________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
उपचरितविभागाभावेन तत्स्थलीयसङ्ग्रहादेतस्थलीयसङ्ग्रहस्य विशेषात् पाश्चात्योपरितनयोर्विकासकसङ्कोचक विशेषणवव एव मध्यवर्तिनयस्य पाश्चात्यार्थसङ्कोच रूप सङ्ग्रह परत्वनियमाश्चेति दिकू ॥ ९८ ॥ ननु सादृश्यसम्बन्धस्य स्थापनानिक्षेप नियामकत्वे असन्द्रावस्थापनोच्छेदप्रसङ्गः, अभिप्रायसम्बन्धस्यापि तन्नियामकत्वे च नाम्न्यपि तस्य सुवचत्वादतिप्रसङ्गस्तदवस्थ एवेत्याशङ्कायामाह - अतिप्रसङ्गो नैवं चाभिप्रायाऽऽकारयोगतः ।
"
२७७
यत् श्रुतोक्तमनुलङ्घय, स्थापना नाम चान्यतः ॥ ९९ ॥ नयामृत० – अतिप्रसङ्ग इति । एवम् उक्तासङ्करप्रकारेण चातिप्रसङ्गो न भवति, यत् श्रुतो -
1
नैगमात् सप्रहस्य विशेषस्तथा, अत्रापि निक्षेपविषयेऽपि चतुर्निक्षेपस्वीकर्तुः नाम-स्थापना- द्रव्य-भावभेदेन निक्षेपचतुष्टयाभ्युपगन्तुः, ततः नैगमनयात्, तत्रयस्वीकारेणैव नाम द्रव्य भावात्मकनिक्षेप त्रयस्वीकारेणैव विशेषः भेदः । समाधत्ते - मैवमिति । देशवदिति- देश - देशिनोरभेदाद् देशिनः सकाशाद् देशस्य पृथक्तयाऽऽश्रयणमुपचारादेव, उपचारच सम्प्रहनये नेष्ट इति न सङ्ग्रहनये देशस्य प्रदेश इति यथा तथेत्यर्थः । स्थापनाया उपचरितविभागाभावेनेतिदेशिनः सकाशाद् देशस्योपचरितविभाग इति उपचारानभ्युपगन्त्रा सङ्ग्रहेण स नेष्यते, नाम्नः सकाशात् स्थापनाया यो विभागः सोऽनुपचारित इति सङ्ग्रहेण स उपेयत इत्युपचरितविभागाभावेनेत्यर्थः । तत्स्थलीयसङ्ग्रहात् प्रदेशाभ्युपगम स्थलीय सङ्ग्रहात् । एतत्स्थलीयसग्रहस्य निक्षेपाभ्युपगमस्थलीयसङ्ग्रहस्य | " पाश्चात्योपरितनयोः ” इत्यस्य स्थाने " पाश्चात्योपरितननययोः " इति पाठो युक्तः, पाश्चात्यो नयो व्यवहारनयः, उपरितननयो नैगमनयः, तयोः, विकासक सङ्कोचक विशेषणवत्त्वे एव पाश्चात्यनयस्य विकासक विशेषणवत्त्वम्, उपचरितनयस्य सङ्कोचक विशेषणवत्त्वमित्येवं विकासकसङ्कोचक विशेषणवत्त्वे सत्येव, अर्थाद् येन विशेषणेन पाश्चात्यो नयोऽन्योऽन्यविभक्तरूपेणार्थग्राहकः, येन च विशेषणेनोपरितननयोऽविभक्तरूपेणार्थ ग्राहकः, एको नयोऽर्थविकासं विदधाति, अपरो नयोऽर्थसङ्कोचमाधत्ते इति । मध्यवर्तिनयस्य नैगम-व्यवहारमध्यवर्तिनो नयस्य । पाश्चात्येति - पाश्चात्यो यो व्यवहारनयस्तस्य यो विकसितोऽर्थ. स्तस्य सङ्कोचरूपसङ्ग्रहृपरत्वस्य नियमाच्चेत्यर्थः प्रकृते तु नैगमोऽपि निक्षेपचतुष्टयमभ्युपैति व्यवहारोऽपि निक्षेपचतुष्टयं स्वीकरोति, न च तयोर्विकास सङ्कोचकविशेषमवत्त्वमिति न तन्मध्यवर्तिन एतत्स्थलीयसग्रहस्य पाश्चात्यार्थ - सङ्कोचरूपसङ्ग्रहपरत्वमिति नैगम-व्यवहारयोरिव सङ्ग्रहस्यापि प्रकृते निक्षेपचतुष्टयाभ्युपगन्तृत्वमेवेत्यर्थः ॥ ९८ ॥
नवनवतितमपद्यमवतारयति नन्विति । सादृश्यसम्बन्धस्य भावेन सह सादृश्यलक्षणसम्बन्धस्य । असद्भावेतिभावाकारसदृशाकारो न यस्याः स्थापनायाः सा असद्भावस्थापना तस्याम् भावेन सह सादृश्यलक्षणसम्बन्धाभावात् स्थापना निक्षेपत्वं न स्यादित्यर्थः । अभिप्रायसम्बन्धस्यापीत्यपिना सादृश्यसम्बन्धस्य सब्ग्रहः । तन्नियामकत्वे च स्थापना निक्षेप नियामकत्वे । भावोऽयमित्यभिप्रायो यत्र सोऽभिप्रायलक्षणसम्बन्धेन भावसम्बद्ध इति कृत्वा तस्य स्थापनानिक्षेपत्वं यद्यनुमतं तदा नाम्न्यपि कस्यचिद् भावोऽयमित्यभिप्रायः सम्भवत्येवेत्यभिप्रायसम्बन्धेन नाम्नोऽपि भावसम्बद्धत्वात् तस्यापि स्थापनानिक्षेपत्वं प्रसज्यत इत्याह- नाम्न्यपीति । तस्य अभिप्रायसम्बन्धस्य । यो दोषः पूर्वमभिहितस्तस्यैवोत्तरत्र सद्भावे तादवस्थ्योक्तिर्घटते, अत्र तु पूर्वमतिप्रसङ्गदोषो नाभिहित एवेति कथमतिप्रसङ्गस्तदवस्थ इत्युक्तिः सङ्गतेति चेत् ? व्यवहारमुल्लङ्घय यदि यथाकथचित् सामान्यधर्मपुरस्कारेणैकस्यान्यनिक्षेपेऽन्तर्भावः सम्प्रहाभिमतो भवेत् तर्हि अप्राधान्यादिना नामनिक्षेपस्यापि द्रव्यनिक्षेपत्वं स्यादित्यतिप्रसङ्गदोषः पूर्वं प्रसङ्गादभिहितोऽत्राप्यतिप्रसङ्ग एवावेद्यते इत्यतिप्रसङ्गत्वेन समानतामालम्ब्य तादवस्थ्योक्तिरिति बोध्यम् । विवृणोति - अतिप्रसङ्ग इतीति । एवमित्यस्य विवरणम् - उक्तासङ्करप्रकारेणेति - वाचकत्वेन भावसम्बन्धस्य नामत्वं परिणामित्व - सादृश्यादीतरसम्बन्धनिमित्तकलक्षणाविषयत्वं वा नामत्वम्, परिणामित्वसम्बन्धेन भावसम्बद्धस्य द्रव्यत्वम् अभिप्रायविशेषसम्बन्धेन सादृश्यसम्बन्धेन बा भावसम्बद्धस्य स्थापनात्वमित्यसङ्करप्रकारेणेत्यर्थः । कथमतिप्रसङ्गो न भवति ? नाम्नोऽप्यभिप्रायसम्बन्धेन भावसम्बद्धत्वेन