SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ પપ૦ શિલ્ય રત્નાકર [प्रयोशन सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ॥ येषां हृदिस्थो भगवान् मंगलायतनं हरिः ॥११॥ तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ॥ विद्यावलं दैवबलं तदेव लक्ष्मीपते तेऽघ्रियुगं स्मरामि ॥१२॥ अथ संकल्पः । श्रीमद्भगवतो महापुरुषस्य विष्णोराशया प्रवर्तमानस्याद्य ब्रह्मणो द्वितीये परार्द्ध विष्णुपदे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमचरणे भरतवर्षे भरतखण्डे आर्यावर्त्तदेशे जम्बूद्वीपे अमुकनामसंवत्सरे अमुकमासे, अ० पक्षे, अमुकतिथौ, अमुकवासरे, अमुकनक्षत्रे मम सपुत्रस्य सभार्यस्य सहपरिवारस्य सर्वानिष्टप्रशान्तिपूर्वकं आयुरारोग्यवृद्धये गृहाधिष्टितवास्तुपुरुषप्रीतये ब्रह्मादीनां वास्त्वङ्गदेवतानां प्रीत्यर्थ अमुककार्यनिमित्तं श्रीवास्तुदेवतापूजनमहं करिष्ये।। ત્યાર પછી સુવર્ણની વાસ્તુની મૂર્તિને સનાન અર્ચનાદિ કરાવી સર્વ દેવતાની પૂજા આરંભવી. પંચામૃત સ્નાન. पञ्चामृतैः स्नापयिष्ये कामधेनोः समुद्भवैः ॥ पयो ददामि स्नानार्थं देवेश प्रतिगृह्यताम् ॥१३॥ शुद्धो स्नान. गंगासरस्वतीरेवापयोष्णीनर्मदाजलैः ।। लापितोऽसि मया देव तथा शांतिं कुरुष्व मे ॥१४॥ સ્નાન કરાવી નીચેના મંત્ર વડે મૂર્તિને કલશ પાસે પધરાવવી. नानारत्नसमायुक्तं कांचनं रत्नभूषितम् ॥ आसनं देवदेवेश प्रीत्यर्थं प्रतिगृह्यताम् ॥१५॥ નમસ્કાર. नमस्ते देवदेवेश नमस्ते सुरपूजित ।। नमस्ते जगदाधार नमस्ते वास्तुदेवते ॥१६॥
SR No.008441
Book TitleShilpratnakar
Original Sutra AuthorN/A
AuthorNarmadashankar Muljibhai Sompura
PublisherNarmadashankar Muljibhai Sompura
Publication Year
Total Pages824
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy