________________
१०७
गूढार्थतत्वालोकव्याख्यासहितः । पखापितद्विस्वादिकं चोभयादिरूपान्वयितावच्छेदकावच्छिन्नएवान्वेतीति व्युत्पत्तिः। तेनोक्तप्रयोगदर्शनात् क्रियापदस्य विशेष्यवाचकपदसमानवचनकत्वानियमेऽपि घटद्वयादितात्पर्येण घटस्तिछत इत्यादयो न प्रयोगा: एकवचनान्तक्रियापदे च तादृशविशेष्यवाचकपदप्रयोगपव साधुः अतो घटास्तिष्ठतीत्यादयो न प्रयोगाः । अथैकघटादिव्यक्तेरेतद्देशवृत्तितादशायामत्र घटौ स्ता घटाः सन्तीति कथं न प्रयोगाः घटादौ घटत्वादिव्याप्तिविशिष्टपर्याप्तिसंबन्धेन द्वित्वादेः स्वरूपादिसंबन्धेन तद्देशवृत्तित्वाश्रयत्वादेश्वसत्त्वात् । न च द्वित्वेनोपस्थितयोर्द्धयोरेव व्यत्योरेवं बहुत्वनोपस्थितासु बहुषु व्यक्तिषु विधेयान्वयात् व्यत्त्यन्तरेष्वेतद्देशवृत्तित्वादिबाधान तादृशप्रयोग इति वाच्यम् व्यत्त्यन्तरेऽयोग्यतया तादृशविधेयानवगाहिन एकघटे तदवगाहिनो बोधस्योत्पत्तौ बाधकाभावात् । तथा तात्पर्येण तथा प्रयोगस्य दुर्वारत्वात् । न चव्यासज्यवृत्तिधर्मो यत्रान्वयितावच्छेदकस्तत्र यावत्सु अन्वयितावच्छेदकस्य पर्याप्तिस्तायतामेव पदार्थान्तरेणान्वय इति व्युत्पत्तिस्तनिर्वाहाय च तादृशधर्मावच्छिन्नइतरान्वयबोधजनकसामग्र्या उभयादिविषयकपदार्थान्तरान्वयबुद्धित्वमेव जन्यतावच्छेदकं वक्तव्यमिति द्वित्वादिनैकघटादिमात्रविषयकैतद्देशवृत्तित्वाद्यन्वयबोधो न संभवतीति न ताशबोधतात्पर्येण तादृशप्रयोगापत्तिरिति वाच्यम् योग्यताभ्रमेणाकाशावन स्त इत्यादिवाक्याद् द्वित्वादिना एकव्यक्तिमात्रविषयकपदार्थान्तरान्वयघोधात्तादृशब्युत्पत्तेस्तन्निर्वाहककार्यकारणभावस्य च कल्पनासंभवात् । यतु द्वित्वायव. च्छिन्नोद्देश्यताकबुद्धावुद्देश्यतावच्छेदकव्यापकता नियमतो विधेयसंसर्ग भासते इति व्युत्पत्तिः यत्र चोद्देश्यतावच्छेदकविशिष्टाधिकरणाप्रसिद्ध्या तद्व्यापकत्वमप्रसिद्धत् तत्रापि खण्डशः प्रसिद्धानां तत्तद्धटकपदार्थानां विशेष्यविशेषणभावापन्नानां भानसंभवान पीतशावत्रेत्यादो तादृशव्युत्पत्तिभङ्गः । एवं चैकघटादिव्यक्तिमात्राधिकरणपरस्यात्र घटौ स्त इत्यादिवाक्यस्याप्रामाण्यं सुघटमेव उद्देश्यतावच्छेदकीभूतघटमात्रवृत्तिद्वित्वव्यापकतायास्ताहशवाक्यप्रतिपाद्याया विधेयसंसर्गे बाधादिति तदपि तुच्छम् अत्र घटौ स्त इत्यादी द्वित्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकत्वस्य द्वित्ववद्धटनिष्ठाभावप्रतियोगितानवच्छेदकत्वस्य च तदधिकरणावृत्तिधटादिनिष्ठाभावप्रतियोगितावच्छेदकीभूते तत्तद्विधेयसंसगेतावच्छेदकै बाधाटतयाधिकरणपरतादृशवाक्यस्याप्रामाण्यापत्तेतत्तद्वित्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकत्वस्य तत्तद्विधेयसंसगाँशे भानोपगमस्तु न संभवति तत्तद्भित्वत्वेनानुपस्थितेः । नच तदवच्छिन्नस्य संसर्गतया भाने तेन रूपेणोपस्थिति पेक्ष्येति वाच्यम् तत्संसर्गावच्छिन्नतत्प्रकारतानिरूपिततत्तद्विशेष्यताशालिशाब्दबोधपरमित्याकारकतात्पर्यशाने संसर्गस्थ विशेषणतया तद्भाननिहाय संसर्गघटकोपस्थिते
उभयादिरूपेति । असमानवचनविशेष्यवाचकपदस्थल इत्यादिस्तेन घटौ स्त इत्यादेरुभयस्यान्वयितावच्छेदकत्वविरहेपि नानुपपत्तिः विशेष्यवाचकपदस्य समानवचनलात् आदिपदोपादानातद्वित्वान्बयोधर्मद्वयमन्वयितावच्छेदकीकृत्यैव त्रिखान्वयश्च धर्मत्रयं वैकत्वान्यखन्यूनवृत्तिसंख्याधर्मान्तरच वान्वयितावच्छेदकीकृत्य जायत इत्यर्थोलभ्यते तेन चैत्रोमैत्रश्च गच्छन्तीत्यस्य नापत्तिः यथा चैत्रोमैत्रोदेवदत्तश्च गच्छन्तीति प्रयोगो जायते तथा घटौ पटश्च सन्तीति प्रयोगस्यानुभविकत्वे एकत्वान्येत्याापात्तम् तत्र घटलव्याप्यपर्याप्तिसंबन्धेन द्वित्वस्य धर्मान्तरस्य पटवस्य चान्वयितावच्छेदकलात् । नच कथंद्वित्वस्य त्रिखान्वयितावच्छेदकत्वमिति वाच्यम् स्वरूपसंबन्धविशेषरूपावच्छेदकत्वरूपस्यैव तस्य घटौ त्रयः पटौ सन्तीत्यादिप्रयोगाभावेन द्वित्वे त्रिलादेरनभ्युपगमात् धर्मान्तरस्यान्वयितावच्छेदकत्वस्थले तद्भानस्यायोग्यत्वात्सामानाधिकरण्यमात्ररूपस्यैव तस्य भानोपगमात् अतएव धर्मान्तरश्चेत्येतलाभायोपात्तम् घटाः पटश्च सन्तीत्यत्रापिघटगतत्रिलस्य घटत्रयपटगतबहुलन्यूनवृत्तित्वसंभवातदुपपत्तिः । नच द्विस्खघटलपटत्वानां त्रयाणामन्वयिताचच्छेदकत्वात्पूर्वकल्पनैव निर्वाह इति वाच्यम् विभुनित्याकाशः सन्ती. त्यस्य वारणाय विरुद्धत्वेन धर्मस्य विशेषणीयत्वात् उभयत्वादिरूपान्वयितावच्छेदकेल्यादिरपपाठ एव चकारस्य साहित्यबोधकस्य कथंचित्तद्वोधकखसंभवेपि द्विधातदानस्यायुक्तत्वेन हेयखात् आख्यातद्विवचनादेर्द्विवादार्थकत्यव्यवस्थापकस्यानिमग्रन्थस्य विरोधाच चकारेणेव द्विवादिप्रत्ययसंभव आख्यातस्य तदर्थकलकल्पनानौचित्यात चकारं विनापि तादृशप्रयोगे क्षत्यभावात् चकारस्य सङ्ख चाबोधकलासंभवाचेति । तात्पर्येणेति । एकल विवक्षायां जात्येकत्वविवक्षायांवतिशेषः। तिष्ठतीत्यादय इति।