________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समनहतो नयोपदेशः।
नयामृत.-धम्यंश इति- धर्मिणः- आत्मनः, अंशे-नास्तित्वभागे, एको बार्हस्पत्यः-चार्वाको नास्तिकः प्रकीर्तितः धर्माणाम् - आत्मनः शरीरपरिमाणत्व-नानात्व-परिणामित्व ध्रुवस्व-सर्वज्ञजातीयस्वादीनाम् , अंशे- नास्तित्वपक्षे, सर्वेऽपि नैयायिक वैशेषिक-वेदान्ति-सानुष पातञ्जल-जैमिनीयादय:परतीर्थिकाः, नास्तिकाः, ज्ञेयाः, यत्र यथा यदस्तित्वं तत्र तथा तदनभ्युपगमस्य स्वरसतो भगवद्वचनाश्रद्धानस्यैव वा नास्तिकपदप्रवृत्तिनिमित्तत्वादिति भावः, चार्वाकादिभिन्नदर्शनस्वीकर्तृत्वमेवास्तिकत्वमिति रूढिस्त्वनुकम्पामात्रम् ॥ १२६ ॥ सम्यक्त्व-मिथ्यात्वस्थानकयोरुक्तमेव प्रकार क्रियावाद-तदितरवादेष्वतिदिशन्नाह
इस्थमेव क्रियावादे, सम्यक्त्वोक्तिर्न दुष्यति ।
मिथ्यात्वोक्तिस्तथाऽज्ञाना-क्रिया-विनयवादिषु ॥ १२७ ।। नयामृत-इस्थमेवेति । इत्थमेव मार्गप्रवेशत्यागाभ्यामेव, क्रियावादे सम्यक्त्वोक्तिः “ सम्महिट्ठी किरियावाद" इत्यादिलक्षणा । अक्रियाऽज्ञानविनयवादिषु च मिथ्यात्वोक्ति:-" सेसा य मिच्छगा वा " इत्यादि, न दुष्यति ० न दोषावहः भवति, फलत इत्थं विभागाभिप्रायस्याविरोधात् , जात्या चान्यत्र सर्वतौल्योक्तरुपपत्तेः ॥ १२७ ।। क्रियावादस्य सम्यक्त्वरूपतामेव युक्त्यन्तरेण द्रढयति
क्रियायां पक्षपातो हि, पुंसां मार्गाभिमुख्यकृत् ।
अन्त्यपुद्गलभावित्वादन्येभ्यस्तस्य मुख्यता ॥ १२८॥ नयामृत-क्रियायामिति । क्रियायां पक्षपातो मोक्षेच्छयाऽऽवेशो हि पुंसां मार्गाभिमुख्य. षद्विशत्युत्तरशततमपद्यमवतारयति- नन्विति । एतेषां नयानाम् । विवृणोति-धर्यश इतीति-धर्मियोंऽशो धम्यश इति समासमवलम्ब्य धर्मिण इत्यस्य विवरणमात्मन इति, अंशे इत्यस्य विवरणं-नास्तित्वमागे इति । बाईस्पत्यः बृहस्पति प्रणीतसूत्रानुसरणशीलः । स क इत्योक्षायामाह-चार्वाक इति- पृथिव्यादिचतुष्टयमेव तत्वम् , शरीरव्यतिरिक्त आत्मा नास्ति, प्रत्यक्षमेवैकं प्रमाणमित्याधुप गन्ता चार्वाकनामा धर्माणामंशो धर्माश इति समासमवलम्ब्य धर्माणामित्यस्य विवरणमात्मनः शरीरपरिमाणत्वानानात्व-परिणामित्व ध्रुवत्व-सर्वजातीयत्वादीनामिति । अंशे इत्यस्य विवरण- नास्तित्वपक्ष इति- आत्मनः शरीरपरिणामित्वादिकं नास्तीति पक्ष इति तदर्थः । सर्वेऽपीयस्य पर्यवसितार्थकथन- नैयायिक चैशेषिक वेदान्ति-साडय पातञ्जल-जैमिनीयादय इति । किं नास्तिकपदप्रवृत्तिनिमित्तं येन तद्धावान्नैयायिकादयो नास्तिकपदव्यपदेश्या इत्यपेक्षायां तद्भावमुपदर्शयति- यत्र यथेति स्पष्टम् । तर्हि नैयायिकादीनां लोकरूबाऽऽस्तिकव्यपदेश्यत्वं कथमित्यपेक्षापामाङ् - चार्वाकादिभिनेति । अनुकम्पामात्रमिति- अनुकम्पैव केवलम् , न तु वस्ततो नैयायिकादय आस्तिका इति ॥ २६ ॥
सप्तविंशत्युत्तरशततमपद्यमवतारयति- सम्यक्त्वेति। उक्तमेव प्रकारं अनन्तराभिहितमेव मार्गप्रवेश-तत्यागलक्षणप्रकारम् । तदितरेति-क्रियेतरेत्यर्थः । विवृणोति- इत्थमेवेतीति । इत्थमेवत्यस्य विवरणं-- मार्गप्रवेश-त्यागाभ्यामेवेति । सम्म० इति- “ सम्यग्दृष्टिः क्रियावादी" इति संस्कृतम् । सेला० इति- "शेषाश्च मिथ्यात्वया वा" इति संस्कृतम् । न दुष्यतीत्यस्य विवरणं- नदोषावहो भवतीति । तत्र हेतुमाह- फलत इति ॥ १२ ॥
अष्टाविंशत्युत्तरशततमपद्यमवतारयति क्रियावादस्येति ! विवृणोति- क्रियायामितीति । पक्षपात इत्यस्य विवरणमोक्षेच्छयाऽऽवेश इति । हि यतः। मार्गाभिमुख्य कदित्यस्य विवरणं-- मार्गानुसारितास्थैर्यधायको भवतीति।