________________
३८२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो मयोपदेशः ।
प्रति नियतहेतुताया अप्रत्यूहत्वात् , पुष्टिशुद्ध्यनु बन्धे च प्रणिधानाधन्विततस्कृक्रियाणामनियतहेतुत्वेऽपि तद्विधीनामारोग्यहेतुधातुसाम्ये तत्तचिकित्साविधीनामिवानुपपत्त्यभावात् । यत् पुनः उच्यते- पूर्व निर्गुणस्य सतः सम्यक्त्वादिप्राप्तौ किं तदनन्तरं नानाविधगुणोपायान्वेषणेति तत् तुच्छम् , पूर्वसेवायां मृदूपायसाध्यायां तादृग्गुणानपेक्षायामपि महाविद्यालाभस्थानीये चारित्रे विशिष्टगुणापेक्षाया आवश्यकत्वात् , अस्तु वा स्वसामग्रीप्रभवानां गुणानामवर्जनीयत्वमेवानन्तरमपेक्षा । किञ्च, सकलशिष्टैकवाक्यतया यम-नियमादौ मुमुक्षोः प्रवृत्तिरेव मोक्षोपायत्वे मानम् , तदुक्तम्-- " विफला विश्ववृत्तिों न दुःखैकफलापि च । दृष्टलाभफलेनापि विप्रलम्भोऽपि नेदृशः ॥ १॥"
[कुसुमाञ्जलिस्तबक० श्लो० ] इत्यादि । न श्रेष्ठतमः । इति एवं स्वरूपमाशङ्कनम् । तेन पुरुषकारस्योक्तदिशा मोक्षवावच्छिन्न प्रति हेतुत्वव्यवस्थापनेन । अपास्तं निरस्तमित्यर्थः । तेनेत्यनेनोपदिष्टमेव निरासकारणं स्पष्टप्रतिपत्तये उपदर्शयति • पनीति-चेतस नाभिव्यङ्ग्याया भावचारित्रत्वलक्षणजातिस्तद्वतः पुरुषकारस्येत्यर्थः, अप्रत्यहत्त्वात् बाधलक्षणविनरहितत्वात् “तत्कृ" इत्यस्य स्थाने “ तत्त" इति पाठो युक्तः । तद्विधीनां पुष्टिशुद्धयनुबन्धार्थ तत्तक्रियाविधायकशास्त्रवचनानाम् , अस्या. नुपपत्यभावादित्यनेनान्वयः । अत्र दृष्टान्तमाह- आरोग्येति- धातूनां कफ-पित्त-वायूनां मध्यादेकस्य द्वयोस्रयाण वा वैषम्ये कफप्रभव पित्तप्रभव- वायुप्रभवरोगाणां कफ-वायुदयप्रभव-कफपित्तोभयप्रभव-पित्तवायूभयप्रभवरोगाणां कफपित्त वायुत्रयप्रभवरोगस्य वा प्रादुर्भावो भवति, निरुक्तधातुत्रयाणां साम्ये तु निरुक्तरोगविनाशलक्षणमारोग्यमुपजायत इति आरोग्यजनक यद् धातुसाम्यं तत्र तदर्थम् , तत्तचिकित्लाविधीनां तत्तचिकित्साविधायकायुर्वेदवचनानाम् , अनुपपस्यभाववत्, पुष्टिशुद्धयनुबन्धार्थमनियतहेतुप्रणिधानाधन्विततत्तरिक्रयाविधायकशास्त्रवचनानामप्यनुपपत्त्यभात्रादित्यर्थः । अन्यदपि परकीयाक्षेपवचनमुपन्यस्य प्रतिक्षिपति- यत् पुनरिति । उच्यते परेणाभिधीयते । पूर्व सम्यक्त्वादिगुणप्राप्तितः प्राक्काले । निर्गणस्य सम्यक्त्वादिविशिष्टगुणरहितस्य, सतः तथावस्थितस्य जीवस्य । सम्यक्त्वादिप्राप्ती सम्यक्त्वादिगुणप्राप्तौ सत्याम्। किं किमर्थम् । तदनन्तरं सम्यक्त्वादिगुणप्रायनन्तरम् । तत् तुच्छ नानाविधगुणोपायान्वेषणकैमर्थ्यप्रतिपादक परवचनं तुच्छ न समीचीनम् । तत्र हेतुमाह-पूर्वसेवायामिति । अथवा नानाविधगुणोपायान्वेषणं न क्रियत एवं किन्तु स्वसामग्रीप्रभवा गुणास्तदानीं भवन्त्येवेत्येतावतैव तदपेक्षा गीयत इत्याह- अस्तु वेति । यमनियमादौ मोक्षोपायत्वे प्रमाणमप्यस्येवेत्याह- किञ्चेति । सकलशिष्टकवाक्यतया सकलशिष्टसम्मततया । उक्ताथै उदयनाचार्यवचनसंवादमाह- तदुक्तमिति : "दृष्टलामफलेनापि" इत्यस्य स्थाने " दृष्टलाभफला नापि" इति पाठः सम्यग् । उक्तपद्यार्थस्पष्टप्रतिपतये तद्वन्थ एवोल्लिख्यते-“अस्तु दृष्टमेव सहकारिचक्र किमपूर्वकल्पनया" इति चेत्, न-विश्ववृत्तितः, “ विफला विश्ववृत्तिों न दुःखैकफलाऽपि वा ! दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः ॥" [ कुसुमाञ्जलिस्तबक- श्लो. ] यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनमू, न परलोकार्थी कश्चिदिष्टापूर्तयोः प्रवर्तेत, नहि निष्फले दुःखैकफले वा कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटते, प्रागेव जगत् ; लाभपूजाख्यात्यर्थमिति चेत् ? लाभादय एव किंनिबन्धनाः नहीयं प्रवृत्तिः स्वरूपत एव तहेतुः, यतो वाऽनेन लब्धव्यं यो वैन पूजयिष्यति स किमर्थम् ?, ख्यात्यर्थ
थे च, जनो दातरि मानयितरि च रज्यते. जनानुरागप्रभवा हि सम्पद इति चेत् ? न-नीतिनर्मसचिवेष्वेव तदर्थ दानादिव्यवस्थापनात् ; विद्यतपस्विनोऽपि धूर्तबका एवेति चेत् ! न- तेषां दृष्टसम्पदं प्रत्यनुपयोगात्; सुखार्थ तथा करोतीति चेत् !, न- नास्तिकैरपि तथाकरणप्रसङ्गात्, सम्भोगवत् ; लोकव्यवहारसिद्धत्वादफलमपि क्रियते वेदव्यवहारसिद्धत्वात् सन्ध्योपासनवदिति चेत् ?, गुरुमतमेतत् , न तु गुरोर्मतम्, ततो नेदमनवसर एव वक्तुमुचितम् ; वृद्धविप्रलब्धत्वाद् बालानामिति चेत् ?, न-वृद्धानामपि प्रवृत्तेः; न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते, तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् ? न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रतारणशङ्का स्यात् ; इदं प्रथम एवं कश्चिदनुष्ठायापि धर्तः पराननुष्ठापयतीति चेत् ? किमसौ सर्वलोकोत्तर एव यः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखविमुखो ब्रह्म