________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः ।
४०३
अपूर्वीयव्रीहिविशेषे नखनिर्भेदाप्राप्तेः, तत्रापि नियमादृष्टानुपपत्तिरिति चेत् ? न- शक्यपरिवर्जनपाक्षिकप्राप्तेरेव नियममूलत्वात् , यथा “ ब्रीहीनवहन्ति " इत्यत्र पक्षे प्राप्तस्य नखनिर्भदादेः शक्येन परिवर्जनेनाभिघातो नियम्यते- ' अवहन्तव्या एव न ननिर्भेतव्याः' इति, नैवमत्र, तत्त्वज्ञानेनैव मिथ्याज्ञानं निवर्तयेन विरोधिगुणरोगादिनेति शक्यं प्रतिज्ञातुं तस्यापुरुषतन्त्रत्वात् । अत एव प्रोक्षि(त)व्रीह्यवधातत्वेनै(ने)व श्रवणजन्यतत्त्वज्ञानत्वेन नियमादृष्टहेतुत्वध्रौव्यमिति निरस्तम्, प्रोक्षणादेः प्रधानाङ्गत्वेन प्रधानापूर्वफलकादृष्टजनकत्वात् तत्र तथोक्तिसम्भवेऽप्यत्र प्रधानस्यैव दृष्टफलस्वेन तथा वक्तुमशक्यत्वात् । किन, अत्र विजातीयतत्त्वज्ञानत्वेनैव दृष्टद्वारा मुक्तिहेतुस्वान्न श्रेयसी अष्टकल्पना, तत्र वैजात्येनैव हेतुत्वे तदवच्छिन्ने प्रोक्षणहेतुत्वोक्तो कृष्णले प्रोक्षणबाधापत्तेः, न चावहन्तव्यप्रोक्षणस्वेनाप्यदृष्टहेतुत्वात् तत्रापि नियमादृष्टं कल्पनीयम् , दृष्टार्थस्यैव नियमादृष्टार्थस्य सिद्धान्तितस्वादित्यस्त्रियं यदा गन्तुमिच्छति तदा भार्यागमनं न प्राप्तम्, यदा भायाँ गन्तुमिच्छति तदा भार्यागमनं प्राप्तमित्येवं पाक्षिकप्राप्तौ भार्यामेवेति नियमः, एवमपि ऋतावेव भार्यामेव कदाचिद् गन्तुमिच्छति तदानीं गमनं प्राप्तम्, यदा च गमनं नेच्छति तदानीं न गमनं प्राप्तमित्येवं पाक्षिकप्राप्तौ उपेयादेवेति नियमः, तथा च ऋतौ भार्यायामगमने प्रत्यवायः, अनुतावपि भार्यायां गमने प्रत्यवायः, ऋतावेव भार्याभिन्नावलायां गमने प्रत्यवाय इति लभ्यते, एवमृतुकाले नियमतो भार्यागमने पुष्यमिति । सामान्यावच्छेदेन पाक्षिकप्राप्तेनियममूलत्वावेदनाय दृष्टान्तमुपदर्शयति- यथेति-नीहीनवन्तीत्यत्र यदा तुषविमोकार्थ नख. निर्मेदादिकं कर्तुमिच्छति तदानीमवधातो न प्राप्तः किन्तु नखनिभेदादिकमेव प्राप्तमित्येवं पक्षे प्राप्तस्य नखनिर्भेदादेः परिवर्जन कर्तुं शक्यत इति शक्येन परिवर्जनेनाभिघातो नियम्यते इत्यर्थः। तन्नियमस्वरूपमुल्लिखति- अवहन्तव्या एवेतितथा च तुषो नखनिर्भेदादितोऽपि भवतीति तत्रान्यथासिद्धस्य नियमितावघातस्य दृष्टमेव बलमित्यर्थः । “नैवमत्र, तत्त्व" इत्यस्य स्थाने नवमत्र तत्त्व" इत्येवमुल्लेखो युक्तः, अत्र तत्वज्ञानेनैव मिथ्याज्ञानं निवर्तयेन विरोधिगुणादिनेत्येवं प्रतिज्ञातुं न शक्यमित्यन्वयः । प्रतिक्षातुमित्यस्य " प्रतिज्ञातुं," इत्युल्लेखो विधेयः । तत्र हेतुमाह- तस्येति- मिथ्याज्ञाननिवर्तनस्य पुरुष प्रयत्नानधीनत्वात् , तत्त्वज्ञानेनापि तन्निवर्तयितुं शक्यं कारणान्तरेणापीत्यर्थः । अत एवेत्यस्य निरस्तमित्यनेनान्वयः। प्रोक्षितेति- ब्रीहीन प्रोक्षतीत्यपि नियमविधिरेव, प्रोक्षिता एव त्रीहयोऽवघाताय कल्पन्त इत्यप्रोक्षिततीहीणाम. वघातस्य सम्भवेऽपि न तैरवघातितैर्यागोपकार इति तुषविमोकलक्षणं कार्यमकिञ्चित्करं तत्र, किन्तु प्रोक्षितनीयवघातेन नियमादृष्टमुत्पद्यते तद्वारा प्रोक्षणं यागाङ्गमतो यथा प्रोक्षितबीयवधातत्वेन नियमादृष्टं प्रति कारणत्वं तथा श्रवणजन्यतत्त्वज्ञानस्वेन नियमादृष्टं प्रति कारणत्वमित्यप्यत्त एव निरस्तमित्यर्थः । अत एवेत्यनेनोक्कमेव निरासहेतुं स्पष्टयति-प्रोक्षणादेरिति । प्रधानाङ्गत्वेन प्रधानीभूतयागाङ्गत्वेन, प्रधानेनाऽपूर्वे जनयितव्ये सहकारितया प्रोक्षणादिकमपेक्षितम् , प्रोक्षणं च क्रियारूपत्वाचिरविनष्टत्वेन न साक्षात्प्रधानापूर्वजनकमतोऽदृष्टद्वारा जनकत्वमिति प्रधानापूर्वफलकादृष्टजनकत्वात् प्रोक्षणस्थले प्रोक्षितनीह्यवघातत्वेन नियमादृष्टहेतुत्वोक्तिसम्भवेऽपि तत्त्वज्ञानस्थले प्रधानस्य तत्त्वज्ञानस्यैवाज्ञाननिवृत्तिलक्षणदृष्टफलकत्वेन श्रवणजन्यतत्वज्ञानत्वेन नियमादृष्टहेतुत्वस्य वक्तुमशक्यत्वादित्यर्थः, तत्त्वज्ञानस्थले नियमादृष्टामावे युक्त्यन्तरमुपदर्शयति- किञ्चति । अत्र तत्त्वज्ञानस्थले । दृष्टद्वारा अज्ञाननिवृत्तिलक्षणदृष्टद्वारा । तत्र अवघातस्थले । वैजात्येनवेति अवघात वैजात्यं कल्पयित्वा कल्पितेन वैजात्येनैवावघातस्य प्रधानसहकारित्वेन प्रधानजन्यापूर्व प्रति हेतुत्वे विजातीयावघातत्वावच्छिन्ने प्रोक्षणस्य हेतुत्वे कृष्णले अवघातस्यैवाभावेन विजातीयावधातस्याप्यमावाद विजातीयावघात. कारणत्वेन विहिततयाऽभिमतस्य प्रोक्षणस्य बाधापत्तरित्यर्थः। ननु व्रीहीन् प्रोक्षतीति विनाऽवहन्तव्यप्रोक्षणत्वेनापि प्रधानात्वं विधीयते. कृष्णलश्चावहन्तव्यो न भवतीति तत्प्रोक्षणस्य प्रोक्षणस्वेन हेतुत्वमिति न कृष्णले प्रोक्षणबाघ इत्याशङ्कय प्रतिक्षिपति- न चेति । अष्टहेतुत्वात प्रधानापूर्वहेतुत्वात् । तत्रापि अवघातस्थलेऽपि । “नियमान कल्पनीयं" इत्यस्य स्थाने " नियमादृष्टं न कल्पनीय" इति पाठो युक्तः । निषेधे हेतुमाह-दृऐति । " दृष्टार्थ. स्यैव " इत्यस्य स्थाने " दृष्टार्थस्येव" इति पाठो युक्तः, अवघातादेस्तुषविमोकलक्षणदृष्टार्थस्येव नियमादृष्टरूपप्रयोजनस्य