________________
नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः ।
""
सम्भवतीति, स्थाणुर्वा पुरुषो वा राक्षसो वेत्यादिविकल्पानां वस्तुनि प्रवृत्तिदर्शनात् । अतात्त्विकी सा कल्पना पुरुषबुद्धिमात्रप्रभवा, इयं तु शास्त्रीया जीवेश्वरविभागादिव्यवस्थेति कथं तत्र विकल्पस्पर्श इति चेत् ? नूनमतिमेधावी भवान् येनेत्थं वदसि, अद्वितीयात्मतत्त्वं हि प्रधानं फलवत्त्वादज्ञातत्वाच्च प्रमेयम्, शास्त्रस्य जीवेश्वरविभागादिकल्पनास्तु पुरुषबुद्धिप्रभवा अपि शास्त्रेणानूद्यन्ते तत्त्वज्ञानोपयोगित्वात् " फलवत्सन्निधावफलं तदङ्गम् " [ ] इति न्यायात् भूमसिद्धस्यापि श्रुत्यानुवादनभावात् । एतेन द्वैतसमानाश्रयविषयत्वनियमाज्जडैव प्रामाण्यप्रयोजनाभावेनाज्ञानानङ्गीकारात्, तदवनन्वेकस्वरूपे पुरुषे स्थाणौ वा येयं स्थाणुर्वाऽयं पुरुषो वाऽयं राक्षसो वाऽयमित्यादिकल्पना सा न वस्तुनिबन्धना किन्तु पुरुषबुद्धिमात्र प्रभवेत्यनेकधा सम्भवति, जीवेश्वर विभागव्यवस्था तु शास्त्रीया वस्तुतत्त्वनिबन्धनैवेति वस्तुन एकस्वरूपत्वा देकस्वरूपैव सा भवितुमर्हति, न नानकस्वरूपा यतो वस्तुनि न विकल्पस्पर्श इत्याशङ्कते - अतात्विकी सेति । अतास्विकी अपारमार्थिकी । सा स्थाणुर्वा पुरुषो वेत्याकारा । इयं विलस्य जीवेश्वरविभागव्यवस्थेत्यनेनान्वयः । तत्र शास्त्री. यायां जीवेश्वरविभागादिव्यवस्थायाम् । समाधत्ते - नूनमिति - निश्चितमित्यर्थः । " धीर्धारणावती मेघा " इति वचना दति मेघावीत्यस्यात्यन्तधारणाशालिबुद्धिमानित्यर्थः, उपहासवचनं चेदम्, यतो जीवेश्वरविभागादिकल्पनाः पुरुषबुद्धिप्रभवा एव, तासामनुवादमात्रं शास्त्रेण न च तत्र शास्त्रस्य प्रामाण्यम्, अन्याज्ञात एवार्थे शास्त्रस्य प्रामाण्याभ्युपगमादित्यशास्त्रीया. स्वपि जीवेश्वरविभागादिकल्पनासु शास्त्रीयत्वमवधारयतो भवतोऽतिमेधावित्वं नास्त्येवेति । येन अतिमेधावित्वेन, अर्थाद् अतिमूढत्वेन । इत्थम् अतारिवकी सेत्यादिस्वरूपम् । शास्त्रीयं तत्त्वमद्वितीयात्मतत्त्वम्, जीवेश्वर विभागादिकल्पना न शास्त्रीया: किन्तु पुरुषबुद्धिप्रभवा इत्येतत् स्पष्टयति-अद्वितीयेति । " प्रमेयम्, शास्त्रस्य " इत्यस्य स्थाने " प्रमेयं शास्त्रस्य । इति पाठो युक्तः, हि यतः फलवत्त्वादज्ञातत्वाच प्रधानं सदद्वितीयात्मतत्त्वं शास्त्रस्य प्रमेयमिति तदेव शास्त्रीयमित्यर्थः । पुरुषबुद्धिमात्र प्रभवाणामपि जीवेश्वरविभागादिकल्पनानां तत्त्वज्ञानोपयोगित्वाच्छास्त्रेणानुवादः " असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते” [ ] इति वचनादित्याह - जीवेश्वर विभागादिकल्पनास्त्विति । तत्त्वज्ञानोपयोगित्वेन प्रमाणान्तरसिद्धानामपि तासां शास्त्रेणानुवदनं न्याय्यमित्यावेदयति- फलवदिति यथा दर्श- पौर्णमासाभ्यां स्वर्गकामो यजेतेति विधिः स्वर्गफलकदर्शपौर्णमासयागप्रतिपादकत्वात् फलवान्, तत्प्रकरणपठितः समिधो यजतीत्यादिविधिः समिधा यागादिप्रयाजपञ्चकाफलवत्प्रतिपादकत्वादफल: सन् दर्शपौर्णमासादियागविध्यङ्गं भवति-समिद्यागादिभिरुपकृत्य दर्शपौर्णमासाभ्यां स्वर्ग भावयेदिति, तथा प्रकृतेऽपि अद्वितीयात्मतत्त्वज्ञानान्मोक्ष इति मोक्षरूपपरमपुरुषार्थ साधन ज्ञानविषयत्वादद्वितीयात्मतत्त्वं फलवत् तत्प्रतिपादकवचनमपि तथा तत्सन्निधौ श्रूयमाणं प्रमाणान्तरसिद्धमपि जीवेश्वरविभागादिकमफलं सत् तदङ्गमिति प्रमाणान्तरसिद्धानामपि तासां शास्त्रेणानुवदनं युक्तमिति मुकुलितोऽर्थः । भूमसिद्धस्यापीत्यस्यानेकप्रमाणसिद्धस्यापीत्यर्थः । एतेनेत्यस्यायमेव परिहार इत्यनन्तरं ज्ञातव्य इति पूरितेनान्वयः । 'द्वैतसमानाश्रयविषयत्वनियमाज्जडेव प्रामाण्यप्रयोजनाभावेनाज्ञानानङ्गीकारात् " इत्यस्य स्थाने " अद्वैतस्य चैतन्यस्य अज्ञानाश्रयविषयत्वनियमात्; जडे व प्रमाणप्रयोजनाभावेनाज्ञानानङ्गीकारात् " इति पाठो युक्तः, अद्वैतस्य- अद्वैतस्वरूपस्य चैतन्यस्य शुद्धब्रह्मणः, अज्ञानाश्रय विषयत्वनियमात् - अद्वितीय चैतन्यमेवाज्ञानस्याश्रयोऽज्ञानस्य विषयश्चेत्येवं नियमात्, " आश्रयत्व- विषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमी नाश्रयो भवति नापि गोचरः ॥ १ ॥ [१.३१९ ] इति संक्षेपशारीरकवचनात्, जडे च- चैतन्यभिन्ने पुनः, प्रमाणप्रयोजनाभावेनेति - चैतन्यस्य स्वयं प्रकाशस्वरूपत्वात् तत्राज्ञानरूपावरणाभावे तत्प्रकाशः सर्वदैव स्यात् यथा दीपस्य प्रकाशस्वरूपस्य शरावाद्यावरणाभावे प्रकाश इति चैतन्ये आवरणरूपाज्ञानकल्पने प्रमाणं विद्यते, जडस्य तु स्वयं प्रकाशरूपत्वाभावात् प्रकाशस्वरूप निराकृतचैतन्यतादात्म्याभ्यासादेव प्रकाशो नान्यथेति तत्रावरणकल्पने प्रमाणं न विद्यते न वा किमपि प्रयोजनम्, चैतन्ये तु सत्यावरणे न प्रकाशः, तदपगमे तु प्रकाश इत्येवं प्रयोजनं विद्यते, तथा यावदज्ञानसम्बन्धस्तावद् वन्धः, सर्वथा तदपगमे मोक्ष इत्येवमपि प्रयोजनं विद्यते, एवं च जडे प्रमाण- प्रयोजनयोरभावे नाज्ञानस्यानभ्युपगमादित्यर्थः । नन्वेवं जडेऽज्ञानाभात्रे शुक्तयज्ञानं रज्ज्वज्ञानमित्येवं शुक्तिरज्ज्वादावज्ञानव्यवहारो न स्यादित्यत आह-तदवच्छिन्नेति शुत्यायवच्छिन्नेत्यर्थः, तत्र शुक्त्यादौ, तथा च शुक्त्य
३१४