________________
व्युत्पत्तिवादः ।
न चैवमेकैकधवस्खदिरादितात्पर्येण धवौ खदिरावित्यादिप्रयोगापत्ति: ताशवाक्यद्वयविषयकसमूहालम्बनजन्यसमूहालम्बनशाब्दबोधस्य नानाधर्मावच्छिन्नोद्देश्यताकतया शुद्धपर्याप्तेरपि सं. सर्गतया ऽवगाहनसंभवादिति चाच्यम् यत्र नानाधर्मावच्छिन्नविशेष्यतानिरूपिता एकद्वित्वादिप्रकारता तत्रैव शुद्धायाः पर्याप्तेः समवायस्य चा संसर्गतया भानाद, धवौ खदिरावित्यादिनानावाक्यजन्यसमूहालम्बनशाब्दबोधे विशेष्यताभेदेन प्रकारताभेदेन चोद्देश्यतावच्छेदकधधवादिव्याप्तिविशिष्टपर्याप्तेः संसर्गतानियमेन एकैकवखदिरादितात्पर्येण तथा प्रयोगासंभवात् । धवनदिरावित्यादिसमासोत्तरद्विवचनेन धवत्वस्वदित्वाद्यवच्छिन्ननानाविशेष्यतानिरूपितैकद्वित्वादिप्र.
ताशालिशानमेव जयते ताशवाक्यजन्यबोधस्य समूहालम्बनानात्मकतया विशेष्यताभेदेन प्रकारतामेदाभावात्। यथाहिसमुहालम्बनानात्मकेखनी चैत्रः कुण्डलीत्याकारकनानाविशेषणकैकविशेष्यकशाने नानाप्रकारतानिरूपिता एका विशष्यता तथा तथाविधे धवखदिरावित्याद्याकारके नानाविशेष्यकैकविशेषणकशाने विशेष्यताभेदेऽप्यभिनेव द्वित्वादिप्रकारता अन्यथा समूहालम्बनतस्तद्वैलक्षण्यानुपपत्तेः समासघटकधवखदिरादियदानामेकवाक्यतानुपपत्तेश्च । तत्प्रयोज्यविषयतया साक्षात्परम्परया वा निरूपिता या विषयता तत्प्रयोजकत्वस्यैव तदेकवाक्यतापदार्थत्वात् न चैतादृशैकवाक्यताविरहेपि क्षतिविरहः तथासति समासस्यैवानुपपत्तेः अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ राजपुरुषपदादीनां समासवारणाय समर्थपदानामेव समासानुशासनात् सामर्थ्यस्य च निरुक्कैकवाक्यतारूपत्वात् जलपृथिव्योः मेहगन्धावित्यादितोऽपि न जले स्नेहः, पृथिव्यां गन्ध इत्याकारकसमूहालम्बनबोधः किन्तु तद्विलक्षणो द्वित्वादिनिष्ठैकप्रकारतानिरूपितजलत्वप्रथिवीत्वाद्यवच्छिन्नविशेष्यतात्मकप्रकारताद्वयनिरूपिताधेयत्वप्रकारतानिरूपितं यद्धर्मितावच्छेदकद्वित्वादिनिष्ठैकप्रकारतानिरूपकं महत्वगन्धत्वाद्यवच्छिन्नविशेष्यताद्वयं तद्वानिति अतो न कुत्राप्येकवाक्यताभङ्गः चैत्रो मैत्रश्च गच्छत इत्यादावाख्यातार्थद्वित्वाविप्रकारेण भासमाने चैत्रमैत्रोभयादौ गमनाश्रयत्वाद्यन्धयेन निरुक्तंकवाक्यतासंभवेपि समासविधेर्विभाषाधिकारीयत्वावसमासः तत्र विशेष्यताभेदभिन्नद्वित्वनिष्ठप्रकारताद्वयप्रतियोगीसमहालम्बनात्मकबोध इति तन सम्यक् । तथा सत्युक्तयुक्त्या एकैकचैत्रमैत्रादितात्पर्येण तथाप्रयोगानुपपत्तेः । आख्यातो.
त्यर्थसङ्ख्यायाअनेकोद्देश्यतावच्छेदकत्यविरहाद्विशिष्टपर्याप्तेः पदार्थभूतसङ्ख्यासंसर्गत्वाद्वोकप्रसङ्गे तदुद्भावनस्यायुक्तखात् एवमेव कालाकाशा इत्यत्राप्यनेकस्योद्देश्यतावच्छेदकलाभावप्रसक्तौ विभक्तिबोव्यबहुत्वस्य विशिष्टपर्याप्तिभानात्पदार्थभूतसङ्ख्यासंसगैस्य विशिष्टपर्याप्तेभीनाद्वाऽप्रामाण्यसंभवात् घटपटा इत्यस्य साकाहत्वे यद्याग्रहः कस्यचित्स्यात्तदासोद्देश्यतावच्छेदकधर्माभावलावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिसङ्ख्यावच्छिन्नाधिकरणावृत्तित्वविशिष्टपर्याप्तेरेव संसर्गत्वेन भानमुरीकरणीयम् खप. दञ्च संसर्गप्रतियोगिपरम् तथाच कालाकाशवृत्तित्रिलमानस्यैव स्वोद्देश्यतावच्छेदककालत्वाकाशत्वाभावद्वयाधिकरणघटादि. वृत्तित्वेन तत्पर्याप्तेरपि तथात्वेन तादृशावृत्तित्वस्य बाधात् कालाकाशाइत्यस्य न प्रामाण्यम् उद्देश्यतावच्छेदकघटत्वपटल्याभाक्यवद्धृत्तित्वस्य धटपटमात्रवृत्तित्रित्वपर्याप्तावबाधितत्वेन घटपटाइत्यस्यप्रामाण्यम् यत्र घटत्वाईकएव धर्मउद्देश्यतावच्छेदकस्तत्रैकत्वसङ्थैव तादृशाभावखावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिनीति घटी घटा इत्यादेःप्रामाण्योपपत्तिः । नच केवलान्चयिधर्मस्योद्देश्यतावच्छेदकस्थले का गतिरितिवाच्यं यनैकधर्मस्योद्देश्यतावच्छेदकत्वं तत्र तद्गतैकलस्य यत्र धर्मद्वयस्य तत्र तदन्यतरवस्य यत्र धर्मत्रयादेस्तत्र तद्गतान्यतमत्वस्य व्यापकतावच्छेदकतया संबन्धकोटौ भानाभ्युपगमात् यस्य यद्पावच्छिन्नस्य यादशरूपावच्छिन्नस्येत्यादिनन्थेन विशेषव्याप्ती व्याप्त्यननुगमस्य दीधितिकृतोक्तत्वेन शाब्दानुगमस्यात्यन्तिकस्याभावेपि क्षत्यभावात् । नच परिमाणवदाकाशावित्यत्र कर्मधारयस्थले धर्मद्वयस्यावच्छेदकत्वेन तदन्यतरत्वस्य घटाकाशगतद्विवव्यापकताबच्छेदकत्वेन प्रामाण्यापत्तिरिति वाच्यम् विरुद्धधर्मद्वयादेरवच्छेदकतास्थलएवान्यतरत्वादेर्व्यापकतावच्छेदकतया भानाभ्युपगमात् सामानाधिकरण्यधर्मद्वयाशुद्देश्यतावच्छेदकस्थलउद्देश्यतावच्छेदकतात्वावच्छिन्नपर्याप्यनुयोगितावच्छेदकरूपएव व्यापकतावच्छे दकखभानाभ्युपगमात् । नचैवमपिकेवलपर्याप्तिरेवेति ग्रन्थासङ्गतिरिति वाच्यम् तब्रन्थस्य विरुद्धधर्मद्वयस्य यत्र विभक्त्यर्थद्वित्वोद्देश्यतावच्छेदकलं तत्स्थलीयत्वादिति दिक् ॥