SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सामान्य निरुक्तिविवेचना गितात्वसामानाधिकरण्येन वा वह्नेस्साध्यतापां प्रकृतानुमितिस्वव्यापकसामानाधिकरण्येन वह्निमत्वबुद्धित्वावच्छिन्न प्रतिवध्यतामादाय लक्षणसम्भवात् तादृशप्रतिवध्यतानिरूपित प्रतिबन्धकतायाः प्रति. योगितात्वावच्छेदेन तादृशनिरूपितत्वावगाहिनिश्चयविशिष्टवहयभाव ८० वत्ताष्टशनिरूपितत्ववत्त्वावच्छिन्नविषयताशालिनिश्चयत्वस्यैव व्यापकतया तादशविशिष्टद्वयविषयताशून्यत्वस्यासाधारण्यनिश्वये स. त्वात् तस्य प्रतियोगितात्वावच्छेदेन ताहशनिरूपितवानवगा हित्वादिति । अत्रेदमवध्येयम् प्रतिवध्यतैक्यपक्षे द्वितीयक्षणावरिछन्नध्वंसो वाच्यस्वश्ववान् ध्वंसात् वाच्यत्वत्वव्यापकीभूताभावप्रतियोगि प्रतियोगित्वकालीन - तादृशध्वंसाद्वत्यादावसाधारण्येऽव्याप्तिर्दुरुद्धरैवेति प्रतिबन्धकते क्यपक्ष एवादरणीयः नच तत्र वृत्य नियामकसम्बन्धस्य प्रतियोगि. तावच्छेदकत्वबिना विशेषरूपेण संसर्गत्वाभ्युपगमम्बिनावा न गतिर्न खतरस्वीक्रियेत इतिवाच्यं वक्ष्यमाणपरस्परस्वावच्छिन्नविषयताशून्य. स्वनिधेशपक्षे धूमाभाववदूधदत्वावच्छिन्नविषयताशालिनिश्चयविशिष्ट. वाच्यत्वत्वाभाववत्प्रतियोगित्ववत्कालीनताश वह्नयभाववद्ध्रदत्वावच्छिन्नविषयताशालिनिश्चयत्यादिव्यापकत्वस्य वाधादिप्रतिबन्धकतायां सत्वेनो कहदत्वात्मक रूपयावच्छिन्नविषयताशुन्यत्वस्य वाधादिनिश्वये सरखेन वाधादावव्याप्त्यसम्भवात् स्वाभाववश्वस्य प्रतिबन्धकताविशिष्टत्वघटकसंसर्गत्वानभ्युपगमात् वक्ष्यमाणोभयाभावविवक्षायां घटकालीन वह्यभाववदुध दत्वपटकालीन वह्यभाववद्ध्रदत्वे यद्रूपपदेनोपादाय लक्षणसङ्गतिराकलनीया वक्ष्यमाणजन्यतानवच्छेदकत्वपक्षेपिच न दोषसम्भवः तथाहि हृदत्वा वच्छेदेन वह्नेस्साध्यतायां हृदत्व सामानाधिकरण्येन वह्नह्यभाववज्जलब द्वृत्तिजलवदूधदेऽतिव्याप्तिः तादशहदो वह्नयभाववानित्यनुमितिनिष्ठज न्यतायास्तादृशप्रतिवध्यताविशिष्टत्वात् हदत्वावच्छेदेन वह्निमत्ताबु द्विम्प्रति तादृशहदों वह्नयभावव्याप्यवानिति निश्चयस्य तादृशह दोवह्नयभाववानिनिबुद्धिम्प्रति हदत्वावच्छेदेन वहिव्याप्यवत्व बुद्धेश्व प्रतिबन्धकत्वात तथासति निरुक्तजन्य तानवच्छेदकत्वस्य तादृशइदो वहयभाववानित्यनुमितीय जलवद्धदत्वावच्छिन्नविषयतायाम्बि रहेण तादृशविषयत्ताद्वयशून्यत्वस्य वह्यभाववज्जलवद्वृत्तिजलबद्ध
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy