________________
१३२
सामान्यनितिविवेचना मिताकाभावेनात्रापि धारणसम्भवात् द्वितीयक्षणावच्छिन्नघटघटि. ताश्रयासिद्धिनिर्णयप्रतिबध्यतायास्लामानाधिकरण्येन बुद्धित्वानव. च्छिन्नत्वात् प्रतिवध्याभूत ज्ञानेपि सम्बन्धाशे कालरूपोहेश्यतावच्छे. दकावच्छेद्यत्वस्य भानात् तदूधटितोक्तसम्बन्धस्या श्रयासिद्धित्वव्यधिकरणत्वेन तत्र दोषसम्भवात् व्यापकत्वानवच्छेद्यसंसर्गताकयु. द्धित्वस्यैव सामानाधिकरण्येन बुधिस्वरूपत्वे च बानिर्णयप्रतिवध्य साया अपि ताहशबुद्धित्वावच्छिन्नतया दोषसम्भवात् कालातिरिक्त पक्षतावच्छेदकलाध्ययोःप्रागुक्तस्यलतुल्यतयैव तत्स्थलस्यैव प्रथम सुद्धावारूढतयोक्तत्वादिस्यपि केचित् ॥ गुणाभावादानामव्याप्यवृत्ति. त्वेन कपिसंयोगसाध्यकवृक्षपक्षकस्थल कपिसंयोगाभावववृक्षस्येव गुणवघटस्यापि वाधत्वविरहात् कालिकाव्याप्यवृत्तिलाध्यके काल विशेषस्य पक्षतावच्छेदकतया बाधसम्पत्यर्थमनुसरणमित्यपरे त. सिचम्त्यं तथासति विशेषणगुणाभावधान्घटोगुण सामान्याभावधानित्ये. तरस्थलपरित्यागवीजत्वेनैतस्याप्युद्भावनीयतयोपेक्षाया निर्वाजत्वाप. तः बाधस्थले तोरपक्षधर्मत्यानकान्तिकस्वान्यतरप्रवादं व्याप्यवृ. त्तिसाध्यकस्थलीयाभिप्रायकतया समर्थ्य कापसंयागाभावववृक्षस्य बाधताया मथुरानाधेनोपपादिततया दृष्टान्तवैषम्याच्चेतिध्येयम् ।। . अत्रेदश्चिन्त्यते कालविशेषस्य यत्रोद्देश्यतावच्छेदकघटकता त . बोहेश्यतावच्छेदकमात्रावच्छिन्नत्वं स्वरूपसम्वन्धरूपमेव किम्वा कालावशेषावच्छिन्नत्वमेव तथा नायः घटमात्रस्यैव द्वितीयक्षणाव च्छिन्नतया तादृशे यत्किञ्चिदूधटे गुणसामान्याभावावगाहिनोगु ग. धत्त्वाधगाहिनश्च अहस्यापि सम्भवेन तयोरपि परस्परं प्रतिबन्धक. स्वापत्तेः । तद्याबृत्तप्रतिवन्धकत्वस्यावच्छेदकावच्छेदेन व्यापकत्वा. धगादिशानाभ्युपगमस्विना वक्तुमशक्यत्वात् नच यत्किञ्चिद्घटा धगाहि ताशमाननोत्पद्यत एव उत्पद्यमानमपि वा तथावि धविरोधिज्ञानमपि प्रतिवनात्येवेति घाच्यम् अनुभवविरोधात् अ. न्यथा घटस्वमात्रधर्मिमतावच्छेदकस्थलेप्येतस्य सम्भवेन पूर्वस्थल परित्यागे वीजामाबात् अतएव द्वितीयक्षणावच्छिन्नो घटो नीला. त्यस्यावच्छेदकापच्छेद्यत्वावगाहिनो भ्रमत्वं सामानाधिकरण्यमात्रा
गाहिनः प्रमास्वमप्यानुभविकामनाकुलमवतिष्ठते । द्वितीयं त्वङ्गीकु. .मः तत्रचावच्छेदकावच्छेदेन वुद्धिस्थले संसर्गघटकतया द्वितीयक्ष