SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरुकिविवेचना ३९ ङ्गीकारादधिकरणत्वप्रवेशप्रयुक्त गौरवाभावात् । यत्तु ज्ञातीयत्वस्यविषयिताविशेषणत्वे पुच्छलग्नतया साक्षास्परम्परासाधारणनिरूपितत्वपक्षइतरवारकनिवेशेऽधिकस्य तद्भेदस्य प्रवेशनीयतया गौरवमेवेति तंन साक्षात्परम्परासाधारणनिरूपि तत्वाङ्गीकारेऽभावप्रतियोगितायामेव यावदवच्छेदकातिरिक्तधर्मानवच्छिन्नत्वमेकदैव निविशत इति पुच्छलग्नत्वप्र वप्रयुक्तगौरवाभावात् न च व्यापकत्वांशे साम्ये व्यापकत्वस्यावच्छेदकत्वसम्बन्धेन प्रतिबन्धकतायामुक्तौ न गौरवस्यावकाशइति वाच्यं अवच्छेदकत्वस्य वृ. त्यनियामकतथा तत्सम्वन्धावच्छिन्न प्रतियोगित्वाप्रसिद्धघा व्यापकत्वस्यासम्भवात्, पारिभाषिकस्यान्य श्रदर्शित समशीलत्रितयाभावरूपस्यावच्छेदकत्व सम्बन्धावच्छिनत्वस्य प्रवेशे गौरवापत्तेः नच भेदघाटितमेवास्तु व्यापकत्वं वृत्य नियामकसम्बन्धस्य भेदप्रतियोगितावच्छेदकतावच्छेदकतायाः सर्वानुमतत्वादितिवाच्यम् अत्य स्ताभावघटितव्यापकत्वस्याप्रतियोगित्वगर्भतया प्रतियोगितानवच्छेदकत्वघातभेदगर्भव्यापकत्वाल्लघुभूतस्यास्मत्पक्षे प्रवेशात् । यद्यप्यत्यन्ताभावगर्भ ब्यापकता पक्षेपि तज्ज्ञानवृत्तित्वविशिष्टप्र तिबन्धकत्वाभावमादायाव्याप्तिवारणाय प्रतियोगितायांतादृशप्रतिष म्धकतात्वतदितरोभयानवच्छिनत्वन्तादृशप्रतिबन्धकता सादृश. प्रतियोगितावच्छेदकतापर्थ्याप्त्यनधिकरणत्वस्वा निवेशनीयमेव तथा पि भेदघटितव्यापकत्वपक्षे तज्ज्ञानवृत्तित्त्वविशिष्टप्रतिबन्धकतावाने ति भेदमादायासम्भववारणाय भेदप्रतियोगितावच्छेदकतावच्छेदक तापयत्यनधिकरणत्वस्य तादृशप्रतिबन्धकतात्वे प्रतियोगितायाञ्च प्रतिबन्धकताव सज्ज्ञानभेदवारणाय प्रतिबन्धकस्वतदितरोभयानवच्छिन्नत्वस्यनिवेशः कार्य्यं एवेतिगौरवम् प्रतिबन्धकतैक्यपक्षेपि प्रति. योगितायामुभया वृत्तिधर्मावच्छिन्नावच्छेदकत्वान्यावच्छेदकत्वानिरूपितत्वमवच्छेदकतायां तादृशधर्मातिरिक्तधर्मानवच्छिन्नत्वम्मेदगर्भ. व्यापकताशरीरे निवेश्यमत्यन्ताभावगर्भव्यापकतागर्भे प्रतिबन्धकतावृत्युभयावृत्तिधर्मातिरिक्ततद्वृत्तिधर्मानवच्छिन्नत्वमेव प्रतियोगि• तायाम्प्रवेश्यमिति न साम्यं भेदगर्भे लाघवप्रवादश्च प्रतियोगित्रैयधिकरण्यानिवेशप्रयुक्तस्तदत्रात्यन्ताभावगर्भेऽपि न निविशतइति निःप्रत्यूहमेव लाघवमिति ॥ ● ॥
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy