SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरुक्तिविवेचना तथाच तवसाधारण्याव्यालेरित्वेन तद्वारणाय विशेषणकिमपि. वक्तव्यं तस्यालस्यत्वम्वा तच्च प्रतिवन्धकतैक्यपक्षेपि समानमि. तिवाच्यं तद्विशेषणस्यासाधारण्यघटकविषयताभेदरूपस्यैव वक्ता व्यतया सत्यपि प्रतिबन्धकतैक्ये स्वरूपसम्बन्धरूपावच्छदकत्वपक्ष. पि दोषासम्भवादलक्ष्यत्वाङ्गीकारस्याप्युभयौव समानत्वात् । किञ्च प्रतियोगित्वस्य विशेषणान्तरानवच्छिन्ने द्वितीयक्षणावच्छिन्नध्व से प. क्षभूते प्रकारस्वविरहात् तारशपक्षधम्मिकसाध्यवत्ताबुद्धौ पक्षतावउछेदकळ्यापकत्वानवगाहिन्यां पक्षतावच्छेदकाघटकधर्मावच्छिन्नता. दृशपक्षविशेष्यकस्य साध्यवताविरुद्धत्वेन गृहीतधर्मप्रकारकस्य साध्याभावप्रकारकस्यवा शानस्थ प्रतिबन्धकत्वाननुभवाव पर्वतत्व व्यापकतानवगाहिनि पर्वतोवह्निमानितिज्ञान नीलपर्वतोवलयभाववा. नितिज्ञानस्येव द्वितीयक्षणावच्छिन्नपर्वतोवहिमानितिक्षाने द्वितीय. क्षणावच्छिन्ननीलपर्वतो वह्नयभाववानितिमानस्यापि प्रतिबन्धकत्वन्न केषामप्यभिमतम् एवञ्चालाधारण्यप्रतिबन्धकतायाः प्रकृतानुमितिः प्रतिबन्धकेपि वायत्वत्वव्यापकीभूताभावप्रतियोगिप्रतियोगित्वनिश्चय कालीने स्वावच्छिन्नविषयत्वाव्यापकविषयताशून्यप्रतियोगित्ववाति तीयक्षणावच्छिन्नध्वंसत्वावच्छिन्नविषयकक्षाने विरहेण यद्रुपमध्ये ताडशप्रतियोगितात्वतारशध्वंसत्वयोः प्रवेशासम्भवात् विनैव विशेषणप्रक्षेपालक्ष्यत्वाभ्युपगमौ प्रतिबन्धकताभेदयक्षेऽव्यातेरसम्भवः। . . यदिचोक्तरीत्या प्रतिबन्धकत्वमानुभविक देशकालादिमिताव. च्छेदकस्थले विशेषगुणाभाववान् द्वितीयक्षणावच्छिन्नघटो गुणसामा. न्याभाववानित्यत्र गुणवहिनीयक्षणावच्छिन्नघटरूपवाधघटितासि. द्वौ दोषप्रतिपादकग्रन्थाभिमतश्च तदापि तादृशप्रतियोगित्बकाली. नवाच्यत्वत्वसाध्यकोक्तपक्षकद्वितीयक्षणावच्छिन्नध्वंसहेतुकस्थलेऽसा धारण्येऽन्यप्तिर्दुरुद्धरैव । नच तत्रामाधारण्यनिश्चयस्य पृथक्प्रतिब Fधकत्वासम्भवः, वाच्यत्वत्वसामान्याभावेऽव्याप्यवृत्तित्वप्रहे ताह शाभावनिरूपितव्यतिरेकव्याप्त्यात्मकशुद्धवाव्यत्वत्वव्यापकीभूता. भावप्रतियोगित्वविशिष्टज्ञानस्थ प्रतिबन्धकत्वासम्भवात् विशेषा भाव चाव्याप्यवृत्तित्वग्रहाभावेन, विशेषाभावनिरूपितव्याप्तिप्रकार. कनिश्चयविशिष्टतुमत्तानिश्चयत्वन: प्रतिबन्धकत्वस्यावश्यकत्वात् सामान्यनिरूपितव्यापकत्वविशेषनिरूपितव्यापकत्वावगाहिग्रहयोरे
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy