________________
व्युत्पत्तिवादः । ननु शिस्वाद्याः सदैकत्व' इत्यनुशासनात् शतं ब्राह्मणा इत्यादेः साधुत्वेपि वेदाप्रमाणमित्यादयः कथं प्रयोगाः, विशेष्यविशेषणवाचकपदयोरसति विशेषानुशासने समानवचनकत्वनियमात्। अन्यथा घटा नील इत्यादेरपि साधुताप्रसमात् । समानलिङ्गकस्थले तथा नियमोपगमेन वेदाः प्रमाणमित्यादेः
धत्वोपपादनेऽपि इति हेतस्तदद्भवे इति कारिकायाइतित्रयः समुदिताहेतुरितिकाव्यप्रकाशव्याल्याया असंगतिर्पोरैव । एवमसमानलिमकस्थले विशेष्यवाचकपदासमानवचनस्यापि विशेषणप. दस्य साधुत्वे ताहशस्खले औत्सर्गिकमेकवचनमेव सर्वत्र विशेषणपदानन्तरं प्रयोक्तुमुचितमिति प्रत्यक्षानुमानोपमानशब्दाःप्रमाणानि पितरो देवता इत्यादेरनुपपत्तिः। मैवम्, यत्र विशेष्यवाचकपदोत्तरवि
ज्ञानस्य सत्त्वादितिवाच्यम् । विभक्त्योरानुपूर्वीसाम्ये विशेषणवाचकपदप्रकृतिकविभक्तौ विशेष्यवाचकपदप्रकृतिकविभक्तिवृत्तिचतुर्थीत्वविरुद्धतृतीयात्वग्रहो हि तृतीयार्थकरणत्वपरत्वज्ञानेनैवाधेयः तथासति अभेदान्वयपरत्वस्य दुर्घहत्त्वात् करणत्वविशेषणत्वेन बुबोधयिषितस्य विशेषणस्याभेदेनान्यत्र बुबोधयिषितत्वासंभवादेकविशेषणत्वेनेत्यादिव्युत्पत्तेर्जागरूकत्वात्, करणत्वाद्यर्थपरवज्ञानं विनापि विरुद्ध विभक्तित्वज्ञान कथंचिदभ्युपगम्यमाने तत्र शाब्दबोधस्यानुपगमेच तादृशविभक्तित्वज्ञानस्य प्रतिबन्धकताया एवागत्या स्वीकरणीयत्वात् , सुन्दराभ्यामित्येतस्माच्छाब्दप्रसङ्गभीया सुन्दरपदाभ्यां पदसम. भिहारज्ञानत्वेन न यदिकारणता किंतु सुन्दराभ्यामित्येतादृशानुपूर्वीज्ञानत्वेनैव तदाहि कैव कथा यस्य प्रथमात्वादेरज्ञानेऽपि शाब्दबोधोदयस्तद्घटितधर्मज्ञानत्वेन कारणतायामिति न समानानुपूर्वीकत्वेन साजाल्यपक्षेप्यापत्त्यवकाश इति बोध्यम् ।
मन्विति । समुद्भावितायामनुपपत्ताबाशेक्रेत्यर्थः । विशत्याद्या इति । तथाच विंशत्याद्या इत्येतदनुशासनाच्छतं ब्राह्मणा इत्येतस्य साधुत्वे उक्तनियमशरीरेऽसति बाधक इत्युक्तावनुपपत्त्यभावः । वेदाः प्रमाणमित्येतस्य च साधुतैव नास्ति क तत्रानुपपत्तिरिति समानानुपूर्वीकत्वेन साजायोक्तावेव न दोषः प्रत्युत विभक्तिविभाजकधर्मपुरस्कारेण साजा. त्योक्ती नीला घट इत्यादावापत्तिरिति भावः । विशल्याद्याशब्दास्संख्याविशिष्टपरा एकवचनान्ता भवन्ति संख्यापराश्च द्विवचनबहुवचनान्ता अपि । एकल इति द्विबहुल इति च संख्यायाः प्रातिपदिकार्थतापक्षे यथाश्रुतमेवैकलावार्थका इत्यर्थकतया साध्वन्यथातु कथञ्चिदिति ।
असति बाधक इति । येषां पदानां नियतवचनलमनुशिष्टं तत्तद्भदकूट विशिष्टप्रातिपदिकप्रयोज्यविशेष्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नप्रकारताप्रयोजकलविशेषिततादृशभेदकूटवत्त्वं यत्र तत्र तत्तद्विशेष्यवाचकपदप्रकृतिकविभक्तिस्यानुपूर्वीमद्विभक्तिप्रकृतिलमिति फलितार्थः । समानलिङ्गकस्थल इति। समानलिङ्गकत्वं च स्ववृति(लिङ्गलाद्यन्यतमवत्त्वम् , पुंलिङ्गवादिकं च अप्राणिसाधारणपुंस्त्यादिव्यवहारप्रयोजक्रसत्त्वादिगुणोपचयापचयस्य पुंस्त्वादिरूपत्वनये पुंस्त्वादिबोधकत्वमेव, स्वमते गुणत्रयानङ्गीकारात् सत्यां ब्राह्मण्यां ब्राह्मणो नास्ति ब्राह्मणे च सति ब्राह्मणी नास्तीति प्रतीत्योरुत्पादात् लिङ्गयोन्यादिमत्त्वलक्षणपुंस्त्वस्त्रीत्वादिप्रत्ययस्याङ्गीकरणीयत्वेऽपि तटस्तटीत्यादौ तत्प्रत्ययस्य बाधात्प्रयोजनाभात्राचानङ्गीकरणीयत्वमेवेति न पुंस्वादिबोधकत्वं पुलिझलादिकम् , अपितु प्राण्यप्राणिप्रतिपादकसाधारणं । पदसंस्कारप्रयोजक पुंलिङ्गत्वादिना परिभाषितत्वमेव पुंस्त्वादिबोधखरूपयोग्यत्वमेव पुंलिङ्गत्वादिकं तत्त्वं चानुगतं प्रातिपदिकवृत्त्यानुपूर्वीविशिष्टखानुपूर्वीकत्वं । वैशिष्ट्यं च स्वविशिष्टविषयतालव्यापकलसंबन्धेन । खवैशियं च खघटकवर्णावृत्तिलखावच्छिन्नविषयताप्रयोज्यविशेष्यतानिरूपितपुंस्त्वादिप्रकारताप्रयोजकत्वोभयसम्बधेन । व्यापकता च खावच्छिन्नविषयताप्रयोज्यविशेष्यतानिरूपितसङ्ख्यानिष्टप्रकारताप्रयोजकविषयतावच्छेदकावच्छिन्नत्वसंबन्धेन । तट इत्यादौ पुंस्त्ववोधाभावेऽपि ब्राह्मण इत्यादौ तद्वोधात् । तादृशबोधानुकूलाः ब्राह्मणादिपदघटकवर्णावृत्तयः खाद्यकविंशतिविभक्तिवृत्तयो यादृशधर्मावच्छिन्न विषयताः घट इत्यादी संख्याबोधानुकूलास्तादृशधर्मावच्छिना एव विभक्तिवृत्तयस्ता इति तत्र योग्यता न नदीशब्दादौ विभक्त्यानुपूर्वीभेदात् । येषां शब्दानां स्वप्रकृतिकाखिलविभक्तिसमानानुपूर्वीकाखिलविभक्तिप्रकृतिभूतः पुंस्वादिबोधोपधायकः शब्दो नास्ति तेषामानुपूर्वी विशिष्यैव योग्यताकुक्षावन्यतमत्वेन प्रवेशनीयेत्यपि कश्चिदिति ।।
इतिहेतुरिति । शक्तिनिपुणतालोककाव्यशास्त्राद्यवेक्षणात् काव्यज्ञशिक्षयाभ्यास इत्यादि । इति त्रय इति । शक्तिः कवित्वबीजभूतः संस्कारविशेषः प्रतिभाव्यपदेश्यः लोककाव्यशास्त्राद्यवेक्षणप्रयुक्तनिपुणताव्युत्पत्तिविशेषो काव्यज्ञशिक्षाप्रयुक्तोभ्यासः करणे योजने च पौनःपुन्येन प्रवृत्तिरिति त्रितय मितिशब्देन परामृश्यते । औत्सर्गिकमिति । नित्यद्विवचनबहुवचनसाकाडविशेषणपदानामसमानलिङ्गकस्थलेऽपि नैकवचनान्तत्यमित्युपात्तम् ।
नियमसङ्कोचेन समाधत्ते मैवमित्यादिना ।यति त्रस्प्रत्ययस्य घटकलमर्थस्तस्य विशेष्यवाचकपदेऽन्वयः यदिति विशेष्यविशेषणवाचकपदघटितं वाक्यमाह वाचकशब्दो बोधकपरस्तेन लाक्षणिकविशेष्यपदस्थले न नियमहानिः । उत्तरविभक्तीति।