________________
३१२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलातो नयोपदेशः। देहभेदाज्जीवभेदभ्रान्तिः । एकस्यैव स्वकल्पितगुरु-शास्त्राथुपबृंहितश्रवण मननादिदाादात्मसाक्षात्कारे winninraamwwimminarane.ke५.१.१०.१.१.. योगादिहेतुत्रयजन्यस्वरूपाध्यासतटस्थलक्षणस्य सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास इत्यस्य स्वरूपलक्षणस्य चायोग इति चेत् । न-प्रतिकर्मव्यवस्थायाः संयोगादिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य च मन्दाधिकारिविषयत्वात् , सत्यस्य वस्तुनो मिथ्यावस्तुसंमेदावभास इति स्वरूपलक्षणं तु दृष्टिसष्टिपक्षेऽप्यविरुद्धम् , नहोदमंशावच्छिन्नवैतन्यं न वस्तु, नवा मिथ्यारूपस्य तेन सह न संभेदावभासः । न च इदं रूप्यमिति ज्ञानकाले शुक्तित्वादेरमावेनाध्यासस्य तदज्ञानकार्यत्वादिप्रक्रियाविरोध इति वाच्यम्, इदं रूपचमिति ज्ञानकाले शुक्तित्वस्याभावेऽपि तदज्ञानस्थित्यविरोधात्, न हि सत्ताकाले इव सत्ताविरहकालेऽप्यज्ञानं विरुद्धयते। न च 'इदं रूप्यं, नेदं रूप्यम्' इति ज्ञानयोर्भिन्नविषयत्वेन बाध्यबाधकभावानुपपत्तिरिति वाच्यम् , भिन्नविषयत्वेऽपि विषययोः सारूप्यात् स्वप्नबाध्यबाधकयोरिव बाध्यबाधकभावोपपत्तेः । न च रूप्यादिबाधस्यापि दृष्टि. सृष्टित्वे तेन रूप्यादेमिथ्यात्वासिद्धिरिति वाच्यम् , बाध्यान्यूनसत्ताकत्वमेव बाधकत्वे प्रयोजकम् , न स्वधिकसत्ताकत्वमित्यस्योपपादितत्वेन व्यावहारिकेण व्यावहारिकबाधवत् प्रातिभासिकेन प्रातिभासिकबाधाविरोधात् । न च सुषुप्ति-प्रलयादौ जीव-ब्रह्मविभागस्याप्रतीतत्वेनाविद्यमानतया प्रतिसुषुप्ति प्रतिप्रलयं च मुक्तस्य पुनरावृत्त्यापत्तिरिति वाच्यम् , जीव ब्रह्मविभागादेरनादित्वेन दृष्टिसृष्टित्वानभ्युपगमस्योक्तत्वात् । न च सुषुप्तं प्रति संस्कारादेरप्यभावेन तस्य पुनः प्रबोधायोगः, कारणात्मना संस्कारादेः सत्त्वात् । न च मोक्षस्य गन्यत्वेन स्वाप्रमोक्षवदृष्टिसृष्ट्यापत्तिः, मोक्षस्य ब्रह्मस्वरूपत्वेन हरिभन्नत्वासिद्धेः । न च चैतन्य मात्ररूपा दृष्टिन सृष्टिः, किन्तु वृत्तिविशिष्टचैतन्यरूपा वा वृत्तिरूपा वा दृष्टिः सृष्टिरिति वाच्यम् , तथा च तस्या अपि दृष्यन्तरं सृष्टिरित्यनवस्थेति वाच्यम्, चैतन्यमात्रस्य दृष्टित्वे यद्यपि तत्समानसत्ताकतया घटादेः सदातनत्वापत्तिः, तथापि वृत्त्युपहितचैतन्यमेव दृष्टिशब्दार्थः, वृत्तावपि वृत्तिरेव स्वस्वरूपा चैतन्योपाधिरिति नानवस्था। अत एव दोषाज्ञानादृष्टदेहेन्द्रियादीनामभावेन भ्रम इति तेषामपि दृष्टिसृष्टित्वेऽनवस्थेति निरस्तम्, स्वाप्नभ्रमवद्देहेन्द्रियादिनरपेक्ष्येणाप्युपपत्तेः, अन्वयव्यतिरेकानुविधानं च तद्वदेव । न च दृष्टिसृष्टेरपि दृष्टिसृष्टित्वेन घटादेरदृष्टिसृष्टित्वापत्तिरिति वाच्यम् , ज्ञानस्य ज्ञेयत्वेऽपि विषयस्याज्ञेयत्वाभाववद् दृष्टिसष्टेष्टिसृष्टित्वेऽपि घटादेदृष्टिसृष्टित्वोपपत्तेः । ननु ऐक्यप्रत्यभिज्ञाविरोधः, पूर्वकालातीतस्येदानीमा भावात्, न चैषा भ्रान्तिः, दीपादौ परिणाम( माण )भेदस्येवेह वाचकत्वाभावात् , तदभावेऽपि भ्रान्तित्वे घटादेरप्येकस्मिन् क्षणे भेदस्यात्मनोऽपि प्रतिक्षणं भेदस्य प्रसङ्ग इति चेत् ! न-"नेह नाना." [
] इत्यादिश्रुतिभिः प्रपञ्चस्य मिथ्यालेऽवधृत रज्जुसादिवत् प्रतिभासमात्रशरीरत्वमेव प्रतिभासकरवातिरिककालसत्त्वे बाधकम् , अतो भिन्नकालीनानामात्मभिन्नानां प्रत्यभिज्ञाभ्रान्तिः, आत्मन्येकप्रतीतिरेककालावच्छेदेन घटादौ चैक्यप्रत्यभिज्ञा न भ्रान्तिः, एककालावच्छिन्नघटादावात्मनि चाभेदे बाधकाभावात् , पुरुषान्तरप्रतीतेन सदैककालावच्छेदेनापि घटादौ प्रत्यभिज्ञानं भ्रम एव, प्रतिभासस्य भेदात् , यथैकस्थामेव रज्ज्वां मन्दान्धकारवर्तिन्यां दशानां युगपत्सर्पभ्रमेण पलायमानानां परस्परसंवादेनक एव सर्पः सवरनुभूयत इति प्रत्यभिज्ञाभ्रमः, अन्यभ्रमसिद्धस्यान्येन ज्ञातुमशक्यत्वात् । ननु अत्र कथमभेदभ्रमः? तत्कारणस्य सादृश्यादेः कस्याप्यभावादिति चेत् ? न- स्वप्नाभेदभ्रमवद् दृष्टि सृष्टिसिद्धसादृश्यादिसम्भवात् । न चैवमभेद एवोत्प. यतामिति वाच्यम्, इष्टापत्तेः, रज्जुसादिवदुत्पन्नस्यैव ग्रहणनियमात् । न च क्वचिदुत्पद्यते क्वचिन्नेत्यत्र नियामकाभावः, मायाया विचित्रशक्तिकत्वाभ्युपगमात् । न च सोऽयं देवदत्त इति दृशन्तेन तत् त्वमस्यादिवाक्ये जहदजहलक्षणयक्य. परत्वोक्त्ययोग इति वाच्यम्, यद्यपि धर्मवद् धर्म्यभेदोऽपि बाधित एवेति जहदजल्लक्षणाऽपि न युज्यते. तथापि यदा धर्माभेदो वाधान गृहीतः किन्तु धर्म्यभेद एवं तदा सोऽयमित्यादौ जहदाहलक्षणासम्भवेन दृष्टान्तत्वोपपत्तिः । न चामेस्थापि दृष्टिसष्टित्वेन तज्ज्ञानस्य बाधकरवायोगः, आत्माभेदस्यात्मरूपत्वेन दृष्टिसृष्टित्वाभावात् , अन्यूनसत्ताकत्वमानेण बाधकत्वोपपत्तेश्च । न च साक्षात्कारस्यापि दृष्टिसृष्टित्वेन प्रमाणजन्यत्वाभावात् तत्त्वज्ञानत्वाभावेन ततो मुक्तिर्न स्यादिति वाच्यम्, अबाधित विषयत्वेनैव तत्त्वज्ञानत्वोपपत्तेः, तस्य च दृष्टिसृष्टित्वेऽप्यक्षतेः । न च "शुधा द्यौर्बुवा पृथिवी ध्रुवाः
इमे ध्रुवं विश्वमिदं जगद्" [ऋ. सं. ८. ८. ३१.] इत्यादिश्रुतिविरोधः, अनित्यतावादिभिरपि ध्रुवेस्खस्यान्यथानयने आवश्यके दृष्टिसृष्टिप्रतिपादकश्रुत्यनुरोधेन आकल्पं संतानाविच्छेदपरत्वस्थव युक्तत्वात् , अन्यथा ध्रुवो राजेत्यादावगतेः, दृष्टिसृष्टौ च "एवमेवास्मादात्मनः सर्वे प्राणाः, सर्वे लोकाः, सर्वे वेदाः, सर्वाणि भूतानि, सर्व एत आत्मानो व्युचरन्ति" [बू. २. १. २०.] इति श्रुतिः । सुप्तोत्थितजीवात् प्राणादिसृष्टिं प्रतिपादयन्ती प्रमाणम् न च सुषुप्तौ प्राणादिपञ्चकस्य सत्त्वात् किमर्थ पुनः सृष्टिरिति वाच्यम् , " न तु तद् द्वितीयमस्ति ततोऽन्यद् विभकं यत् पश्येत्” [बृहदारण्यकोपनिषद्