________________
કર
सामान्यनिरुक्तिविवेचना
प्रतिबन्धकत्वेपि जनकत्वविरहात् आव्याप्यवृत्तिग्रहकाले वह्नयभावव्याप्यवान्वह्निमानितिज्ञानस्य जनकत्वेपि वा प्रतिबन्धकत्वबिरहादसम्भवापत्तेः यद्यद्रूपावच्छिन्नविषयतात्वे प्रतिबन्धकतावच्छेदकतावच्छेदकत्वं तत्तद्रूपावच्छिन्नविषयतात्वे जनकतावच्छेदकताब. च्छेदकत्वस्य विवक्षणीयत्वात् तादृशहद पक्ष के ऽतिव्याप्ते दुर्वारत्वात् । नच विषयतात्वपर्य्यन्तं न वाच्यं तथासति निश्चयविशिष्टनिश्चयानामेकरूपेण प्रतिबन्धकत्व एवोक्तविचारस्योपक्रान्तत्वेन वह्नयभावा दिधर्मितावच्छेदकीभवच्छ्वालादिविषयत्वेपि प्रतिबन्धकतावच्छेदकस्वसश्वेन तत्र जनकतावच्छेदत्वविरहेण नोक्तदोषसम्भव इतिवाच्यं प्रतिषन्धकतावच्छेदकविषयतानिरूपकथावद्वघाप्य समुदायप्रकार. कशानमादायैतद्वायतिव्याप्तितादवस्थ्यात् यद्रूपावच्छिन्गत्वविशेषि तविषयतात्वेऽवच्छेदकत्वस्य वाच्यतया धर्मितावच्छेदकीयविषयतायाः किञ्चिद्रूपावच्छिन्नविषयतात्वेन प्रतिबन्धकतावच्छेदके प्रवेशा तोषसम्भवादिति तन्न यद्यद्रूपवृत्तिविषयत्वे ऽवच्छेदकत्वविवक्षायामुक्तातिव्याप्तेरसम्भवेन तदतिव्याप्तेरव्यसम्भवात् ।
केचित्तु प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिनत्वस्य वाच्यत्वाशोक्तदोषः नच तदेकत्रैव विशेषणमस्त्वितिवाच्यम्, तस्य प्रथमप्रतिब म्धकताविशेषणत्वे वद्यभाववद्वहिव्याप्याभावव्याप्यवत्कालीन पर्वतप क्षकवह्निव्याप्याभावसाध्यकस्थले वह्निमत्पर्वतेऽतिव्याप्तिः द्वितीयप्रति बन्धकताविशेषणत्वे वहयभाववद्वह्निव्याप्याभावव्याप्यवत्कालीनहदपक्षकवह्निसाध्यकस्थले वह्निष्याप्याभावद्भदे चातिव्याप्तेः वहिमत्ताबुद्धिस्प्रति निश्चयविशिष्टनिश्वयत्वेन प्रतिबन्धकतादृशपर्वतोव हिव्याप्या. भावव्याप्यवानिति ज्ञानजन्यतावच्छेदकत्वस्य साध्यवत्ताबुद्धिविषयत्वे साध्यवत्ताबुद्धिम्प्रति निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकद्वदोष. न्हिव्याप्याभावव्याप्यवानितिज्ञानजन्यतावच्छेदकत्वस्य वह्निव्याप्या. भाववदूधदविषयत्तायाञ्च सरवात् । नच तादृशप्रतिबध्यताविशिष्टजनकतानिरूपितजन्यतानवच्छेदकत्वमेव विवक्षणीयं नतु जनकता द्वयघटितङ्गौरवाद त्राप्युक्तदोषाणामभावाच्च वैशिष्ट्यञ्च स्वनिरूपि तज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतावच्छेदकावच्छिन्नत्व स्वावच्छेदकीभूतधर्मावच्छिन्नप्रतिवध्यतानिरूपित प्रतिबन्धकतावच्छेद की· भूतधर्मावच्छिन्नजन्य तानिरूपि तत्वाभय सम्बन्धेनेति वाच्यं वह्निव्या•