________________
नयाभृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नबोपदेशः । स्यापरोक्षत्वापत्तेः, मुखं स्वधिष्ठानपरोक्ष मिन्द्रियसन्निकर्षात् , अत एवादशैं मुखमित्यपरोक्षभ्रमोत्पत्तेनानिर्वचनीयमुखान्तरोत्पत्तिः । न च मुखस्येन्द्रियसन्निकर्षाभावः, कतिपयावयवावच्छेदेन तत्सत्त्वात् , आसत्तेविंशदावभासप्रतिबन्धकस्वेऽपि तत्रादर्श सन्निधानस्योत्तेजकत्वेन दोषाभावात् । आदर्शादिनाऽभिहतचक्षुषो मुखाभिमुखविजातीयसंयोगात् तदपरोक्षत्वमित्यपि कश्चित् । ननु किमित्येवं वर्ण्यते मुखमधिष्ठानमिति ? आदर्श एवाधिष्ठानमस्तु, तत्र च मुखाभावाज्ञानेन मुखोत्पत्तिस्तत्संसर्गोत्पत्तिर्वास्तु, आदर्श मुखमिति प्रतीतेरेवमप्युपपत्तेः, मुखं यद्यपरोक्षं तर्हि तत्संसर्गस्य, यदि च नापरोक्षं तर्हि
इतीदमंशे ज्ञानस्य प्रत्यक्षत्वेऽपि तथेदमः प्रत्यक्षत्वेऽपि च रजतांशे ज्ञानस्य प्रत्यक्षत्वं रजतस्य प्रत्यक्षत्वं च न स्यात् , रजताकारवृत्त्यवच्छिन्नचतन्य-रजतावच्छिन्न चैतन्ययोर्मेदात्, रजतस्य च प्रमातृसत्तातिरिक्तसत्ताकवादित्यर्थः। आदर्श मुखान्तरोत्पादानभ्युपगमेऽपि मुखं त्वधिष्ठानमिन्द्रियसन्निकर्षादपरोक्षमिति तद्वतं कल्पितं भेदमात्रमादर्शस्थत्वं च कल्पितमपरोक्ष. मित्यादशैं मुखमित्यपरोक्षभ्रमोत्पादः सम्भवत्येवेत्याह- मुखं त्विति- " मुखं त्वधिष्ठानपरोक्षं" इत्यस्य स्थाने "मुखं त्वधिष्ठानमपरोक्षं" इति पाठो युक्तः । अत एव इन्द्रियसन्निकर्षान्मुखस्यापरोक्षत्वादेव । मुखस्येन्द्रियासनिकृष्टत्वाशां प्रतिक्षिपति-न चेति । तत्र हेतुमुपदर्शयति-कतिपयेति । तत्सत्वात् इन्द्रियसन्निकर्षसत्त्वात् । नन्दादर्श सन्निधानस्थले स्वमुखस्येन्द्रिय सन्निकृष्टत्वेऽपि विशदप्रत्यक्षं न भवति ततोऽत्यन्तमिन्द्रिय सन्निधानं विशदप्रत्यक्षप्रतिबन्धकमित्यादर्शे सम्मुखस्थेऽप्यत्यन्तासत्तिवास्थमुखे इन्द्रियस्य समस्त्यैवेति न तस्य विशदप्रत्यक्षं किन्वादर्शस्थमुखान्तरस्यैवे. त्यादरों मुखान्तरस्योत्पत्तिरवश्यमभ्युपेयेत्यत आह- आसत्तेरिति- अत्यन्तसन्निकर्षस्येत्यर्थः । अविशदप्रत्यक्ष मुखस्ये. न्द्रियात्यन्तसन्निहितस्यादर्शसन्निधानकालेऽपि भवत्येवेत्यत उक्तम्-विशदेति । तत्र विशदावभासिप्रत्यक्षं प्रति अत्यन्तेन्द्रियासत्तिः प्रतिबन्धिकेत्येवं प्रतिबध्यप्रतिबन्धकभावे । उत्तेजकत्वेनेति- उत्तेजकत्वं प्रतिबन्धकताकारणतान्यतरावच्छेदकीभूताभावप्रतियोगित्वम्, प्रकृते विशदावभासिप्रत्यक्षं प्रति आदर्शसन्निधानाभावविशिष्टेन्द्रियात्यन्तासत्तेः प्रतिबन्धकत्वेन तादृश. प्रतिबन्धकतावच्छेदकीभूताभावप्रतियोगित्वेनादर्शसन्निधानस्योत्तेजकत्वमिति आदर्शसन्निधान काले निरुक्तप्रतिबन्धकस्यासत्त्वेनेन्द्रियात्यन्तसन्निहितस्यापि मुखस्य विशदावमासिप्रत्यक्षसम्भवादित्यर्थः । चक्षुषो मूलावयवसंयोगनिबन्धनसंयोगस्यात्यन्तासत्तिरूपस्य बलेन मुखस्य न प्रत्यक्षं, किन्त्वनावयवसंयोगनिबन्धनसंयोगेनैव, यथाऽप्रदेशस्थितघटादीनां प्रत्यक्षं तथैव मुखस्यापि प्रत्यक्षं, चक्षुरादर्शदेशं गत्वाऽऽदर्शनाभिहतं मुखसम्मुखं भूत्वा स्वागावयवावच्छिन्नं सम्मुखेन संयुज्यते, तादृशविजातीयेन्द्रियसयोगेन मुखस्य प्रत्यक्षमिति कस्यचिन्मतमुपदर्शयति- आदर्शादिनेति । तदपरोक्षत्वं मुखस्यापरोक्षत्वम् , ननु मुखेऽधिष्ठाने भेदस्थादर्शस्थत्वस्य चानिर्वचनीयस्योत्पत्तिः किमिति परिकल्प्यते ? आदर्शस्यवाधिष्ठानत्वमुररीकृत्य तत्र मुखान्तरोत्पत्तिस्तत्कल्पने गौरवे वा मुखस्य संसर्गोत्पत्तिरेवास्तु, ततोऽध्यादर्श मुखमिति प्रतीतिरुपपद्यत एव, तत्र यदि मुखाभावज्ञानं स्यात् तदा मुखोत्पत्तिस्तत्संसर्गोत्पत्तिर्वा न भवेन्न चैवमिति मुखाभावाज्ञानमेव तत्र मुखस्य तत्संसर्गस्य वा कारणमित्याशङ्कते- नन्विति- मुखमधिष्ठानमित्येवं किमिति वर्ण्यत इत्यन्वयः । तत्र च आदर्श च। तत्संसर्गेतिमुखसंसर्गेत्यर्थः। एवमपि आदर्श मुखोत्पत्तेर्मुखसंसर्गोत्पत्ती भावेनापि । मुखोत्पत्तिमुखसंसगत्पत्त्योर्य विकल्पनं तत्र हेतुमुपदर्शयति-मुखमिति- प्रीवास्थमुखमेवादर्श मुखमिति प्रत्यक्षात्मकप्रतीतौ भासते, मुखेन समं मूलावयवावच्छिन्नचक्षुःसंयोगो विद्यते, तस्याप्यादर्शसन्निधानतो मुखप्रत्यक्ष प्रति कारणस्वमित्यन्यथैव मुखप्रत्यक्षस्य विशदस्योपपत्त्या न तदर्थ मुखोत्पत्तिरादर्श आवश्यकीत्याशयेनोक्तम्- मुखं यद्यपरोक्षमिति । अपरोक्षमपि मुखं प्रीवास्थमेव न त्वादर्शस्थ. मतोऽपरोक्षस्यापि मुखस्य संसर्गोत्पत्तिरादर्श आवश्यकी. यदलादादर्शाधिकरणकत्वेन मखस्यादर्श मुखमिति प्रतीतावभासन मित्याशयेनाह- तर्हि तत्संसगस्येति- अस्य स्वीकर्तव्यत्वादिलनेनान्वयः, तथा च मुखस्य प्रत्यक्षत्वेऽपि आदर्श व्यावहारिकस्य मुखसंसर्गस्याभावात् प्रातीतिकमुखसंसर्ग एवं आदर्शऽवभासत इति प्रातीतिकमुखसंसर्गस्योत्पत्तेः प्रत्यक्षखानुरोधेन स्वी कर्तव्यत्वादित्यर्थः । यदि च नापरोक्षमिति- अग्रावयवावच्छिन्नचक्षुःसंयोगस्यैव विशदप्रत्यक्ष प्रति कारणत्वमिति मुखे व्यावहारिके अग्रावच्छिन्न चक्षुस्संयोगस्वाभावात् तदपरोक्षं न भवति यदीत्यर्थः। तहीति- आदर्श