________________
अपराजितपृच्छा परे वर्षशताइवाः स्थापिताश्च महत्तरैः । सान्निध्यं सर्वकालं तु व्यङ्गितानपि न त्यजेत् ॥ १८॥ पतनाद् व्यङ्गिता देवास्तेषां दुरितमुद्धरेत् । स्नपनोत्सवयात्रासु पुनारूपाणि चाचरेत् ॥ १९॥ नवरेवापि जीणे ी ही या चाऽपि शोभना । परिष्कारेऽपरिष्कारे तत्रदोषो न विद्यते ॥ २० ॥ चतुर्भुजे वा द्विभुजे तस्यान्ते वाहिका क्रमम् । युग्मतालौ पृथगेका वाहिका पृथुमानतः ॥ २१ ॥ तत्तुल्यं च भवेदैर्घ्य वाहिकानां प्रमाणकम् । देवताक्रम तद्रपं? तोरणं छन्दमीदृशम् ।। २२ ॥ वाहिका स्तोरणे ? कुर्याद् यस्य देवस्य ये गणाः । शान्तिदाः सर्वकालेषु सर्वविधनप्रणाशनाः ॥ २३ ॥ द्वारशाखाकारनिकराधरथिकान्विताः । वाहिका बाह्यपक्षे तु गजैःसिंहरलकृताः ॥२४॥ तदूर्व तोरणं कुर्यात् पञ्चधा प्रोच्यते बुधैः । लीलोदरं च ललितं श्रीपुञ्ज नन्दिवर्धनम् ॥ २५॥ चित्रकूटाभिधेयं च पञ्चमं तोरणं मतम् । ललितं चेलिकाकारं त्रिरथिकं लीलोदरम् ॥ २६ ॥ श्रीपुश पञ्चरथिकं सप्तभिनन्दिवर्धनम् । नवभिश्च रथैर्युक्तं चित्रकूटं च कामदम् ॥ २७ ॥ रथिका याम्योत्तरयोर्मकरी विकृतानना । रथिकोभयपक्षे तु ईलिका वलणैर्युता ॥२८॥ ब्रह्मविष्णू रवि कुर्याद् भद्राद्या गौरिकास्तथा । चण्डिका बुद्धमहन्तं गणनाथादि शोभनम् ॥ २९ ॥ यादग्वर्णोद्भवा अास्ताक् परिकरादिकम् । विवर्णादौ महादोषो धाट्यमाने तु सर्वतः ॥ ३०॥ रस्नादिकोदभवेष्वेव मार्कतस्फाटिकादिषु । न वैवाकीर्णदोषो पर्चा परिकरादिषु ॥ ३१ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छाथा -
सर्वप्रतिमाधिकारो नाम पञ्चदशोत्तर द्विशततमं सूत्रम् ॥