________________
२०
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
जनकत्वासंभवात्, तथापि स्वार्थद्वारा क्रियाजनकत्वं तेषामिति पदमपि कारकं निगद्यते । वस्तुतस्तु इह शास्त्रे स्यादिविभक्तिसमुदाय एव कारकत्वव्यवहारो दृश्यते तासां कारकत्वनिमित्तकत्वात्, तथा च तानि कारकाणि कारकविभक्तयः, विवक्षा5 प्रयोज्यानि, इत्यर्थः, विवक्षा च वक्तुरिच्छा । तथा च वक्ता यत्राकार केsपि कारकत्वं विवक्षति तदकारकमपि कारकं भवति, कारकान्तरमपि कारकान्तरतां गच्छति, कारकत्वं न वा लभते इति न्यायार्थः पर्यवस्यति । कारकविशेषाणां लक्षणानि नियतानि तानि च न परस्परं व्यभिचरन्तीति न हेत्वादेः कदाचि 10 दपि कारकत्वं ( कर्तृत्वं ) प्रामोति, विवक्षायाः कारकत्वप्रयोजकस्वाङ्गीकारे च हेतोरपि कर्तृत्वं विवक्ष्यते चेत् तदा भवति स कर्तापि, यथा- 'भिक्षा वासयति भिक्षुकं ग्रामें' इति, अत्र हि भिक्षावास हेतुभूताऽपि विवक्षावशात् कर्तृत्वं प्राप्ता, हेतोश्च व्यापारशून्यत्वेन कारकत्वं नास्त्येव तदभावाच्च तत्र कर्तृत्व15 मप्राप्तमेव विवक्षावशादेव [ कर्तृत्वं ] भवति भिक्षाया वासं प्रति कारकत्वे सति तु 'भिक्षयोषितः' इति प्रयोगे “कारकं कृता” [ ३. १. ६८. ] इति समासः स्यात् । एवं कारकस्यापि कारकत्वेनाविवक्षायां सम्बन्धमात्रबोधिका षष्ठयेव भवति, यथा- माषाणामभीयादिति । कचिच्च कारकान्तरं कारकान्त20 रतां गच्छति, यथा-'ओदनः पच्यते स्वयमेव' इति, अन्न कर्मकारकमपि ओदनो विवक्षावशात् कर्तृतां यातः; तथा असिरिछनत्ति' इति, अत्र करणस्यासेः कर्तृत्वविवक्षा | “स्मृत्यर्थदयेशः” [ २. २. ११. ] इत्यस्य वृत्तिकृता नियमार्थत्वोपवर्णनेन ज्ञापितोऽयं न्यायः । तथा हि-तत्र सूत्रे वृत्तिः 25 “ननु कर्माविवक्षायां पक्षे माषाणामश्नीयादित्यादिवत् शेषषष्ठी सिद्धैव तत् किमनेन ? सत्यम्, किन्तु “षष्ठ्ययत्नाच्छेषे [ ३. १. ७६. ] इत्ययत्रजे शेषे षष्ठ्याः समासो वक्ष्यते, ततो मातुः स्मृतमित्यादौ समासो मा भूदित्यनेन प्रकारेण यत्राच्छेषो विधीयते, नियमार्थं च” इति, नियम प्रकारचेत्थं वर्णितः - एषां 30 धातूनां कर्मैव शेषत्वेन विवक्ष्यते न कारकान्तरमिति तथा चास्य न्यायस्यासवे सूत्रं विना पाक्षिककर्मत्वस्यासिद्ध्या सूत्रस्य नियमार्थत्वं न संघटेत इति तस्य विध्यर्भवमेव स्यादिति मात्रा स्मृतमित्यादावपि कर्तृत्वाद्यविवक्षा स्यादिति तत्रापि षष्ठी स्यात् । अनेन च न्यायेन संभवत्कारकत्ववत एव कारकविशेष35 त्वेन विवक्षाविवक्षा वा क्रियते, न त्वपूर्वं कारकत्वं तत्रो त्पाद्यते, अतश्च षध्या वाच्यस्य सम्बन्धस्य न कारकत्वेन विवक्षेति बहूनामिदं वस्त्रमित्यादौ कारकत्वविवक्षाभावेन | "बह्वल्पार्थात् कारकादिष्टानिष्टे शस्” [७ २ १५० ] इति प्रासू प्रत्ययो न भवति, विवेचितं चैतदन्यत्र ॥ ११ ॥
|
|
।
|
* विवक्षातः कारकाणि ॥ ११ ॥ * 40 त० - नायं न्यायः पाणिनीये तन्त्रे न्यायत्वेन सङ्गृहीतः, किन्तु क्रियते च तदनुकूलो व्यवहारः सर्वत्र, भाष्यकृता च “कार के" भाष्यकारादिव्यवहारबलादयमर्थः स्वतः सिद्ध एवेति प्रतीयते,
[ पा० सू० १.४.२३.] इति सूत्रं व्याचक्षाणेन कारकाणां विवक्षाधीनत्वमिति सूचितम् । पाणिनीयतो हि अपादानादीनां 45 तत्तत्संज्ञाभिः सह कारकसंज्ञापि विधीयत इत्याश्रीयते, तथा च सर्वत्रापादानादिविधायकसूत्रेष्वस्य सूत्रस्य " कारके" इत्यस्याधिकारो भवति, तथा च कारकसंज्ञं सदपादानसंज्ञमित्यर्थो भवति । अत्र च सूत्रे प्रथमार्थे सप्तमी निर्दिष्टा, तथा च संज्ञाधिकारत्वमस्येति सिद्धान्तः, तस्यैव स्फोरणाय प्रसङ्गेन कारकाणां 50 विवक्षाधीनत्वं सूचितम् । तथा हि-कारकशब्दार्थनिर्णयमधिकृत्य शङ्कते - “किमिदं 'कार के' ? [ भाष्यम् ] इति, अयमाशयः - इह सूत्रे विधेयानिर्देशेन 'कारके' इति सप्तम्यन्तपदस्य स्वार्थत्वा संभवादयमधिकार एव स्यात्, तत्र सप्तमीनिर्देशान्न संज्ञाधिकारत्वसंभवः, संज्ञाया भाव्यमानत्वाद् भाव्यमाने च प्रथमा निर्देशस्य 55 न्याय्यत्वात् । अथ विशेषत्वेन कारकपदमधिक्रियत इत्याख्यायते तर्हि कारकसंज्ञारहितस्यापि कारकत्वं प्राप्नोति तादृशस्थले च कर्मादिषधिस्यैव कारकत्वेन ग्रहणं दृश्यते कारकत्वं च क्वचिदहेतुत्वेन नटस्यात्र कारकत्वम्, किन्तु तस्य कारक संज्ञाभावान्न तत्र 60 न्यत्रापि दृश्यते, यथा नटस्य गाथां शृणोतीति, अस्ति क्रिया
कारकत्वव्यवहारः । उक्तशङ्कायां समाधानमाह-“संज्ञा निर्देशः”
इति प्रथमायाः स्थाने सप्तमीं विधाय संज्ञानिर्देश एवायं कृत विना वचनं सप्तम्यन्तस्यास्य 'संज्ञाधिकारत्वं न विज्ञास्यतइति इति भावः । पुनरनुयोगभाष्यम् - " किं वक्तव्यमेतत् ?” इति, वक्तव्यं संज्ञाधिकारोऽयमित्यनुयोगः । समाधानभाष्यम् " नहि, 65 कथमनुच्यमानं गंस्यते ?, इह हि व्याकरणे ये वा एते लोके प्रतीतपदार्थकाः शब्दा स्तैर्निदेशाः क्रियन्ते, या वा एता कृत्रिमाः 'टि' 'घु' 'भा' दिसंज्ञाः, न चायं लोके धुवादीनां प्रतीतपदार्थकः शब्दः, न खत्वपि कृत्रिमसंज्ञाः, अन्यत्राविधानात्, संज्ञाधिकारश्रायम् तत्र किमन्यच्छक्यं विज्ञातुमन्यदतः 70 संज्ञायाः ? इति । अयमाशयः - इह व्याकरणशास्त्रे लोकप्रसिद्धैरपत्यसमूहादिशब्दैर्व्यवहारो दृश्यते कृत्रिमैश्च 'टि' 'घु' 'भ' आदिशब्दैः । कारकशब्दश्च धुवादीनाम् [ अपादानसंज्ञोदेश्यभूतानाम् ] लोके न प्रसिद्धो वाचकः, न वा शास्त्रे कारकमिति कृत्रिमा संज्ञाकृता, अस्ति चात्र संज्ञाधिकारेऽस्य पाठ इति शास्त्रे 75 लोके च प्रसिद्ध्यभावात् भूतविभक्त्यनुपपत्त्या भाव्यमानविभक्तेः प्रथमायाः स्थाने सप्तमीकृतेति मत्वा संज्ञानिर्देश एवायम स्वीकार्यमिति, तत्राक्षेपवार्तिकम् - " कारक इति संज्ञानिर्देशश्चेत् संज्ञिनो निर्देशः” इति, तद्भाष्यम् - 'कारक इति संज्ञानिर्देशश्चेत्