________________
३१०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
winnarnarraimranAmranrna
झानादिनिवृत्त्या भेदभ्रमनिवृतिप्रसङ्गादिति चेत् ? उच्यते- सोपाधिकभ्रमनिवृत्ताधुपाधिनिवृत्तेः पुष्कलकारणत्वान्न ततो भेदभ्रमनिवृत्तिः । मुखान्तरोत्पत्तिपक्षे तु सोपाधिकत्वमेव नास्ति, उपाधिर्हि उप समीपे स्थित्वा स्वकीयं धर्ममन्यत्रादधातीत्युच्यते, नहि मुखान्तराध्यासे उपाधिरस्ति रजताध्यासवत्, भेदाध्यासे दर्पणस्योपाधित्वं संभवति, अतः सत्यपि प्रत्यभिज्ञाने यावदुपाधि भेदाध्यासानुवृत्तियुक्ता, तस्मान्मुखमधिष्ठानं तत्र भेदोऽध्यस्यते । एवं चाज्ञानादौ प्रतिबिम्बे सत्यपि नाभासान्तरम् , मानाभावात् । सादृश्यापत्तिस्त्वज्ञानाध्यासेन परिच्छिन्नत्वापत्त्याहङ्काराध्यासापेक्षिता भविष्यति, तस्मानाभासवादो ज्यायानिति विवरणाचार्याभिप्रायः ।।
___ अज्ञानोपहितं बिम्बचैतन्यमीश्वरः, अज्ञानप्रतिबिम्बितं चैतन्य जीव इति वा, अज्ञानानुपहितं शुद्धविशेषणम् । समाधत्ते- उच्यते इति । सोपाधिकेति- आदर्शरूपोपाधिसन्निधाने सत्येव मुखे भेदभ्रम इति सोऽयं मुखे भेदभ्रमः सोपाधिकस्तनिवृत्तौ सान्निध्यसम्बन्धेन दर्पणरूपोपाधिनिवृत्तः। पुष्कलकारणत्वाद असाधारणकारणस्वादिति सानिध्यसम्बन्धेन दर्पणाभावादेव मुखे भेदभ्रमनिवृत्तिः, ततोऽभेदावगाहिप्रत्यक्षप्रत्यभिज्ञानतोऽभेदाज्ञाननिवृत्तितो न नैव, भेदभ्रमनिवृत्तिरित्यर्थः। यश्च दर्पणरूपाधिष्ठान एव मुखान्तरोत्पत्तिमभ्युपैति तन्मते दर्पणे मुखान्तरभ्रमस्य सोपाधिकत्वं नास्ति, यो हि सन्निहिते वस्तुनि स्वधर्ममादधाति स उपाधिर्भवति, दर्पणे मुखाध्यासे तु दर्पणधर्मस्य न मुखे आधानम्, यथा शुक्सौ रजताध्यासे न शुक्तिधर्मस्य रजत आधानमिति शुक्तौ रजतभ्रमो न सोपाधिकस्तथा दर्पण मुखान्तरभ्रमोऽपि सोपाधिको न भवेत्, मुखरूपाधिष्ठाने भेदाध्यासे तु दर्पणस्य मुखभिन्नत्वाद् भेदो दर्पणधर्मस्तस्य सन्निहिते मुखेऽध्यास इति मुखे मेदभ्रमः सोपाधिक इति तन्निवृत्तिः सान्निध्यसम्बन्धेन दर्पणनिवृत्तित एवेति यावद् दर्पणरूपोपाधिसान्निध्य तावन्मुखे भेदभ्रमोऽनुवर्ततेऽभेदावगाहिप्रत्यक्षप्रत्यभिज्ञाने सत्यपीत्युपपादयति-मुखान्तरोत्पत्तिपक्षे त्विति । दर्पणे मुखान्तरभ्रमे सोपाधिकत्वनिषेधे हेतुमुपदर्शयति- उपाघिीति । उपाधिरित्यस्य उच्यते इत्यनेन सम्बन्धः। उपाधिपदे उपशब्द आधिशब्दश्च वर्तते, तदर्थयोरावेदनपुरस्सर तद्वयुत्पत्तिमुपदर्शयति- उप समीप इतियो हन्यपदार्थस्य समीपे स्थित्वाऽन्यपदार्थ स्वकीयं धर्ममादधाति स उपाधिरिति गीयते, यथा जपाकुसुमं स्फटिकस्य समीपे स्थित्वा स्वकीयं रक्तस्वधर्म स्फटिके आदधातीति जपाकुसुममुपाधिः, तत्सन्निधानात् स्फटिके रकत्वभ्रमः सोपाधिक इति । शुक्तौ रजताध्यासे यथा कोऽप्युपाधिनास्तीति शुक्तौ रजतभ्रमो न सोपाधिकस्तथा दर्पणे मुखान्तराध्यासे कोऽप्यु. पाधिर्नास्तीति दर्पणे मुखान्तरभ्रमोपगमे तस्य सोपाधिकत्वं न स्यादित्यर्थः । भेदाध्यास इति- मुखेऽधिष्ठाने भेदस्याध्यास इत्यर्थः । दर्पणस्योपाधित्वं सम्भवति दर्पणं मुखस्य समीप स्थित्वा स्वकीयं धर्म भेदरूपं मुखे आदधातीत्येवमुपाधिपदव्युत्पत्तिनिमित्त दर्पणेऽस्तीति । अतः दर्पणे उपाधित्वस्य सम्भवतः । सत्यपि प्रत्यभिक्षाने प्रीवास्थमेवेदं मखमित्यभेदावगादिप्रत्यक्षप्रत्यभिज्ञाने सत्यपि । यावदुपाधि दर्पणरूपोपाधिसन्निधानं यावत् । अध्यासानु मुखे भेदाध्यासस्यानुवर्तन युज्यते, सोपाधिकभ्रमनिवृत्तिकारणस्योपाधिनिवृत्तेरभावेन भ्रमनिवृत्तरभावादित्यर्थः । उपसंहरतितस्मादिति । तत्र मुखे। प्रकृतं विवरणाचार्यमतमधिकरोति- एवं चेति- दर्पणे मुखान्तरोत्पत्तिप्रतिक्षेपे व्यवस्थिते चैत्यर्थः । अज्ञानादौ अनादिभूताज्ञानादौ । प्रतिबिम्बे सत्यपि चैतन्यप्रतिविम्बे सत्यपि । नाभासान्तरम् अदाने चैतन्याभासान्तरं नैव । तत्र हेतुः- मानाभावादिति । चैतन्ये जडत्वेनाहङ्कारसादृश्यापन्नेऽहङ्काराध्यासः सम्भवति मान्यथेत्येतदर्थमनादिभूतासाने चैतन्याभासः, तत्तादात्म्यापत्त्या चैतन्यस्य जडवेन सादृश्यं यदिष्टं तचैतन्य एवाशानाध्यासेनाज्ञानतादात्म्यापत्त्या परिच्छिनत्वेन सम्भवतीत्याह-सादृश्यापत्तिस्त्विति-अस्य भविष्यतीत्यनेनान्वयः । अज्ञानाध्यासेन चैतन्येऽज्ञानाध्यासन। परिच्छिन्नत्वापत्त्या अज्ञानामासस्य परिच्छिन्नत्वेन तत्तादात्म्याच्चैतन्यस्यापि परिच्छिन्नत्वापत्तिस्तया। उपसंहरति-तस्मादिति ।
विवरणाचार्यसिद्धान्तमुपदनिकेषु वेदान्तिसिद्धान्तेषु प्रधानं दृष्टिसृष्टिवादसिद्धान्तमुपदर्शयितुं तदभिप्रेतं जीवेश्वरविभागमुपदर्शयति- अज्ञानोपहितमिति- उपाधेः प्रतिबिम्बपक्षपातित्वादुपाधिकार्य प्रतिबिम्बे भवति न तु विम्बे इति