वादिवृत्तित्वेनैव प्रहः, तत्र चम्पकं जिघ्रतीत्यादिप्रयोगो नेष्यतएव । यत्तु आधेयतामात्र
तसंयोगपारतन्त्रयेण वाऽन्वयोपगमाचोक्तप्रतीतिनिर्वाहसंभवादुक्तनिरूपकत्वस्योक्ताधिकरणलस्य च मानाभावात् किश्चोक्तप्रतील्या प्रतियोगित्वविशिष्टे संयोगे वृत्तित्वमेव प्रतीयते नतु विशिष्टनिरूपिताधारत्वामधेयलं च विशिष्टे तादृशाधारत्वशून्यनिरूपितमप्युपेयत एव गुणे गुणकर्मान्यखविशिष्टसत्त्वमितिप्रत्ययात् गुणो गुणकर्मान्यत्वविशिष्टसत्तावानिति प्रत्ययस्यैवाभावादुक्तरीत्या वह्नौ न बहेस्संयोगइत्यस्योपपादनासंभवः संयोगे बह्निप्रतियोगिकलवैशिष्ट्यस्य वहिबृत्तिखस्य च सत्त्वात् वहिप्रतियोगिकसंयोगवान् वहिरिति प्रत्ययस्यैव प्रामाणिकत्वेन वहौ तादृशाधिकरणवस्यैवोपगमाच सम्बन्धस्य संबन्धिद्वयनिष्ठखनियमस्यान्यथा व्याघातात् विशिष्टवैशिष्ट्यावगाहिबुद्धिर्हि विशिष्टाधिकरणत्वमवगाहमाना तत्रैवाप्रमाविशेष्यवति भवति यत्र विशेष्ये भासमानविशेषसंबन्धस्य नियततया प्रतीयमानविशेषणसंबन्धस्याभावः यथा द्रव्यवृत्तिल विशिष्टसत्त्वबुद्धिस्सत्त्ववति द्रव्ये प्रमागुणे चाप्रमाविशेष्ये भासमानद्रव्यवृत्तित्वसंबन्धनियतप्रतीयमानसत्त्वनिष्ठवृत्तिताया निरूपकत्वसंसर्गस्य द्रव्ये सत्त्वाद्गुणेचासत्त्वात् । एवं रक्तदण्डवान् पुरुषइति विशिष्टवैशिष्ट्यबुद्धिर्दण्डसंबन्धिनिपुरुषे तत्रैव तदैव प्रमा यत्र विशेषणस्य रक्तलस्य दण्डद्वारा संबन्धः सच दण्डे तदा रक्तत्वस्य विद्यमानतायामेव भवति नह्येवं प्रकृते बहिनिष्टप्रतियोगितानिरूपकलविशिष्टसंयोगबुद्धौ भासमानविशिष्टाधिकरणत्वस्य वहावभावसंभवः विशेष्यस्य संयोगस्य तद्विशेषणोक्तनिरूपकत्वस्य च स्वनिरूपितप्रतियोगित्वाश्रयत्वरूपनियतभासमानसंबन्धेन यही सत्त्वात् प्रत्युत पर्वत एव तद्बुद्धेरप्रमात्वं प्रमात्वञ्च तत्रोपलक्षितवैशिष्ट्यावगाहिन्या एव वाच्यम् । विशेष्ये भासमानसंबन्धेनाभावस्य येन केनचित्संबन्धेन भावस्य च विशेष्यवति सर्वत्रैव विशेषणस्य सर्वविशिष्टाधिकरणलस्थले समानत्वेन प्रमालाप्रमावनियामकत्वाभावात् तस्मात्पर्वते बहेस्संयोगो न बहावित्यस्य पर्वतनिष्ठानुयोगितानिरूपितवहिनिष्ठ