________________
४२
सामान्यनिरुक्तिविवेचना
विषयतानिरूपितयद्पावच्छिन्नविषयत्वस्थ विरहात् भेदभेदवत्वाव च्छिन्नेऽतिप्रसङ्ग इति वाच्यं स्वरूपत्वावच्छिन्नविषयतानिरूपितस्व. रूपत्वावच्छिन्नविषयताया एवाव्यापकविषयताया उक्तशाने सत्वात नच स्वरूपवत्स्वरूपवत्वम्भेदत्वविशेषणमास्तान्तत्रैव दोषः स्वरूप. पक्षकस्वरूपवत्स्वरूपाभावसाध्यकस्थले स्वरूपं स्वरूपवत्स्वरूपव. दितिज्ञानविषये स्वरूपवत्स्वरूपवत्यतिव्याप्तिरिति वाच्यं यदूपाव. च्छिन्नप्रकारतानिरूपितयद्यावच्छिन्नविशेष्यत्वविवक्षायामतिप्रसङ्गानवकाशादिति चेत् । - अत्र केचित् अयंघटभिन्नोगुणो द्रव्यभिन्न इत्यादिस्थले स्वरूप. तोघटत्वप्रकारकस्यायं घट इति प्रमाज्ञानस्य स्वरूपतोद्रव्यत्वप्रकार. कस्य गुणोद्रव्यमितिभ्रमस्य च विषय इदन्त्वावच्छिन्ने गुणत्वाव. च्छिन्ने चातिप्रसङ्गानिचेश्यमेव सामान्यपदमिति वदन्ति । _ अत्रेदमवधेयम् यद्विषयताविशिष्टप्रकारतानिरूपितयदपावच्छिन्नविशेष्यत्वं यद्पावच्छिन्नविषयत्वाव्यापकं तद्विषय तानिरूपिततत्तद्र. पावच्छिन्नविशेष्यताशुन्यत्वमेव विवक्षणीयम् वैशियच स्वसामाना. धिकरण्य स्ववृत्तिनिरवच्छिन्नत्वोभयाधिकरणत्वघटितेन स्वविशि ष्टवृत्तित्वघटितेन वा स्वावच्छेदकावच्छिन्नत्वघटितान्यतरस म्बन्धेन स्ववैशिष्टयश्च स्वाधिकरणनिरूपितत्व स्ववृत्तिनिरवच्छि. नत्वलामानाधिकरण्योभयसम्बन्धेन एवश्च घटत्वद्रब्यत्वादिनिष्ठनि रवच्छिन्नविषयताविशिष्टनिरवच्छिन्नप्रकारतानिरूपितेदवावच्छिन्नविशेष्यताया अध्यापकत्वान्नातिव्याप्तिः स्वरूपत्वावच्छिन्नसांसर्गि कविषयताविशिष्टप्रकारतानिरूपितहदत्वावच्छिन्नविशेष्यताया अव्या. पकत्वादसम्भवापत्या यद्विषयतापि प्रकारतात्वेनैव निवेश्या वह्निरवृत्तिरित्यत्र वह्निमद्रूपवाघज्ञानस्य वह्नित्वावच्छिन्नविषयत्वाव्यापक निरुक्तविषयताशुन्यत्वेन वह्नावतिव्याप्तिवारणाय यद्रपावच्छिन्नविशप्यतापि यद्विशेष्यताविशिष्टविशष्यतात्वेन प्रवेशनीया वैशिष्टयञ्च पूर्ववत् तथाच वह्नित्वावच्छिन्नप्रकारतानिरूपितनिरवच्छिन्नविशेष्यतैव तत्र वह्नित्वावच्छिन्नविषयित्वाच्यापिकास्तीति न दोषः विशष. णीभूतविषयताया विशेष्यतात्वेन निवेशात् बह्नयभावत्वावच्छिन्न. प्रकारताविशिष्टप्रकारतानिरूपितस्वरूपत्वावच्छिन्नसांसर्गिकविषयताविशिष्टस्वरूपत्वावच्छिन्नविशेष्यत्वस्य वह्नयभाववद्धदत्वावच्छिन्न