________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
-
-
तच्छ्रवणस्यार्थवादताया आवश्यकत्वात् , फलवत्ता तु तासां सत्त्वशुद्धिद्वारा श्रवणाधिकारोपयोगात् , प्रमातृभेदाङ्गीकारात् तत्तत्फलभोगोत्तरमिममिति विशेषणादेतत्कल्पावच्छेदेन मानवभवानावृत्त्या वा भविष्यति, तदेवं व्यवस्थितमेकानेकवा दिनां जीवस्वरूपम् । तत्रान्तःकरणमध्यस्यतेऽहमिति रजवामिव सर्पः केवलस्य तस्य साक्षिभास्यत्वात् , तत्तकार्याकारपरिणतस्यैव साक्षिणा भानमित्यहमाकारेण परिणतस्य तस्याभ्यासोऽयमहङ्काराध्यास इति गीयते । अयं च न सोपाधिक उपाधेरभावात्, अहमज्ञ इति स्वहङ्काराज्ञानयोरेकचैतन्याध्यासाद् दग्धृत्वायसोरेकवतिसम्बन्धादयो दहतीतिवत् । तच्चान्तःकरणं स्मृति-प्रमाण-वृत्तिसङ्कल्पविकल्पा-ऽहंवृत्याकारेण परिणतं चित्त-बुद्धि-मनो-अहङ्कारशब्दैमुक्तिरेव सर्वजोवमुक्तिरित्येवमक्रयेणैव मुक्त्यङ्गीकारे इत्यर्थः । एकस्यैव फलवत्वेऽपीति- येनोपासनेनैकजीवमुक्तिलक्षणसर्वजीवमुक्तिस्तस्यैवोपासनस्य मुक्तिरूपप्रयोजनवरवेऽपीत्यर्थः । इतरेषु मुक्तिफलकोपासनव्यतिरिक्तोपासनेषु । तच्छवणस्य मुक्तिरूपफलवत्त्वश्रवणस्य । यदि चान्योपासनवचनानामर्थवादमात्ररूपत्वेन न फलवत्त्वं तर्हि निष्प्रयोजनानां तेषामाचरणं प्रेक्षावद्भिरकर्तव्यपद्धतिमापद्यत इत्यत आह- फलवत्ता विति, तालाम् अन्योपासनानाम्, अन्योपासनाभिरन्तःकरण. शुद्या तदनुष्ठाता मुमुक्षुः पुरुषः श्रवणाद्यधिकारी भवति, ततश्च स मुक्तो भवतीत्येवमन्योपासनानां सत्त्वशुद्धिद्वारा श्रवणाधिकारोपयोगात् फलवत्तेत्यर्थः । ननु जीवस्यैकत्वे तत्तदुपासनानन्तरमपि भवे पुनरावर्तनमस्त्येव, एकस्य जीवस्य जीवसमष्टयभिमानिनो मुक्तौ सत्यामशेषजीवानां पुनर्भवानवतारो नान्यथेति तत्तदुपासनानन्तरं भवानावृत्तिश्रवणं कथं सजतमित्यत आह--प्रमातृभेदाङ्गीकारादिति- जोवस्यैकत्वेऽपि तत्तदन्तःकरणस्याज्ञानजस्यानन्तशक्त्याकलिताज्ञानशक्तिभेदात तत्तवृत्त्यवच्छिन्नचैतन्यलक्षणप्रमातुर्भेदस्य स्वीकाराद् विभिन्नस्य तत्तदुपासनकर्तुः प्रमातुस्तत्तत्फलोपभोगोत्तरं पुनरनावृत्त्या भवानावृत्तिश्रवणं सुसजतमित्यर्थः। वा अथवा । तत्तदुपासनाफलप्रतिपादिका श्रुतिः “इमं मानवमावर्त नावर्तते" [छान्दोग्योपनिषद्, ४. १५. ६.] इत्येवंरूपा, तत्र मानवमावर्तमित्यस्य इममिति विशेषणात् इममिति विशेषणोपादानात् एतत्कल्पावच्छेदन यस्मिन् कल्पे यस्य हिरण्यगर्भाधुपासनं तत्कल्पावच्छेदेन तस्य मानवभवानावृत्त्या भवानावृत्तिश्रवणमुपपन्नं भविष्यतीत्यर्थः, ब्रह्मणो दिवसस्य यावान् समयः स एककल्पतयोच्यते, ब्रह्मदिनं क्रमिकोत्पन्नचतुदेशमन्ववस्थानसमयो भवति, एकैकस्य मनोर्दिव्यैकसप्ततियुगावस्थानम्, “मन्वन्तरं तु दिव्यानामेकसप्ततिः"
] इति वचनात्, कृतयुगादियतुष्टयं दिव्ययुगमेकमुच्यते, दिव्यं युगसहस्रं तु ब्रह्मणो दिनमिति वचनाच दिव्ययुगसहनप्रमाणं ब्रह्मणो दिनं तत्प्रमाण कश्चैककल्पस्तदवच्छेदेन तत्कल्पाधिकरणकहिरण्यगर्भायुपासनकर्तृणां भवानावृत्तिः, न पुनः सर्वथा भवानावृत्तिरिति भावः। उपसंहरति-तदेवमिति । तत्र निरुक्तस्वरूपे जीवे । अन्तःकरणमितिअहमित्येवरूपेणान्तःकरणमध्यस्यते इत्यर्थः । उताध्यासे निदर्शनमाह-रज्ज्वामिवेति- रज्ज्वां यथा सर्पोऽयमित्येवं साध्यासस्तथेत्यर्थः । अहमाकारणान्तःकरणस्य जीवे किमर्थमध्यास इष्यत इत्यपेक्षायामाह- केवलस्येति- अहमाद्याका. रेणापरिणतस्येत्यर्थः । तस्य अन्तःकरणस्य । “साक्षिमास्यत्वात्" इत्यस्य स्थाने “ साक्ष्यभास्यत्वात्" इति पाठो युक्तः 1 'अहं सुखी, अहं दुःखी, अहं यते' इत्येवमन्तःकरणं प्रतीयते न तु केवलमिति केवलस्य तस्य साक्षिणाप्य. भानादहमित्येवंरूपेण जोवे तस्याध्यासस्तद्भानान्यथानुपपत्त्या कल्प्यते इत्यर्थः । अमुमेवार्थ स्पष्टयितुमाह- तत्तत्काउँतितत्तत्कार्याकारपरिणतस्यवेत्यनन्तरं तस्येति दृश्यम् , एवकारेण तत्तकार्याकारणापरिणतस्य तस्य व्यवच्छेदः, तस्येत्यस्यान्तःकरणस्येत्यर्थः । जीवेऽहमित्या कारेण योऽन्तःकरणस्याध्यासलक्षणोऽहङ्कारः स उपाधेरभावान सोपाधिक: किन्तु निरुपाधिक एवायमित्याह-अयं चेति। अन्तःकरणस्य जीवेऽहमित्याकारणाध्यासतोऽहङ्कारस्वरूपनिष्पत्तिस्तस्याङ्कारस्याज्ञानस्य चैकचैतन्ये. ऽध्यासादहमज्ञ इति प्रतीतिरुपपद्यत इत्याह- अहमज्ञ इति विति। उभयोरेकस्य सम्बन्धात् कार्यान्तरं भवतीत्यत्र दृष्टान्तमाहदग्धृत्वेति । एकस्यैवान्तःकरणस्य चित्तबुद्धिमनोऽहङ्कारशब्देन व्यवाहियमाणत्वं कार्यभेदादुपदर्शयति- तच्चान्तःकरणमिति । स्मृतीति-स्मृत्याख्यवृत्तिरूपेण परिण मन्तःकरणं चित्तमिति व्यवाहियते, प्रत्यक्षानुमानादिप्रमाणवृत्तिरूपेण परिणतमन्तःकरणं बुद्धिरित्यभिधीयते, सङ्कल्पविकल्पादिवृत्तिरूपण परिणतमन्तःकरणं मन इति गीयते, अहमाकारवृत्तिरूपेण परिणतमन्तःकरणमहङ्कार इत्येवं व्यपदिश्यते, अन्तःकरणस्य निरुक्तचतुथ्यरूपत्वं संवदतीदं वचनमू- मनो बुद्धिरद्दङ्कारश्चित्तं करणमिष्यते