________________
32
NYAYAVATARA.
अक्षध्वनिरिन्द्रियवचनो गृह्यते ततश्च अक्ष प्रति गतं प्रत्यक्ष* यदिन्द्रियमाश्रित्य उज्जिहीते अर्थसाक्षात्कारि ज्ञानं तत् प्रत्यक्षमित्यर्थः । ततश्च सर्वज्ञानानां यत् स्वरूपसंवेदनं तदपि प्रत्यक्षमित्युक्तं भवति । तत्रापि स्वरूपस्य ग्राह्यस्य साक्षात्करणसद्भावादिति । अक्षोभ्यः परतो वर्त्तते इति परोक्षमक्षव्यापारनिरपेक्ष मनोव्यापारेण साक्षादपरिच्छेदकं यत् ज्ञानं द्विधैव... द्वाभ्यामेव प्रकाराभ्यां
तत्परोक्षमिति भावः । मेयस्य ग्राह्यार्थस्य विनिश्चयात् स्वरूपनिर्णयात् ॥ १ ॥ प्रसिद्धानि प्ररूढानि, नाधुना साध्यानीत्यर्थः । प्रमाणानि प्रत्यक्षानुमानशब्दानि । ... ... यदर्थं प्रमाणपरीक्षणं असावपि जलपानशीतत्राणदिर्व्यवहारोऽनादिप्ररूढः । तन्निरर्थकं प्रमागालक्षणाभिधानमिति ॥ २ ॥
यद्यपि प्रतिप्राणिप्रसिद्धानि प्रमाणानि । अन्यथा तत्कृतनिखिलव्यवहारोच्छेदप्रसंगात्तदुच्छेदे च दृष्टहान्याद्यापत्तेः । ... व्यामूढं विपरीतग्रस्तं विचित्रतां गतं मनोऽन्तःकरणं येषां ते तथा तेषाम्, इहेति लोके । ...... यद्यनादिप्रसिद्धं प्रमाणलक्षणं प्रति न केचित् अपि व्यामुह्येयुस्तदा यद् भवद्भिः प्रागुदग्राहि निरर्थकं प्रमाणलक्षणमिति तद् युक्तमेव स्यात् । न चैतदेवम्, तत्र व्यामूढानां दर्शनात् ॥ ३ ॥
परोक्षोऽक्षगोचरातीतस्ततेोऽन्योऽपरोक्षस्तद्भावस्तत्ता तया साक्षात्कृततयेति यावत् । तस्य [ अर्थस्य ] ग्राहकं व्यवसायात्मकतया साक्षात् परिच्छेदकं यत् ज्ञानं तदीदृशमिति ईदृगेव प्रत्यक्षमिति संटंकः । अर्थस्य ग्राहकमित्यस्य ग्रहणेक्षयेति वक्ष्यमाणपदसापेक्षत्वादमुना बहिरपि येऽर्थकालाकलनविकलं
...