________________
. न्यायावतारविवृतीः । अवियुतसामान्यविशेषदेशिनं वर्द्धमानमानम्य । न्यायावतारविवृतिः स्मृतिबीजविवृद्धये क्रियते॥ 'प्रमाणेत्यादि' अनेन च तादात्म्य-तदुत्पत्तिलक्षणसंबन्धविकलतया ध्वनेर्बहिरर्थ प्रति प्रामाण्यायोगात् अभिधेयादिसूचनद्वारोत्पन्नार्थसंशयमुखेन श्रोतारः श्रवणं प्रति प्रोत्साह्यन्ते इति धम्मोत्तरो मन्यते । ...अच्चंटस्तु आह । न श्रावकोत्साहकमेतत् प्रामाण्याभावात् तेषां चाप्रमाणादप्रवृत्तेः।
स्व आत्मा स्वरूपं, परोऽर्थः । तो आभासयितुं प्रकाशयितुं शीलं यस्य तत् । तथा ज्ञायते निर्णोयते तत्त्वं येन तत् शानम् । बाध्यते अनेनेति बाधः, विपरीतार्थोपस्थापकप्रमाणप्रवृत्तिरिति यावत् । सेन विशेषेण वर्जितं रहितं यत् ज्ञानं तत् प्रमाणमिति संटंकः । स्वपराभासीत्यनेन ये स्वाभास्येव ज्ञानं मन्यन्ते ते शानवादिनो बौद्ध विशेषाः; ये च पराभास्येव मीमांसकनैयायिकादयः; ते निरस्तास्ते हि बहिरर्थाभावात् ज्ञानं स्वांशपर्यवसितसत्ताकम् इत्याचक्षीरन् । तदयुक्तम् । झयार्थाभावे झानाभावप्रसङ्गात् । .........पराभास्यपि स्वप्रकाशाभावात् अभिदधीरन् तदप्यसम्बद्धम् । स्वप्रकाशाभावे परप्रकाशायोगात्न हि प्रदीपः स्वरूपमनुद्योतयन् घटाद्युद्योतने व्याप्रियते।
तत्र सिद्धान्तप्रसिद्धपारमार्थिकप्रत्यक्षापेक्षयाऽक्षशब्दो जीवपयायतया प्रसिद्धः। इह तु व्यावहारिकप्रत्यक्षप्रस्तावात्