________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
३५१
इत्यादिकमपि स्यात्, न स्याद् अनुकूलतर्काभावादिति चेत् ? तुल्यमुभयत्र । किश्च, यदि बुद्धिनित्या तदा बुद्धिकृतभोगावच्छेदस्य सर्वदाऽऽत्मनः सत्त्वादनिमोक्षापत्तिः, यद्यनित्या तर्हि जन्येतरस्यानित्यत्वायोग्यत्वात् जन्या वाघ्या, तथा च तदुत्पत्तेः प्राक् तदाश्रितस्य धर्मादेरप्यभावे बुद्धितत्त्वस्यानुत्पत्ती नियतशरीरेन्द्रियादेरप्यभावेऽसंसारः स्यादिति न किश्चिदेतद् ' इत्याहुः ॥ १११॥
___ अत्र वेदान्त-साक्ष्यदर्शनयोः शुद्धा-ऽशुद्धद्रव्यार्थिकप्रकृतिकत्वं यदुक्तं तत्राविशेषदृष्ट्या भेदबीजाभावमाशङ्कते
यद्यप्येतन्मतेऽप्यात्मा, निलेपो निर्गुणो विभुः ।
अध्यासाद् व्यवहारश्च, ब्रह्मवादेऽपि सम्मतः ॥ ११२ ॥ नयामृत-यद्यपीत्यादि । यद्यपि एतन्मतेऽपि- साथमतेऽपि, आत्मा निलेप:- कर्तृत्वादि. लेपरहितः, निर्गुणः- गुणस्पर्शशून्यः, विभुः- व्यापकश्चेति शुद्धात्माभ्युपगमेन उभयत्र शुद्धितौल्यम् , न च भोक्तत्वस्योपचरितस्यात्मन्यभ्युपगमेन साङ्ख्यदर्शने वेदान्तदर्शनापेक्षया अशुद्धत्वम् , यतोऽध्यासाद् व्यवहारो ब्रह्मवादेऽपि सम्मत:- ब्रह्मवादिनोऽपि हि बुद्धिगुणान् ज्ञानादीन् आत्मनि कल्पितानेवाभ्युत्वादिति समाधत्ते- तुल्यमुभयत्रेति । विकल्पजर्जरिता च सायाभिमता बुद्धिरित्याह- किश्चेति । बुद्धनित्यत्वे पुरुषस्यानिर्मोक्षापत्तिमुपदर्थ तस्या अनित्यत्वं दूषयति- यद्यनित्येति बुद्धिरित्यनुवर्तते । जन्या वाच्येति- बुद्धिर्जन्या भावत्वे सत्यनित्यत्वाद् घटवदित्यनुमानमत्र बोध्यम् । भवतु जन्यत्वं बुद्धेः का नो हानिरित्यत आह-तथा चेति- बुद्धर्जन्यत्वे चेत्यर्थः । तदुत्पत्तेः प्राक् बुद्धयुत्पत्तः प्राकाले । तदाश्रितस्य बुद्धधाधितस्य । धमादरभाव इति-नहि धो धर्मिणमन्तरेणावतिष्ठन्ते इति बुद्धिरूपधर्म्यभावकाले बुद्धयाश्रितानां धर्माधर्मादिधर्माणामभावो न्यायप्राप्त एवेति । बुद्धितत्वस्यानत्पत्ताविति-धर्माधर्मादीनां बुद्ध्युत्पत्ति प्रति कारणत्वमवश्यमुपेयम्, अन्यथा मुक्तात्मानमधिकृत्यापि बुद्ध यत्पत्तिः स्यात्, तथा च मुक्तस्यापि पुनः संसार: स्यात् , एवं च बुद्ध्युत्पत्तितः प्राक् तत्कारणस्य धर्मादेरभावे बुद्धितत्त्वस्या. नुत्पत्तावित्यर्थः। नियतशरीरेन्द्रियादेरप्यभाव इति-- ऊध गच्छन्ति सरवस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥१॥"[
इति सात्त्विकयुद्धिसम्बन्धादूर्वलोके देवादिशरीराद्युत्पत्तिः, राजसबुद्धिसम्बन्धान्मध्यलोके मनुष्यादिशरीराद्युत्पत्तिः, तामसबुद्धिसम्बन्धादधोलोके नारकीयशरीराद्युत्पत्तिरित्येवं योनिनियतशरीरेन्द्रियादिकस्यापि बुद्धितत्त्वानुत्पत्तौ बुद्धिरूप. कारणाभावादभाव इत्यर्थः । असंसार: स्यात् वुद्धितत्त्वसम्बन्धप्रयुक्तनियतशरीरेन्द्रियादिअन्येष्टानिष्टभोत्कृत्वलक्षणबन्ध एव संसारः, स कारणाभावान्न स्यात् । साङ्ख्यमतखण्डनमुपसंहरति- इतीति । न किश्चित किश्चित् तत्त्वनिरूपणसमर्थ न । एतत् सात थमतम् ॥ १११।।
द्वादशोत्तरशततमपद्यमवतारयति- अत्रेति । वेदान्तेति- शुद्धद्रव्यार्थिकसङ्ग्रहनयप्रकृतिकत्वं वेदान्तदर्शनस्य अशुद्धद्रव्यार्थिकन्यवहारनय प्रकृतिकत्वं साक्ष्यदर्शनस्यास्मिन् ग्रन्थे यत् प्रागुपदर्शितं तत्र वेदान्त साथदर्शनयोरविशेषदृष्टया विशेषो नास्तीति बुद्धथा भेदबीजाभावं वेदान्तदर्शन शुद्धद्रव्यार्थिकप्रकृतिक साङ्ख्यदर्शममशुद्धद्रव्यार्थिमित्येवं भेदस्य कारणाभावमाशङ्कते इत्यर्थः, विवृणोति- यद्यपीत्यादीति- तथाप्युपनिषदद्दष्टीत्यादिपञ्चदशोत्तरशततमपद्यस्य तथापीत्यपेक्षो यद्यपीति । एतन्मतेऽपीत्यस्य विवरण- सायमतेऽपीति । निर्लेप इत्यस्य- कर्तृत्वादिलेपरहित इति विवरणम् , एवमप्रेऽपि । इति शुद्धात्माभ्युपगमेन एवं प्रकारेण शुद्धात्मनः साङ्खयमतेऽप्यभ्युपगमेन । उभयत्र वेदान्त-साङयदर्शनयोः शुद्धितौल्यं समानैव शुद्धिः। सायदर्शनेऽशुद्धत्वमाशङ्कय प्रतिक्षिपति- न चेति । निषेधहेतूपदर्शनमुत्तरार्द्धमित्याह- यत इति । ब्रह्मवादे वेदान्तदर्शनेऽध्यासाद् व्यवहारमेवोपपादयति- ब्रह्मवादिनोऽपीति