________________
गूढार्थतत्वालोकव्याख्यासहितः । भक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया अविवक्षितत्वं तत्र विशेष्यविशेषणपदयोः समानधनकअव्यवहितोत्तरत्वेनानुसंधीयमानविभक्तीत्यर्थः । तेन दध्यादिविशेष्यपदोत्तरविभक्त्यश्रवणेऽपि न क्षतिः । विभक्तिताप. येविषयेति । विभक्तिजन्यबोधविषयत्वेनेच्छाविषय इत्यर्थः। नातस्समूहालम्बनतात्पर्यमादायासमानवचनस्थले विशेषणपदोत्तरविभक्त्यर्थसंख्यासमानाधिकरणसंख्याया विशेष्यपदोत्तरविभक्तितात्पर्यविषयलप्रसङ्गः। तात्पर्यविषयसंख्याविरुद्धलं तारशसंख्याऽसमानाधिकरणलं तात्पर्यविषयतावच्छेदकसंख्यालव्याप्यधर्मावच्छिन्नभित्रलं वा अविवक्षितलमित्यस्य विशेषणवाचकपदोत्तरविभक्तयेत्यादिः । तथाच तादृशविभक्तिजन्यबोधविषयत्वेनेच्छाविषयभिन्नत्वं तदर्थः तन्नेत्यस्य तटकलमर्थः तस्य विशेष्यविशेषणपदयोरन्वयः । नियमो व्याप्तिः । तत्र सप्तम्यर्थाथेयत्वान्वयः । व्याप्यता च तादात्म्येन व्यापर्क च समानवचनत्वं यद्यपि वचनशब्देन खघटितानामेकवचन द्विवचनबहुवचनानामवगतत्वे खोत्तर विभक्तिवृत्त्येकवचनलाधन्यतमवद्विभक्तिकत्वरूपं प्रतीयमानं प्रथमाद्वितीयान्तसाधारणमपि न क्षतिकरं विशेष्यविशेषणपदयोः समानविभक्तिकल. नियमान्तरस्य सद्भावात्तथापि खोत्तरविभक्तिवृत्त्यानुपूर्वीमद्विभक्तिकलरूपमेव लाघवात्तदुपादेयम् नच नोपादेयं नियतासमानलिङ्गविशेषणपदस्थले विभक्त्यानुपूर्वीभेदादिति वाच्यम् । आदेशिनिष्ठानुपूर्वीमादायैव तत्रापि तत्संभवात् कथमन्यथा साजात्यं व विभक्तिविभाजकप्रथमायादिना नतु समानानुपूर्वीकत्वेनेत्यत्र वन्द्यौ हरी इत्यादावनुपपत्तिमनुद्भाव्यासमानवचनकस्थले तदुद्भाधन नासंगतं स्यातू एवञ्च यत्र यत्र यत्पदवत्त्वं तत्र तत्पदोत्तरविभक्तिवृत्त्युक्तधर्मवद्विभक्तिकलमिति नियमः पर्यवसितः विशेष्यपदवत्ता च खप्रयोज्यविशेष्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नप्रकारताप्रयोजकखखाव्यवहितोत्तरत्वेनानुसंधीयमान विभक्तिजन्यबोधविषयखप्रकारतानिरूपितेच्छीयविशेष्यतावच्छेदकसंख्यावृत्तिधर्मभिन्नधर्मावच्छिन्नसंख्यानिष्ठविषयताकबोधजनकल प्रकारतानिरूपितेच्छीयविशेष्यत्वाभाववद्विभक्तिकत्वोभयसम्बन्धेन । न चैवं यत्र वक्तुःसंख्याधर्मिकैवेच्छातत्र कागतिविभक्तरिच्छाविशेष्यलविरहात्संख्यानिष्ठविशेष्यतानिरूपितेच्छीयप्रकारखोपादाने च विभक्तिधर्मिकेच्छास्थले दोषप्रसङ्ग इति बाच्यं विभक्तिप्रयोजकेच्छीयसंख्यानिष्ठविषयलावच्छेदकधर्मभित्रधर्मावच्छिन्नविषयतानिरूपकेच्छाप्रयोज्यत्वाभाववद्विभक्तिकलस्यसंसर्गतया विवक्षितत्वेन स्थलदयेऽप्यदोषात् यद्यप्युक्तपदवत्त्वस्य व्याप्यत्वमेव यथाश्रुतग्रन्थतः प्रतीयते तथापि समानवचनलप्रयोजकान्तरस्याभावेनोक्तपदवत्व एव प्रयोजकलस्य वाच्यतया व्यापकत्वमपि स्वीकार्यमेव ।
अथ विभक्तित्वेनोपादानं किमर्थम् न च तदनुपादाने सुन्दर दधि बहवो गुणा इत्यत्र सौन्दर्य एकत्वविवक्षायां समानवचनत्वस्येष्टतया विशेष्यवाचकपदाव्यवहितोत्तरबहुपदार्थबहुसंख्याविरुद्धैकत्वस्य विवक्षिततया प्रयोजकाभावात् समानवचनत्वानुपपत्तिरितिवाच्यम् उक्ताविवक्षितत्वस्योक्तग्रन्थतस्समानवचनत्वव्याप्यत्वस्यैव प्रतीतत्वेन व्यापकलमवलम्ब्यदोपस्यासम्भवात् न च प्रयोजकान्तराभावेन तस्य तथालमुचितमिति वाच्यम् पदान्तरप्रयोजकवक्तृबुबोधयिषादेर्विभक्त्यंशेऽपि प्रयोजकतया तस्य निराकाङ्केष्वनुदयेन तत्र तत्र समानासमानवचनत्वनिर्वाहकलादिति समानवचनखस्यार्थसमाजप्रस्तत्वेन तादृशप्रयोजकानपेक्षत्वात् कुत्राभेदान्वयप्रयोजकं समानवचनलं कुत्र च नेत्याकाहानिवृत्तये शब्दानुगममुखेन तत्प्रसजकस्य व्याप्यस्यैव प्रदर्शनीयखाद्वेदाः प्रमाणमित्यादौ प्रसजकाभावादेव तत्प्रसक्त्यसंभवात् व्याप्यविरहस्य च व्यापकविरहाप्रयोजकतयोक्तस्थले उक्ताविवक्षितखविरहेपि क्षत्यभावात् समानवचनखस्यैकत्वस्य विवक्षितत्वेन विभक्त्यन्तरोत्पत्यसंभवेन निर्वाश्यत्वात् । अस्तु वा व्यापकत्वमपि तावतापि न क्षतिः । तादृशस्थले विशेष्यवाचकपदाव्यवहितोत्तरविभक्तेरप्रसिद्धतयाऽव्यवहितोत्तरत्वेनानुसन्धीयमानत्वस्य विवक्षणीयत्वात्तथाविधविभक्तितात्पर्यविषयैकत्वविरुद्धत्वस्यैकत्वेऽसम्भवात् अत्र केचित् सम्पन्ना लता बढ्यः सम्पत्तय इत्यादौ सम्पत्ती बहुत्वविवक्षायामसमानवचनकप्रयोगस्यापि साधुतया विभक्तित्वेनाप्रवेशे तदनुपपत्तिः स्मृतिविषयतया विभक्तरिव प्रत्यक्षविषयतया बहुपदस्यापि लतापदोत्तरत्वेनानुसन्धीयमानत्वेन तत्तात्पर्य विषयवहुत्वविरुद्धत्वस्य बहुत्वेऽसंभवात् । नचावच्छेदकतानात्मकतात्पर्य विषयत्वविवक्षणे न दोष इति वाच्यमे. कत्वपरपदाव्यवहितपूर्ववर्तिलुप्तबहुवचनान्तपदघटिते प्रमाणं वेदशाखा वाच्यं घट इत्यादाबसमानवचनत्वानुपपत्तेरिति वदन्ति । परेतु स्तोकमत्त इत्यादौ समानवचनत्वप्रसङ्गवारणाय विशेष्यवाचकपदे प्रातिपदिकत्वप्रवेशापेक्षया विशेष्यवाचकपदाव्यवहितोत्तरपदे सुहवप्रवेशे लाघवेन तस्यैवोपादेयतया विभक्तित्वेन प्रवेशे कथन्ताया नोन्मेष इत्याहुः।।
विभक्त्यर्थत्वेन संख्याप्रवेशमकृत्वा विभक्तितात्पर्य विषयत्वेन तत्प्रवेशनं वेदाःप्रमाणमित्यादौ यत्र जसि सुत्वभ्रमादेकवशक्तत्वभ्रमाद्वा शाब्दत्वमेकत्वस्य तत्रैकत्वस्य विभक्त्यर्थतयासमानवचनवप्रसादारणाय विभक्तिशक्यत्वरूपविभक्त्य. र्थत्वप्रवेशे च लोके सुविभकेःसंख्यालाक्षणिकत्वविरहेण दोषाभावेऽपि ततो न लाघवम् । केचितु वेदगतबहुलतात्पर्येण वेदपदोत्तरं जसि प्रयोक्तव्ये दोषवशात्प्रयुक्तया सुविभक्त्या घटितस्य वेदःप्रमाणमिति प्रयोगस्य समानवचनत्वनिबन्धनमसाधुलमभ्युपगच्छन्ति यकृतात्पर्यविदो विशेषदर्शिनः तत्रैवं समानवचनलव्याप्यस्य सत्तया कथन्ताया अनिवृत्तिः स्यादिति तात्पर्यविषयत्वेनोपादानं संख्यायाः कृतमिति बदन्ति । तात्पर्यविषयसंख्यायास्संख्यात्वेन प्रवेशात्प्रमाणे वेदेषु द्वित्वान्यप्रमेयमित्यादौ वेदनिरूपिततादृशप्रमेयत्वावच्छिन्नाधेयत्वस्य विभक्तितात्पर्यविषयतयाधेयत्वस्याधेयरूपत्वे तादृशविषय