________________
११०
सामान्यनिरुकि विवेचना
नुयोगितावच्छेदकत्वनिष्ठावच्छेदकतानिरूपित प्रतिबन्धकतावृत्त्यभा
वीय प्रतियोगितानिरूपित परम्परावच्छेदकतात्वावच्छिन्नाबच्छेदक.
तापरम्परानिरूपितत्ववत्प्रतियोगिताकाभाववत्प्रतीतिविषयतावच्छे
दकतात्वावच्छिन्नपर्य्या क्यनुयोगितावच्छेदकत्वसम्बन्धेन बोध्यमनयोर्लाघवं गौरवश्च व्यक्तमेवेति ।
अथ स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य रूपविशे. पणत्वापेक्षया स्ववाच्छन्नविषयताशून्ययद्रूपावच्छिन्नविषयताशालिनि
श्यवृत्तिभेदप्रतियोगितावच्छेदकत्वाभावः प्रतिबन्धकतायामस्ति ताह. यरूपत्वमेव निवेशनीयं लाघवात् एतदनुगमश्च प्रागुक्तानुगमद्वयघढक प्रथमानुगमवद्बोध्यः विशेषश्च निश्चयनिष्ठावच्छेदकता वैशिष्ट्य. घटकद्वितीयसम्वन्धे बोध्यः तथाहि स्वविशिष्टावच्छेदकतानिरूपि तावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकत्व - निष्ठावच्छेदकतानिरूपितानुयोगित्वनिष्ठावच्छेदकतानिष्ठावच्छेदकता
निरूपितपर्य्याप्तिनिष्ठावच्छेदकत्व निष्ठावच्छेदकतानिरूपित प्रतियोगि.
स्वनिष्ठावच्छेदकतानिष्ठावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छे
दकत्वनिष्ठावच्छेदकतानिरूपितविषयत्वनिष्ठाचच्छेदकत्वनिष्ठावच्छे.
दकतानिरूपितावच्छेदकतावत्प्रकृतानुमितिप्रतिबन्धकताबृस्यभावी.
यप्रतियोगितानिरूपित परम्परी यनिश्चयनिष्ठावच्छेदकताविशिष्टत्वं सम्बन्धः स्ववैशिष्ट्यं पूर्ववत् अवच्छेदकत्ता वैशिष्ट्यञ्च स्वसमानाधिकरणस्वावच्छिन्नानुयोगिताकपर्य्यासिकावच्छेदकताकविषयता
शुन्यत्वरूपाभावीयप्रतियोगितया परम्परानिरूपितावच्छेदकत्वसम्ब न्धेन बोध्यमितिचेन्न अत्रापि भट्टाचार्य तात्पय्यपवर्णने क्षत्यभावात् ॥ यन्तु यादृशस्थलविशेषे मेयत्वविशिष्टव्यभिचारविषयकज्ञानात्मकमेवाप्रामाण्यज्ञानास्कन्दितव्यभिचारज्ञानं समूहालम्बनात्मकंजायते. ऽन्यथात्वप्रामाण्यज्ञानानास्कन्दितमेव तत्रातिव्याप्तिलम्भावनया ता दशविवक्षा न कृतेति तन प्रतीतिविषयतावच्छेदकत्वविवक्षायामपि यद्रूपपदेन व्यभिचारत्वस्य धारणासम्भवात् व्यभिचारत्वावच्छिन्नविष यताशाल्य व्यापकविषयता शून्य प्रकृतानुमितिप्रतिबन्धकतावनिश्वया. प्रसिद्धेरतिब्यातितादवस्थ्यात् । नच्चाव्यापकविषयताशून्यत्वं यद्रूपाबच्छिन्नविषयताशालिनिश्चये न निवेश्यमपितु यद्रूपावच्छिन्नविषय
स्वाव्यापक विषयताशून्यज्ञानीयस्वं यद्रूपावच्छिन्नविषयतायामेव नि